ज्वरः (jvaraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiज्वरः
- ज्वर्+घञ्
"बुख़ार, ताप, बुख़ार की गर्मी "
ज्वरः
- -
"आत्मा का बुखार, मानसिकपीड़ा, कष्ट, दुःख, रञ्ज, शोक"
ज्वरः
- ज्वर्+थ
"ताप, बुखार"
ज्वरः
- ज्वर्+थ
मानसिक ताप
Wordnet
Sanskrit शीतज्वरः, ज्वरः, शीतगात्रः, शीतरूरः, शीताङ्गः
शैत्यस्य ज्वरस्य च पर्यायवृत्तिः।
"शीतज्वरः विषाणुजः रोगः अस्ति।"
ज्वरः, तापः, देहदाहः
शरीरस्य अस्वस्थतासूचकः दाहः।
"सः ज्वरेण पीडितः अस्ति।"
Tamil
Tamilஜ்வர: : ஜுரம், உஷ்ணம், சூடு, தாபம், துக்கம், வருத்தம்.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
अमरकोशः
SanskritWord: ज्वरः
Root: ज्वर
Gender: पुं
Number: all
Meaning(s):
⇒ pain
⇒ fever
⇒ grief
⇒ affliction
⇒ mental pain
⇒ fever of the soul
Shloka(s):
2|6|56|1 ► व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|56|1 ⇢ ज्वरः (ज्वर) (पुं) ⇒ pain, fever, grief, affliction, mental pain, fever of the soul
Related word(s):
परा_अपरासंबन्धः ➡ रोगः
जातिः ➡ अवस्था
शब्दकल्पद्रुमः
Sanskritज्वरः, (ज्वरति जीर्णो भवत्यनेन । ज्वर +करणे घञ् भावे घञ् वा । संज्ञापूर्व्वक-त्वात् वृद्ध्यभावः ।) ज्वरणम् । स्वनामख्यात-रोगः । तत्पर्य्यायः । जूर्त्तिः २ । इत्यमरः । ३ ।२ । ३९ ॥
ज्वरिः ३ आतङ्कः ४ रोगपृष्ठः ५महागदः ६ । इति राजनिर्घण्टः ॥
तापकः ७सन्तापः ८ । इति शब्दरत्नावली ॥
* ॥
तस्योत्पत्तिर्यथा, --“कालाग्निरुद्रः कोपेन चिक्षेप ज्वरमुल्वणम् ।बभूवुर्य्यादवाः सर्व्वे ज्वराक्रान्ता हरिं विना ॥
तं दृष्ट्वा भगवान् कृष्णः ससर्ज्ज वैष्णवं ज्वरम् ।तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्द्धनि ॥
” * ॥
माहेशज्वराकारो यथा, --“जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ।शिवभक्तश्च योगी च स एव विकृताकृतिः ॥
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥
” * ॥
तस्य भेदाः ।“वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च ।ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ॥
”इति ब्रह्मवैवर्त्तपुराणम् ॥
* ॥
जातिभेदे ज्वरभेदो यथा, हरिवंशे ।श्रीकृष्ण उवाच ।“शृणुष्व ज्वर ! सन्देशं यथा लोके चरिष्यसि ।सर्व्वजातिषु विन्यस्तस्तथा स्थावरजङ्गमे ॥
त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसि ।चतुष्पादान् भजैकेन द्वितीयेन च स्थावरान् ॥
तृतीयो यश्च ते भागो मानुषेषूपपत्स्यते ।त्रिधाभूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥
चतुर्थो यस्तृतीयस्य भविष्यति च ते ध्रुवम् ।एकान्ततश्चतुर्भागः खोरकश्च चतुर्थकः ॥
मानुषेष्वथ खेदाय वस त्वं प्रविभज्य वै ।जातिष्वथावशेषाषु निवस त्वं शृणुष्व मे ॥
”अस्यार्थः । “मानुषेषु यस्तृतीयो भागः तस्यचतुर्भागं कृत्वा एकांशेन पक्षिषु वस द्बितीयेनएकान्ता देवास्तेषु तृतीयांशः खोरकः चतु-र्थांशेन मानुषेषु वस ॥
”“वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः ।पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च ॥
”आतुर्य्यं निःसारताः ॥
“पद्मिनीषु हिमो भूत्वा पृथिव्यामपि चोषरः ।अपां तु नीलिकां विद्यात् शिखोद्भेदश्च वर्हिणाम् ॥
गैरिकः पर्व्वतेष्वेव मत्प्रसादाद्भविष्यसि ।गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ॥
एवं विविधरूपेण भविष्यसि महीतले ।दर्शनात् स्पर्शनाच्चैव प्राणिनां वधमेष्यसि ॥
ऋते देवमनुष्यांश्च नान्यस्तां विषहिष्यति ॥
”तस्य गारुडोक्तनिदानादिर्यथा, --धन्वन्तरिरुवाच ।“वक्ष्ये ज्वरनिदानं हि सर्व्वज्वरविबुद्धये ।ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः ॥
क्रोधो दक्षाध्वरध्वंसी रुद्रोर्द्ध्वनयनोद्भवः ।तत्सन्तापो मोहमयः सन्तापात्मापचारजः ॥
विविधैर्नामभिः क्रूरो नानायोनिषु वर्त्तते ।पाकलो गजेष्वभितापो वाजिष्वलर्क्कः कुक्कुरेषु ।इन्द्रमदो जलदेऽप्सु नीलिका ज्योतिरोषधिषुभूम्यामूषरो नाम ॥
* ॥
“हृल्लासश्छर्द्दनं कासः स्तम्भः शैत्यं त्वगादिषु ।अङ्गेषु शीतपिडकामात्रोदर्द्दः कफोद्भवे ॥
काले यथास्वं सर्व्वेषां प्रवृत्तिर्व्वृद्धिरेव वा ।निदानोक्तानुपशयो विपरीतोपशायिता ॥
* ॥
अरुचिश्चाविपाकश्च स्तम्भमालस्यमेव च ।हृद्दाहश्च विपाकश्च तन्द्रा आलस्यमेव च ॥
वस्तिर्विसर्गविलया दोषाणामप्रवर्त्तनम् ।लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम् ॥
यच्च सुष्टु गुरुत्वञ्च गात्राणां बहुमूत्रता ।न विजीर्णा न चाग्लानिर्ज्जरस्यामस्य लक्षणम् ॥
क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्द्दवम् ।दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ॥
* ॥
यथास्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि वा ।शिरोऽर्त्तिमूर्च्छावमिदेहदाह-कण्ठास्यशोषारुचिपर्व्वभेदाः ।उन्निद्रता संभ्रमरोमहर्षाजृम्भातिवाक्त्वं पवनात् सपित्तात् ॥
* ॥
तापहान्यरूचिपर्व्वशिरोरुक्-पीनसश्वसनकासविबन्धाः ।शीतजाड्यतिमिरभ्रमितन्द्राःश्लेष्मवातजनितज्वरलिङ्गम् ॥
* ॥
शीतस्तम्भस्वेददाहव्यवस्था-त्यष्णाकासश्लेष्मपित्तप्रवृत्तिः ।मोहस्तन्द्रालिप्ततिक्तास्यता चज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥
* ॥
सर्व्वजो लक्षणैः सर्व्वैर्द्दाहोऽत्र च मुहुर्म्मुहुः ।तद्वच्छीतं महानिद्रा दिवा जागरणं निशि ॥
सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा ।गीतनर्त्तनहास्यादिप्रकृतेहाप्रवर्त्तनम् ॥
साश्रुणी कलुषे रक्ते भग्ने लुलितपक्ष्मणी ।अक्षिणी पिण्डिकापार्श्वमूर्द्धपर्व्वास्थिरुग्भ्रमः ॥
सस्वनौ सरुजौ कर्णौ महास्वेदोऽति नैव वा ।परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्निभा ॥
रक्तपित्तकफे जिह्वा लोचने शिरसोऽतितृट् ।कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ॥
हृद्ब्यथा मलसंसर्गः प्रवृत्तिर्वाल्पशोऽति वा ।स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता ॥
दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम् ।सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम् ॥
वायुना कफरुद्धेन पित्तमन्तःसुपीडितम् ।व्यवायित्वाच्च सौख्याच्च वहिर्म्मार्गं प्रपद्यते ॥
तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे ।दोषे विवृद्धे नष्टेऽग्नौ सर्व्वसंपूर्णलक्षणः ॥
असाध्यः सोऽन्यथाकृच्छ्रो भवेद्वैकल्यदोऽपि वा ।अन्यश्च सन्निपातोत्थो यत्र पित्तं पृथक् स्थितम् ॥
त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा ।तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः ॥
शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते ।शीते शान्तेऽष्टके मूर्च्छा मदस्तृष्णा च जायते ॥
दाहादौ पुनरन्ते स्युस्तन्द्रास्वेदवमिक्रमाः ॥
* ॥
आगन्तुरभिघाताभिषङ्गशापाभिचारतः ॥
चतुर्द्धा तु कृतच्छेददाहाद्यैरभिघातजः ॥
* ॥
श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् ॥
सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम् ।ग्रहावेशौषधिविषक्रोधभीशोककामजः ॥
अभिषङ्गाद्ग्रहेणास्मिन्न कस्मात्त्रासरोदने ।ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः ॥
* ॥
विषाम्मूर्च्छातिसारास्यश्यावता दाहतृड्भ्रमः ।क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे ॥
कामाद्भ्रमोऽरुचिर्द्दाहो ह्नीनिद्राधीधृतिक्षयः ॥
ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः ॥
कोपः कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ ।सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥
* ॥
तत्राभिचारिकैर्म्मन्त्रैर्हूयमानस्य तप्यते ।पूर्व्वञ्चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः ॥
सदाहमूर्च्छैर्ग्रस्तस्य प्रत्यहं वर्द्धते ज्वरः ।इति ज्वरोऽष्टधा दृष्टः समासाद्बिविधस्तु सः ॥
शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्व्वहिराश्रयः ।प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः ॥
पूर्व्वं शरीरे शारीरे तापो मनसि मानसे ।पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥
दाहः पित्तयुते मिश्रं मिश्रेऽन्तःसंश्रये पुनः ।ज्वरोऽधिकं विकाराः स्युरन्तःक्षोभो मलग्रहः ॥
वहिरेव वहिर्व्वेगे तापोऽपि च सुसाधितः ।वर्षाशरद्बसन्तेषु वाताद्यैः प्राकृतः क्रमात् ॥
वैकृतोऽन्यः सुदुःसाध्यः प्रायश्च प्राकृतोऽनिलात् ।वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् ॥
कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः ।तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥
कफो वसन्त तमपि वातपित्तं भवेदनु ।बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥
सर्व्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ।ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्ब्बहुमूत्रता ॥
न प्रवृत्तिर्न विजीर्णा न क्षुत् सामज्वराकृतिः ।ज्वरवेगोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः ॥
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥
जीर्णतामविपर्य्यासात् सप्तरात्रञ्च लङ्घनात् ।ज्वरः पञ्चविधः प्रोक्तो मलकालबलावलात् ॥
प्रायशः सन्निपातेन भूयसाप्युपदृश्यते ।सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।धातुमूत्रशकृद्बाहिस्रोतसा व्यापिनो मलाः ॥
तापयन्तस्तनूं सर्व्वां तुल्यदृष्ट्यादिवर्द्धिताः ।बलिनो गुरवस्तद्बद्बिशेषेण रसान्विताः ॥
सततं निष्प्रतिद्वन्द्वा ज्वरं कुर्य्युः सुदुःसहम् ।मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत्ततः ॥
सर्व्वाकाररसादीनां शुद्ध्याशुद्ध्यापिवा क्रमात् ।वातपित्तकफैः सप्तदशद्बादशवासरान् ॥
प्रायोऽनुयाति मर्य्यादां मोक्षाय च वधाय च ।इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥
द्विगुणा सप्तमी या च नवम्येकादशी तथा ।एषा त्रिदोषमर्य्यादा सोक्षाय च वधाय च ॥
शुद्ध्यशुद्ध्यै ज्वरः कालं दीर्घमप्यत्र वर्त्तते ।कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ॥
अल्पोऽपि दोषो दुष्ट्यादेर्लब्घान्यतमतो बलम् ।स प्रत्यनीको विषमं यस्मावृद्द्धिक्षयान्वितः ॥
सोऽरिपक्षो ज्वरं कुर्य्याद्बिषमक्षयवृद्धिभाक् ।दोषः प्रवर्त्तते तेषां स्वे काले ज्वरयन् बली ॥
निवर्त्तते पुनश्चैव प्रत्यनीकबलाबलः ।क्षीणदोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥
लीनत्वात् कार्ष्यवैवर्ण्यजाड्यादीनादधाति सः ।आसन्नबिवृतास्यत्वात् स्रोतसां रसवाहिनाम् ॥
आशु सर्व्वस्य वपुषो व्याप्तिद्दोषेण जायते ।सन्ततः सततस्तेन विपरीतो विपर्य्ययात् ॥
विषमो विषमारम्भः क्षपाकालेन सङ्गवान् ।दोषो रक्ताशयः प्रायः करोति सन्ततं ज्वरम् ॥
अहोरात्रस्य सन्धिः स्यात् सकृदन्येद्युराश्रितः ।तस्मिन्मांसवहा नाडी मेदोनाडी तृतीयके ॥
ग्राही पित्तानिलाम्मूर्द्ध्नस्त्रिकस्य कफपित्ततः ।स पृष्ठास्यानिलकफात् स चैकाहान्तरः स्मृतः ॥
चतुर्थको मलैर्म्मेदो मज्जास्थ्यन्यतरस्थिते ।मज्जामूत्ररैत्यपरः प्रभावमनुदर्शयेत् ॥
द्बिविधं कफेन जङ्घाभ्यां स पूर्व्वं शिरसोऽनिलात् ।अस्थिमज्जारूपगते चातुर्थकविपर्य्ययः ॥
त्रिधा त्र्यहं ज्वरयति दिनमेकञ्च मुञ्चति ।बलाबलेन दोषाणामनुचेष्ठादिजन्मनाम् ॥
पक्वानामविपर्य्यासात् सप्तरात्रन्तु लङ्घयेत् ।ज्वरः स्यात् मनसस्तद्वत् कर्म्मणश्च तदा तदा ॥
गम्भीरधातुचारित्वात् सन्निपातेन सम्भवात् ।तुल्यो ब्रूयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥
सूक्ष्मात् सूक्ष्मतरास्येषु दूराद्दूरतरेषु च ।दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥
याति देहञ्च नाशेषं सन्तापादीन् करोत्यतः ।क्रमो यत्नेन विच्छिन्नः सन्तापो लक्ष्यते ज्वरः ॥
विषमो विषमारम्भः क्षपाकालानुसारवान् ।यथोत्तरं मन्दमतिर्मन्दशक्तिर्यथायथम् ॥
कालेनाप्नोति सदृशान् स रसादींस्तथा तथा ।दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥
* ॥
भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते ।अङ्कराय यथा बीजं दोषबीजं भवेत्तथा ॥
वेगं कृत्वा विषं यद्वदाशये नीयते बलम् ।कुप्यत्याप्तबलं भूयः काले दोषविषं तथा ॥
एवं ज्वराः प्रवर्त्तन्ते विषमाः सततादयः । * ।उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम् ॥
अरोचको वमिः श्वासः सर्व्वस्मिन्रसगे ज्वरे ।रक्तनिष्ठीवनं तृष्णा अक्ष्णोस्तु पिडकोद्गमः ॥
दाहरागभ्रममदप्रलापो रक्तसंश्रिते ।तृड्ग्लानिस्पष्टवर्च्चस्कमन्तर्द्दाहो भ्रमस्तमः ॥
दौर्ब्बल्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते ।स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं चासहिष्णुता ॥
प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेदनम् ।दोषप्रवृत्तिरूर्द्ध्वाधःश्वासाङ्गक्षेपकूजनम् ॥
अन्तर्द्दाहो वहिःशैत्यं श्वासो हिक्वा च मज्जगे ।तमसो दर्शनं मर्म्मच्छेदनं स्तब्धमेढ्रता ॥
शुक्रप्रवृत्तिर्म्मृत्युश्च जायते शुक्रसंश्रये ।उत्तरोत्तरदुःसाध्याः पञ्चान्ये तु विपर्यये ॥
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेति च ।मन्दज्वरः प्रलापस्तु सशीतः स्यात् प्रलेपकः ॥
नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण गच्छति ।स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥
* ॥
हरिद्रामेदवर्णाभस्तद्बल्लेपः प्रमेहति ।स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥
कफवातौ समौ यत्र हीनपित्तस्य देहिनः ।तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजोज्वरः ॥
दिवाकरापीतबले व्यायामाच्च विशोषिते ।शरीरे नियतस्थाता ज्वरः स्यात् पौर्व्वरात्रिकः ।आमाशये यदा दुष्टे श्लेष्मपित्ते ह्यधःस्थिते ।तदार्द्धं शीतलं देहे त्वर्द्धं चोष्णं प्रजायते ॥
* ॥
काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः ।उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥
* ॥
रसरक्ताश्रयः साध्यो मांसमेदो गतश्च यः ।अस्थिमज्जागतः कृच्छ्रस्तैस्तै साङ्गैर्हतप्रभः ॥
* ॥
विसंज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्ष्यते ।सदोषशब्दञ्च शकृद्द्रवं मुञ्चति वेगवत् ॥
* ॥
देहो लघुर्व्यपगतक्लममोहतापःपाको मुखे करणसौष्ठवमव्यथत्वम् ।स्वेदः क्षवः प्रकृतिगामि मनोऽन्नलिप्साकण्डूश्च मूर्द्ध्नि विगतज्वरलक्षणानि ॥
इत्यादि महापुराणे गारुडे ज्वरनिदानंसमाप्तम् । १५२ अध्यायः ॥
अथ ज्वरस्य चिकित्सा ।यन्वन्तरिरुवाच ।“ज्वरोऽष्टधा पृथक् द्बन्द्वसंङ्घातागन्तुजः स्मृतः ।मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये ॥
१ ॥
नागरं देवकाष्ठञ्च धन्याकं वृहतीद्बयम् ।दद्यात् पाचनकं पूर्व्वंज्जरिताय ज्वरापहम् ॥
२ ॥
आरग्वधाभयामुस्ततिक्तग्रन्थिकनिर्म्मितः ।कषायः पाचनं सामे सशूले च ज्वरे हितः ॥
३ ॥
मधूकसारसिन्धूत्थवचोषणकणाः समाः ।श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्य्यात् संज्ञाप्रबोधनम् ॥
४त्रिवृद्बिशालात्रिफलाकटुकारग्वधैः कृतः ।सक्षारो भेदनं क्वाथः पेयः सर्व्वज्वरापहः ॥
५ ॥
महौषध्यमृतामुस्तचन्दनोशीरधान्यकैः ।क्वाथस्तृतीयकं हन्ति शर्क्करामधुयोजितः ॥
६ ॥
अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः ।बद्ध्वा वारे रवेर्नूनं ज्वरं हन्ति तृतीयकम् ॥
७ ॥
गङ्गाया उत्तरे कूले ह्यपुत्त्रस्तापसो मृतः ।तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥
८ ॥
गुडूच्याः क्वाथकल्काभ्यां त्रिफलाया वृषस्य च ।मृद्वीकाया बलायाश्च सिद्धाः स्नेहाः ज्वर-च्छिदः ॥
९ ॥
धात्री शिवा कणा वह्निक्वाथः सर्व्वज्वरान्तकः १०ज्वरातिसारहरणमौषधं प्रवदाम्यथ ।पृश्निपर्णीबलाविल्वनागरोत्पलधान्यकैः ॥
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकाः स्मृताः ।जयन्त्याममतीसारज्वरं रसमहौषधाः ॥
११ ॥
नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ।सर्व्वज्वरहरः क्वाथः सार्व्वातीसारनाशनः ॥
१२ ॥
मुस्तपर्पटकोदीच्यशृङ्गवेवशृतं पयः ।शालपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥
बलाश्वदंष्ट्राविल्वानि पाठा नागरधान्यकम् ।एतदाहारसंयोगे हितं सर्व्वातिसारिणाम् ॥
१३विल्वचूतास्थिनिर्य्यूहः खण्डं मध्वतिसारणुत् । १४ ।अतीसारे हितस्तद्बत् कुटजत्वक्फलावृतः ॥
१५ ॥
वत्सकातिविषाविल्वबालाकन्दकषायकः ।सविश्व आमशूलाढ्ये ह्यतीसारे सशोणिते ॥
” १६इति गारुडे १७४ अध्यायः ॥
अपि च ।“हस्तबद्धं पलाशस्य अपामार्गस्य वा हर ! ।मूलं सर्व्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥
१७ ॥
पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ॥
१८ ॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् । १९ ।एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ॥
” २०इति तत्रैव १९३ अध्यायः ॥
“वचा त्रिकटुकञ्चैव करञ्जं देवदारु च ।मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥
प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम् ।नस्यमालेपनञ्चैव स्नानमुद्बर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।भूतेभ्यश्च भयं हन्ति राजद्बारे च शासनम् ॥
२१अभयामलकद्राक्षाः पाठा चैव विभीतकम् ।शर्क्करा च समञ्चैव जग्धं ज्वरहरं भवेत् ॥
” २२इति च गारुडे १९९ अध्यायः ॥
* ॥
वैद्यकमते शिवज्वरस्योत्पत्तिर्यथा, --“दक्षापमानसंक्रुद्धरुद्रनिश्वाससम्भवः ।ज्वरोऽष्टधा पृथग्द्बन्द्वसंघातागन्तुजः स्मृतः ॥
तस्य विप्रकृष्टकारणकथनपूर्व्विका सम्प्राप्तिर्यथा, “मिथ्याहारविहारस्य दोषा ह्यामाशयाश्रयाः ।बहिर्न्निरस्य कोष्ठाग्निं ज्वरदाः स्यूरसानुगाः ॥
”तस्य सामान्यलक्षणं यथा, --“स्वेदावरोधः सन्तापः सर्व्वाङ्गग्रहणन्तथा ।युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ॥
” * ॥
तस्य पूर्व्वरूपं यथा, --“श्रमोऽरतिर्व्विवर्णत्वं वैरस्यं नयनप्लवः ।इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ॥
जृम्भाङ्गमर्द्दो गुरुता रोमहर्षोऽरुचिस्तमः ।अप्रहर्षश्च शीतञ्च भवत्युपत्स्यति ज्वरे ॥
” * ॥
सन्ततादिज्वराणां प्रति नियतदूष्या धातवोयथा, “सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ।मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ॥
कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ।सप्ताहं वा दशाहं वा द्बादशाहमथापि वा ॥
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ।अहोरात्रे सततको द्वौ कालावनुवर्त्तते ॥
अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्त्तते ।तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ।कफपित्तात्त्रिकग्राही पृष्ठाद्बातकफात्मकः ॥
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ।चातुर्थको दर्शयति प्रभावं द्बिविधं ज्वरः ॥
जङ्घाभ्यां श्लैष्मिकः पूर्व्वं शिरस्तोऽनिलसम्भवः ।विषमज्वर एवान्यश्चातुर्थकविपर्य्ययः ॥
मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति ॥
” * ॥
वातबलासकज्वरो यथा, --“नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति ।स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी ॥
”विषमज्वरविशेषाः ।“विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते ।तेनार्द्धं शीतलं देहे चार्द्धञ्चोष्णं प्रजायते ॥
” * ॥
शीतपूर्व्वो ज्वरो यथा, --“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे ।तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ॥
”दाहपूर्व्वो ज्वरो यथा, --“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ॥
द्बावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।दाहपूर्व्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ॥
”उक्तवातादिज्वराणां धातुविशेषदूष्यतयाअधिकलक्षणानि यथा, --“गुरुता हृदयोत्क्लेशः सदनं छर्द्द्यरोचकौ ।रसस्थ तु ज्वरे लिङ्गं दैन्यञ्चास्योपजायते ॥
१ ॥
रक्तनिष्ठीवनं दाहो मोहश्छर्द्दनविभ्रमौ ।प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ॥
२पिण्डिकोद्वेष्टनं तृष्णासृष्टमूत्रपुरीषतः ।उष्मान्तर्द्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ॥
३भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्द्दिरेव च ।दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ॥
४भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्द्दिरेव च ।विक्षेपणञ्च गात्राणामेतदस्थिगते ज्वरे ॥
५ ॥
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा ।अन्तर्द्दाहो महाश्वासो मर्म्मच्छेदश्च मज्जगे ॥
६ ॥
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ।शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥
” ७अथ वैद्यकमते सामान्यतो ज्वरस्य चिकित्सा-माह ।“अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात् ।साधारणीं क्रियान्तत्र विदधीत चिकित्सकः ॥
सामान्यतो ज्वरी पूर्व्वं निर्व्वाते निलये वसेत् ।निर्व्वातमायुषो वृद्धिमारोग्यं कुरुते यतः ॥
व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः ॥
तालवृन्तभवो वातस्त्रिदोषशमनो मतः ॥
वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपणः ।चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा ॥
एते दोषजिता वाताः स्निग्धा हृद्याः सुपूजिताः ।नवज्वरी भवेद्यत्नाद्गुरूष्णवसनावृतः ।यथर्त्तुपक्कं पानीयं पिबेत् किञ्चिन्निवारयन् ॥
विनापि भेषजैर्व्याधिः पथ्यादेव निवर्त्तते ।न तु पथ्यविहीनस्य भेषजानां शतैरपि ॥
” * ।ततो ज्वरे वर्ज्जनीयान्याह सुश्रुतः ।“परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च ।दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम् ॥
क्रोधप्रवातभोज्यानि वर्ज्जयेत्तरुणज्वरी ॥
”परिषेकः स्नानादिः । प्रदेहो अनुलेपना-भ्यङ्गादिः । स्नेहान् पाने निषिद्धान् ॥
* ॥
निषिद्धानिषेधाद्दोषमाह ।“शोषं छर्द्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम् ।प्राप्नोत्युपद्रवानेतान् परिषेकादिसेवनात् ॥
”आदिशब्देन प्रदेहादयो गृह्यन्ते ॥
* ॥
हारीतेन प्रव्येकं दूषणमुक्तम् ।“व्यायामाज्ज्वरसंवृद्धिर्व्यवायात् स्तम्भमूर्च्छनम् ।मृतिश्च स्नेहपानात्तु मूर्च्छा छर्द्दिमदोऽरुचिः ॥
गुर्व्वन्नभोजनात् स्वप्नाद्बिष्टम्भो दोषकोपनम् ।अग्निसादः खरत्वञ्च श्रोतसां चाप्रवर्त्तनम् ॥
”मृतिरिति व्यवायादित्यत्र सम्बध्यते । स्वप्नात्दिवास्वापात् ॥
* ॥
अन्यच्च वर्ज्जयेत् ।“सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च ।असात्म्यान्यन्नपानानि विरुद्धाध्यशनानि च ॥
व्यायाममतिचेष्टाञ्चाभ्यङ्गं स्नानञ्च वर्ज्जयेत् ।तेन ज्वरः शमं याति न शान्तश्च पुनर्भवेत् ॥
ज्वरी लङ्घनं कुर्य्यादिति चरकः वाग्भटश्च ।”“आमाशयस्थो हत्वाग्निं सामो मार्गं पिधापयन् ।विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥
”अस्यायमर्थः । “यतो हेतोः आमाशयस्थो दोषोवातपित्तश्लेष्मरूपः स्वहेतुदुष्टः अग्निं हत्वाआच्छाद्य सामः अपक्वाहारसहितोमार्गं रस-मार्गं पिधापयन् । अत्रार्षत्वादर्हतावपि कर्त्त-रीन् । तेन पिदधदित्यर्थः । ज्वरं करोति तस्मा-द्धेतोर्ज्वरी लङ्घनमाचरेदित्यर्थः ॥
* ॥
“त्रिविधं त्रिविधे दोषे तत् समीक्ष्य प्रयोजयेत् ।दोषेऽल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् ।प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् ॥
”चक्रश्च ।“तरुणन्तु ज्वरं पूर्व्वं लङ्घनेन क्षयं नयेत् ।आमदोषमलिङ्गाद्वा लङ्घयीत यथाविधि ॥
”अन्यच्च ।“ज्वरादौ लङ्घनं कुर्य्यात् ज्वरमध्ये तु पाचनम् ।ज्वरान्ते रेचनं कुर्य्यात् कोष्ठशुद्ध्यै यथाबलम् ॥
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च ।लङ्घितश्चाप्यदोषश्च यवागूपानमाचरेत् ।शालिषष्टिकमुद्गानां यूषं वा शस्तमाहरेत् ।पञ्चकोलेन संसिद्धा यवागूर्म्मध्यलङ्घने ॥
अतिलङ्घितञ्च तं दृष्ट्वा तस्य सन्तर्पणं हितम् ।द्राक्षादाढिमखर्ज्जूरपियालैः सपरूषकैः ॥
तर्पणार्हे तु कर्त्तव्यं तर्पणं ज्वरशान्तये ॥
”अत्र लङ्घनशब्देनानशनमुच्यते । यत आहसुश्रुतः ।“आनद्धस्तिमितैर्दोषैर्य्यावन्तं कालमातुरः ।तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत् ॥
”आनद्धस्तिमितैर्द्दोषैर्निश्चलैर्दोषैः सम्बद्धः ।संसर्गं औषधान्नादिप्रसङ्गम् ॥
* ॥
यत्तु चरक आह ।“चतुःप्रकारा संशुद्धिः पिपासा मारुतातपौ ।पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥
”चतुःप्रकारा संशुद्धिः वमनविरेचननिरूहवस्ति-शिरोविरेचनानि । न त्वनुवासनं तस्य बृंहण-त्वात् । अत्र लङ्घनं कर्षणमित्यर्थः । तथा चसुश्रुतः ।“शरीरलाघवकरं यद्द्रव्यं कर्म्म वा पुनः ।तल्लङ्घनमिति ज्ञेयं बृंहणन्तु पृथग्विधम् ॥
लङ्घनात् कर्षणादन्यत् शरीरपोषकमित्यर्थः ॥
* ॥
ननु आनद्धस्तिमितैर्द्दोषैरित्यादिपूर्व्वोक्तसुश्रुत-वचनात् सामान्यतो ज्वरिणा यथाशनरूपंलङ्घनं क्रियते तथा चतुःप्रकारा संशुद्धिःइत्यादिचरकवचनाद्बमनादिरूपं लङ्घनं सर्व्वै-र्ज्वरिभिः कथं न क्रियते । तत्रोच्यते । वम-नादिकमवस्थाविशेषेषु क्रियते न तु सर्व्वज्वरेषु ।तथा च सुश्रुतः ।“सोत्क्लेशे बलिने देयं वमनं श्लैष्मिके ज्वरे ।पित्तप्राये विरेकस्तु कार्य्यः प्रशिथिलाशये ॥
”प्रशिथिलाशये अत्र प्रोपसर्गः वैपरीत्ये तेनगूढाशये इत्यर्थः ॥
* ॥
“सरुजेऽनिलजे कार्य्यं सोदावर्त्ते निरूहणम् ।कफाभिपन्ने शिरसि कार्य्यमूर्द्ध्वविरेचनम् ॥
”अपि च । सर्व्वज्वरिभिः पिपासानिग्रहश्च नकार्य्यः ॥
यत आह हारीतः ।“तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी ।तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम् ॥
”अतोऽवस्थाविशेष एव पिपासासहनम् ॥
* ॥
ज्वरिभिर्म्मारुतसेवनं न कार्य्यम् । सुश्रुतेन प्रवात-सेवनस्य सर्व्वथा निषिद्धत्वात् अतो मारुतसेवनंअवस्थाविशेष एव युक्तम् । आतपसेवनञ्चा-वस्थाविशेष एव संगृहीतम् ॥
* ॥
“लङ्घनाम्बुयवागूभिर्य्यदा दोषो न पच्यते ।तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ॥
ज्वरघ्नैः पाचनैर्हृद्यैः कषायैः समुपाचरेत् ।”इत्यत्र लङ्घनपाचनयोः स्फुट एव भेदः । व्याया-मोऽपि न कार्य्यस्तस्यातिनिषिद्धत्वात् । अवस्थाविशेषे पुनःपार्श्वपरिवर्त्तनादिरूपः सोऽपिकर्त्तव्यः । तस्माच्चतुःप्रकारा संशुद्धिरित्यादि-श्लोके लङ्घनपदं कर्षणपर्य्यायमिति निर्णीतम् ॥
अनशनरूपस्य लङ्घनस्य फलमाह ।“लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले ।विज्वरत्वं लघुत्वञ्च क्षुच्चैवास्योपजायते ॥
लङ्घनेन अनशनेन दोषे प्रवृद्धे क्षयं नीते ।यत आह ।“आहारं पचति शिखी दोषानाहारवर्ज्जितः ।”पचतीति । सन्धुक्षितेऽनले आच्छादकदोषेसंक्षीणे अग्नौ प्रदीप्ते । यथोक्तसंप्राप्तिसामग्री-विघटनात् । विज्वरत्वं शरीरस्य गौरवाभावेनलघुत्वम् । क्षुत् बुभुक्षा च जायते इत्यर्थः ॥
* ॥
अन्यच्चाह सुश्रुतः ।“अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ।ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥
अनवस्थितदोषाग्नेः अनवस्थितः स्वस्थानादि-तस्ततो गतो दोषोऽग्निश्च यस्य तस्य ज्वरिणः ।काङ्घा अन्नाभिलाषः । रुचिः लङ्घनेनामपाका-न्मुखशोषादिनाशे मुखस्य यत् प्रकृतत्वं सैवरुचिः शोभा । रुचिः स्त्री दीप्तौ शोभायामभि-लाषयोरिति मेदिनीकारः ॥
* ॥
संप्रति कृतस्यलङ्घनस्य लक्षणमाह ।“वातमूत्रपुरीषाणां विसर्गाद्गात्रलाघवे ।हृदयोद्गारकण्ठास्य शुद्धौ तन्द्राक्लमे गते ॥
स्वेदे जाते रुचौ वापि क्षुत्पिपासासहोदये ।कृतं लङ्घनमादेश्यं निर्व्व्यथे चान्तरात्मनि ॥
”हृदयस्य शुद्धिरनवरोधः । उद्गारशुद्धिःसधूमा-म्लोद्गाराभावः । कण्ठस्य शुद्धिः कफाद्यलिप्तत्वम् ।आस्यशुद्धिः मुखस्य प्रकृतरसत्वम् । तन्द्राक्लमेतन्द्रया क्लमः तस्मिन् । तन्द्रा निद्रावत् ।क्लमोऽत्र ग्लानिः । क्षुत्पिपासासहोदये क्षुत्-पिपासाभ्यां सह युगपदुदये । अन्तरात्मनिमनसि । एतानि लक्षणाति मिलितान्येव सम्यक्कृतं लङ्घनं बोधयन्ति । न तु प्रत्येकम् ॥
* ॥
हीनस्य लङ्घनस्य लक्षणमाह ।“कफोत्क्लेशः सहृल्लासः ष्ठीवनञ्च मुहुर्म्मुहुः ।कण्ठास्यहृदयाशुद्धिस्तन्द्रा स्याद्धीनलङ्घने ॥
कफोत्क्लेशः कफस्य वमनायोपस्थितिः ॥
”हृल्लासः हृदयात् कट्वम्लनिर्गमः ॥
* ॥
अतिशयितस्य लङ्घनस्य लक्षणमाह ।“पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च ।क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥
मनसः संभ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि ।देहाग्निबलहानिश्च लङ्घनेऽति कृते भवेत् ॥
दौर्ब्बल्यं श्रोत्रनेत्रयोः कर्णनेत्रयोः स्वविषय-ग्रहणासामर्थ्यम् । मनसः संभ्रमः भ्रान्तिः ।ऊर्द्ध्ववात उद्गारबाहुल्यम् । हृदि तमः अन्ध-कारप्रविष्टस्येव ज्ञानम् ॥
* ॥
बलं रक्षन्लङ्घनं कारयेदित्याह ।“बलाविरोधिना चैनं लङ्घनेनोपपादयेत् ।बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥
अयमर्थः । एनं ज्वरिणं बलविरोधिना अनति-बलक्षयकारिणा लङ्घनेन उपपादयेत् उप-चरेत् । कुत इति चेत्तत्राह । यदर्थ इति । यस्मैआरोग्याय अयं क्रियाक्रमः चिकित्सोपक्रमः ।तत् आरोग्यं बलाधिष्ठानं बलाश्रयमित्यर्थः ॥
* ॥
केषाञ्चिदनशनस्य निषेधमाह सुश्रुतः ।तद्धि मारुततृष्णाक्षुन्मुखशोषभ्रमान्वितैः ।न कार्य्यं गुर्व्विणीबालवृद्धदुर्ब्बलभीरुभिः ॥
न क्षयाध्वश्रमक्रोधकामशोकचिरज्वरे ।तत् अनशनं उल्वणमारुतयुक्तेन ज्जरिणा नकार्य्यम् । मारुतोऽत्र निरामो बोद्धव्यः । सामे तुमारुते लङ्घनं कार्य्यमेव । यत आह तन्त्रान्तरे ।“अवश्यमेव कुर्व्वीत ज्वरी सामे समीरणे ।लङ्घनं ह्यामपाकार्थं न तदूर्द्ध्वं यथा कफे ॥
तदूर्द्ध्वं आमपक्वादूर्द्ध्वम् । अतएवोक्तम् ।कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ।आमक्षयादूर्द्ध्वमपि वायुर्न सहते क्षणम् ॥
” * ॥
आमस्य लक्षणमाह ।“आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात् ।आमसंज्ञां स लभते बहुव्याधिसमाश्रयः ॥
”तन्त्रान्तरे ।“आममन्नरसं केचित् केचित्तु मलसञ्चयम् ।प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते ॥
”अन्यच्च ।“अपि पक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम् ।सदनं सर्व्वगात्राणामाम इत्यभिशब्दितः ॥
तेनामेन समायुक्ता दोषा दूष्याश्च तादृशाः ।तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः ॥
”अत्र सामस्य वातस्य लक्षणमाह ।“वायुः सामो विबन्धाग्निसादतन्द्रान्त्रकूजनैः ।वेदना शोथनिस्तोदैः क्रमशोऽङ्गानिं पीडयेत् ॥
विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम् ॥
स्नेहाद्यैर्वृद्धिमायाति मेघसूर्य्योदये निशि ॥
”विचरेद्युगपद्बायुरामश्चैककालं विचरेत् ।कुपितः सामो वायुः भृशमतिशयेन गृह्णात्य-ङ्गानीत्यर्थः ॥
* ॥
तस्यैव निरामस्य लक्षण-माह ।“निरामो विशदो रूक्षो निर्व्विबन्धोऽल्पवेदनः ।विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ॥
* ॥
अत्र प्रसङ्गात् सामस्य पित्तस्य लक्षणमाह ।पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु ।अम्लीकाकण्ठहृद्दाहकरं श्यावं तथा स्थिरम् ॥
अम्लीका अम्बिलचुकी इति लोके ॥
* ॥
तस्य निरामस्य लक्षणमाह ।“निरामं पीतमाताम्रमत्युष्णं कटुकं सरम् ।दुर्गन्धि रुचिकृद्बह्निबलवर्द्धनमीरितम् ॥
अथ सामस्य कफस्य लक्षणमाह ।“आविलस्तन्तुलस्त्यानः कण्ठदेशेऽवतिष्ठते ।सामो वलाशो दुर्गन्धस्तृट्क्षुधोरभिघातकृत् ॥
स्त्यानः संहतः ॥
तस्य निरामस्य लक्षणमाह ।“श्लेष्मा निरामो निर्गन्धः फेनवांश्छेदवानपि ।भवेत् स पिण्डितः पाण्डुरास्यवैरस्यनाशकृत् ॥
”अथ सामस्य व्याधेर्लक्षणमाह ।“आलस्यतन्द्राहृदयाविशुद्धि-र्दोषाप्रवृत्त्याविलमूत्रताभिः ।गुरूदरत्वारुचिसुप्तताभि-रामान्वितं व्याधिमुदाहरन्ति ॥
आमं जयेल्लङ्घनकोलपेयालघ्वन्नसूपौदनतिक्तयूषैः ।विरूक्षणस्वेदनपाचनैश्चसंशोधनैरूर्द्ध्वमधस्तथैव ॥
तद्धि मारुततृष्णाक्षुदित्यादिश्लोके तृष्णापि निरा-मैव विवक्षिता तेन निरामतृष्णान्वितेन लङ्घनंनकार्य्यम् । सामायान्तु तृष्णायां लङ्घनं कार्य्यमेव ।तथा मुखशोषभ्रमावपि निरामावेव विवक्षितौ ।सामयोस्तु तयोर्ल्लङ्घनं कार्य्यमेव । गुर्व्विणीबाल-वृद्धादिभिरपि निरामैरेव लङ्घनं न कार्य्यम् ।सामैः पुनस्तैरपि लङ्घनं कार्य्यमेव । क्षयो घातु-क्षयोराजयक्ष्मा । वातजे ज्वरे लङ्घनं न कार्य्यम् ॥
ज्वरी लङ्घनेऽपि जलं पिबेदित्याह सुश्रुतः ।तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।अतः सर्व्वास्ववस्थासु न क्वचिद्बारि वारयेत् ॥
हारीतश्च ।तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी ।तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम् ॥
अवश्यं पेयमपि जलं ज्वरी किञ्चिद्बारयन्पिबेद्यत आह सुश्रुत एव ।जीवनं जीविनां जीवो जगत् सर्व्वन्तु तन्मयम् ।अतोऽत्यन्ततया सुज्ञो न क्वचिद्बारि वारयेत् ॥
जीवनं जलम् ॥
किञ्चित्तु वारयेदेव । तथा च ।ज्वरे नेत्रामये कोठे मन्देऽग्नावुदरे तथा ।अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥
व्रणे च अम्धुमेहे च पानीयं मन्दमाचरेत् ॥
प्रसेके मुखप्रसेके । मन्दमाचरेत् अल्पं पिबेत् ।यत आह ।“अतियोगेन सलिलं तृष्यतेऽपि प्रयोजितम् ।प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः ॥
* ॥
तच्च जलं ज्वरी शीतलं न पिबेदित्याह सुश्रुतः ।नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे ।सद्यःशुद्धौ तथाघ्माने व्याधौ वातकफोद्भवे ॥
अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ ।हिक्कायां स्नेहपाने च शीतं वारि विवर्ज्जयेत् ॥
”अन्यच्च स एव ।“सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते ।”अत्र शीतं जलमक्वथितं निषिद्धम् । तथा सतिक्वथितं ग्राह्यं आयातम् ॥
तत्र क्वथितस्य विधि-र्गणाश्च ।“क्वाथ्यमानन्तु निर्व्वेगं निष्फेनं निर्म्मलञ्च यत् ।तत्तोयं क्वथितं ज्ञेयं दोषघ्नं पाचनं लघु ॥
निर्व्वेगं शनैः ॥
क्वथितस्य विषयानाह सुश्रुतः ।“वातश्लेष्मज्वरार्त्ताय हितमुष्णाम्बु तृष्यते ।दीपनं स्यात् कफच्छेदि वातपित्तानुलोमनम् ॥
तद्धि मार्द्दवकृद्दोषस्रोतसां शीतमन्यथा ॥
”वाग्भटश्च ।“तृष्णायां प्राप्तमुष्णाम्बु पिबेद्बातकफज्वरे ।तत् कफं विलयं नीत्वा तृष्णामाशु निवर्त्तयेत् ॥
उदीर्य्य चाग्निं स्रोतांसि समुत्कृत्य विशो-धयेत् ।वातपित्तकफस्वेदशकृन्मूत्राणि सारयेत् ॥
” * ॥
अथोष्णोदकस्य लक्षणं गुणाश्च ।“क्वाथ्यमानन्तु निर्व्वेगं निष्फेनं निर्म्मलं तथा ।अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते ॥
ज्वरकासकफश्वासवातपित्ताममेदसाम् ।नाशनं वस्तिसंशोधि पथ्यमुष्णोदकं सदा ॥
* ॥
”अथर्त्तुभेदे जलस्य पाकभेदः ।त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते ।हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः ॥
” * ॥
अन्ये तु ।“निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् ।शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् ॥
अष्टमांशावशेषन्तु वारि वर्षासु शस्यते ।इति केचिद्बुधाः प्राहुर्ज्जेज्जटागमदर्शनात् ॥
”केचित्तु ।“वसुष्वङ्गेषु बाणेषु वेदेषु त्रिषु पक्षयोः ।एकभागावशेषं स्यादम्बु वर्षादिषु क्रमात् ॥
”अत्र दोषाणां यथोल्वणता हीनता वा तथाव्यवस्था कल्पनीया ॥
“तत् पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत् ।त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु ॥
” * ॥
त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा ।तस्य लक्षणं गुणाश्च ।“पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते ।आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् ॥
सद्यो ज्वरहरं ग्राहि दीपनं पाचनं लघु ।आनाहपाण्डुशूलार्शोगुल्मशोथोदरापहम् ॥
”अथर्त्तुभेदे जलस्य ग्रहणाय देशभेदः ।“हेमन्ते शिशिरे चाम्बु सारसं वा तडागजम् ।वसन्तग्रीष्मयोः कौप्यं वाप्यं वा नैर्झरं हितम् ॥
नादेयं वारि नादेयं वसन्तग्रीष्मयोर्ब्बुधैः ।विषवत् पत्रपुष्पादिदुष्टं निर्झरयोगतः ॥
औद्भिदं चान्तरीक्षं वा कौपं प्रावृषि च स्मृतम् ।शस्तं शरदि नादेयं नीरमंशूदकं परम् ॥
दिवा रविकरैर्ज्जुष्टं शीतं शीतकरैर्न्निशि ॥
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ।अनभिष्यन्दि निर्द्दोषमान्तरीक्षजलोपमम् ॥
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम् ॥
”अन्यच्च ।“शरद्यगस्तेरुदयादस्विलं सलिलं हितम् ।वृद्धसुश्रुतश्च ।“कार्त्तिके मार्गशीर्षे च पयोमात्रं प्रशस्यते ॥
”यथर्त्तुपक्वमपि जलं विषयविशेषे शीतलं पिबे-दित्याह सुश्रुतः ।“दाहातिसारपित्तासृङ्मूर्च्छामद्यविषार्त्तिषु ।मूत्रकृच्छ्रे पाण्डुरोगे तृष्णाच्छर्द्दिभ्रमेषु च ॥
मद्यपानात् समुद्भूते रोगे पित्तोत्थिते तथा ।सन्निपातसमुत्थे च शृतं शीतं प्रशस्यते ॥
”क्वथितस्य जलस्य शीतलकरणविशेषे गुण-विशेषमाह सुश्रुतः ।“शृताम्बु तत्त्रिदोषघ्नं यदन्तर्व्वास्पशीतलम् ।अरूक्षमनभिष्यन्दि कृमितृड्ज्वरहृल्लघु ॥
घारापातेन विष्टम्भि दुर्ज्जरं पवनाहतम् ॥
अन्तर्व्वास्पशीतलं पिहितमेव शीतलम् ।अत्रापरेऽपि विशेषाः ।“दिवा शृतं पयो रात्रौ गुरुतामधिगच्छति ।रात्रौ शृतं दिवा पीतं गुरुत्वमधिगच्छति ॥
तत्तु पर्य्युषितं वह्निगुणभ्रष्टं त्रिदोषकृत् ।गुर्व्वम्लपाकं विष्टम्भि सर्व्वरोगेषु निन्दितम् ॥
शृतं शीतं पुनस्तप्तं तोयं विषसमं भवेत् ।निर्य्युहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ॥
”रात्रौ तूष्णोदकस्य लक्षणमन्यदाह ।“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा ।अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत् ॥
”तस्य गुणाः ।“श्लेष्मानिलामदोषघ्नं दीपनं वस्तिशोधनम् ।श्वासकासज्वरहरं पीतमुष्णोदकं निशि ॥
”अन्यच्च ।“भिनत्ति श्लेष्मसङ्घातं मारुतं चापकर्षति ।अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि ॥
”रात्रावुष्णोदकञ्च तप्तमेव पिबेदित्याह ।“उष्णं तदग्निजननं लघ्वच्छं वस्तिशोधनम् ।पार्श्वरुक्पीनसाध्मानहिक्कानिलकफापहम् ॥
शस्तं तृट्श्वासशूलेषु सद्यःशुद्धौ नवज्वरे ॥
”विषयविशेषे त्वाममेव जलं शीतलं पिबेदित्याहसुश्रुतः ।“मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये ।भ्रमश्रमपरीतेषु तमके वमथौ तथा ॥
धूमोद्गारेऽविदग्धेऽन्ने शोषे च मुखकण्ठयोः ।ऊर्द्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥
”शीतमम्भः आममेव न तु क्वथितम् । क्वथितन्तुशीतं दाहादिषु यदुक्तं तत् सज्वरेषु । विज्वरेषुतु दाहादिष्वामं शीतं प्रशस्यते इति भेदः ॥
* ॥
आमादिजलानां जठराग्निना पाककालावधि-माह ।“आमं जलं पाकमुपैति यामंपक्वं पुनः शीतलमर्द्धयामम् ।पक्वं कदुष्णञ्च ततोऽर्द्धकालंकालास्त्रयः पीतजलस्य पाके ॥
पित्तमद्यविषोत्थेषु तिक्तकैः शृतशीतलम् ॥
”जलं हितमिति शेषः ॥
* ॥
तिक्तानि बहुलानितेभ्यो निर्धार्य्य योगमाह सुश्रुतः ।“मुस्तपर्पटकोदीच्यच्छत्राख्योशीरचन्दनैः ।शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये ॥
”छत्रात्र धान्यकम् । यत आह निघण्टौ धन्व-न्तरिः । कुस्तुम्बुरुः स्वर्णिकारा छत्रा धान्यंवितुन्नकमित्यादि । तद्गुणाश्च ।“धान्यकं दीपनं रुच्यं पाचनं स्वादुपाकि च ।दोषत्रयतृषादाहश्वासकासज्वरप्रणुदित्यादि ॥
”चक्रदत्तवङ्गसेनवृन्दादयः छत्रास्थाने नागरंपठन्ति । तद्यथा, --“मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैरिति ।नागरं कटुकमपि नात्र पित्तजनकं मधुरपाकि-त्वादिति तेषामभिप्रायः । नागरं नागरमुस्तकंइति केचित् । क्वचिदेकदेशेन समुदायोऽव-गम्यते । यथा भीमो भीमसेन इति । तीसटे तुनागरस्थाने पद्मकम् ॥
* ॥
एतस्य प्रक्रिया ।चन्दनैरित्यत्र सहार्थे तृतीया । तेन मुस्ता-दिभिः षड्भिरामैरेव क्षुण्णैः सहितं जलं शृतंजलमेव केवलं यथर्त्तुपक्वं पश्चात्तच्छीतलीकृतंदद्यात् । तथा च वङ्गसेनः ।यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यतेकर्षमात्रं ततो द्रव्यं ग्राहयेत् प्रास्थिकेऽम्भसि ॥
अस्यायमर्थः । यत् हेतोः । अप्सु जलेषु ।शृतशीतासु शृतासु केवलास्वेव यथर्त्तुपक्वासु ।शीतासु शीतलीकृतासु षडङ्गादि द्रव्यं प्रयु-ज्यते । आममेव संक्षुद्य जले स्थाप्यते । ततःप्रक्षेप्यत्वात् कर्षमात्रं द्रव्यं समुदितं षडङ्गादिप्रास्थिकेऽम्भसि प्रस्थमात्रे क्वथितशीतले जलेक्षेप्तुं ग्राहयेत् । अतएव षडङ्गमभिधाय षडङ्ग-पानीयमिति वङ्गसेनादिभिरुक्तम् । अस्मिन्पक्षे चन्दनं श्वेतं ग्राह्यं न तु रक्तम् । तत्-कषायलेपयोरेव प्रयोक्तुमुक्तम् । यत आह ।कषायलेपयोः प्रायो युज्यते रक्तचन्दनमिति ।षडङ्गपानीयमिदम् ॥
* ॥
षडङ्गादेः पाने तुविधातव्ये प्रक्रिया भिन्ना तामाह वङ्गसेनः ।कर्षमात्रमिह द्रव्यं ग्राहयेत् प्रास्थिकेऽम्भसि ।अर्द्धशृतं प्रयोक्तव्यं पाने पेयादिसम्बिधौ ॥
आदिशब्देन यूषयवागूविलेपिभक्तानिगृह्यन्ते ॥
*पानप्रक्रियां शार्ङ्गधरोऽप्येतामेवाह ।क्षुण्णं द्रव्यं पलं साध्यं चतुःषष्टिपले जले ।अर्द्धशिष्टन्तु तद्देयं पाने पेयादिसम्बिधौ ॥
पानप्रयोगञ्च षडङ्गमुक्तवान् । अस्मिन् पक्षेचन्दनं रक्तं ग्राह्यम् । कषायलेपयोः प्रायोयुज्यते रक्तचन्दनमिति वचनात् ॥
* ॥
अथ रक्तचन्दनस्य गुणाः ।तत्तु रक्तं हिमं स्वादु श्छर्द्दितृष्णास्रपित्तजित् ।तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम् ॥
षडङ्गादि प्रयुज्यते इत्यादि शब्देन वक्ष्यमाणायोगा उच्यन्ते । ते यथा, --श्रीपर्णीचन्दनोशीरपरूषकमधुकजम् ।पानं पित्तज्वरं हन्याच्छारिवाद्यं सशर्करम् ॥
अत्र श्रीपर्णीपरूषकयोः फले ग्राह्ये । मधूकस्यतु पुष्पम् । अन्यच्च ।हन्यात् सयष्टीमधुकं तथैवोत्पलपूर्व्वकम् ।पानं शृतं हिमं किंवा सोत्पलं शर्करायुतम् ॥
हन्यात् पित्तज्वरमिति शेषः । उत्पलमत्र-कमलमित्यादि ।दिवास्वापं न कुर्व्वीत यतोऽसौ स्यात्कफावहः ।ग्रीष्मवर्जेषु कालेषु दिवास्वापो निषिद्ध्यते ॥
उचितो हि दिवास्वापो नित्यं तेषां शरीरिणाम्वातादयः प्रकुप्यन्ति येषामस्वपतां दिवा ॥
* ॥
येषां दिवास्वप्न उचितस्तानाह ।व्यायामप्रमदाध्ववाहनरतान् क्लान्तानती-सारिणःशूलश्वासवतस्तृषापरिगतान् हिक्वामरुत्पीडि-तान् ।क्षीणान् क्षीणकफान् शिशून् मदहतान् वृद्धा-न्रसाजीर्णिनोरात्रौ जागरितान् नरान् निरशनान् कामंदिवा स्वापयेत् ॥
* ॥
अथ वातिकादिज्वराणां पाकावधिमाह ।वातिकः सप्तरात्रे तु दशरात्रेण पैत्तिकः ।श्लैष्मिको द्बादशाहेन ज्वरः पाकमुपैति हि ॥
*रसस्यामत्वेऽवधिमतिक्रम्यापि ज्वरस्तिष्ठति ।यत आह सुश्रुतः ।बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ।लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते ॥
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ।कषायैः पाचनैर्हृद्यैर्ज्वरव्नैः समुपाचरेत् ॥
* ॥
ज्वरस्य तारुण्यमध्यावस्थता जीर्णतावधिः ।आसप्तरात्रात्तरुणं ज्वरमाहुर्म्मनीषिणः ।द्बादशाहमभिव्याप्य मध्यं जीर्णं ततः परम् ॥
आसप्तरात्रादिति । अत्राङ् मर्य्यादायाम् ।रात्रिशब्दो दिवसस्योपलक्षकः । तेन सप्तम-दिवसादर्व्वाक् ज्वरस्तरुण इत्यर्थः । तथा चोक्तंतन्त्रान्तरे ।ज्वरे व्यतीते षडहे जीर्ण इत्युच्यते बुधैरिति ।दशरात्रात् परं जीर्णमाहुरन्ये मनीषिणः ।अतएव जातूकर्णः । जीर्णस्त्रयोदशदिवस इति ॥
अथ ज्वरे भेषजप्रयोगसमयः ।वातिके सप्तरात्रे तु दशरात्रेण पैत्तिके ।श्लैष्मिके द्बादशाहेन ज्वरे युञ्जीत भेषजम् ॥
सप्तरात्रे इत्यत्र रात्रिशब्दो दिवसस्योपलक्षकः ।अतएवोक्तम् ।पाययेदातुरं साममौषधं सप्तमे दिने ।शमनेनाथ वा दृष्ट्वा निरामं तमुपाचरेदिति ॥
शार्ङ्गधरेणाप्युक्तम् ।गुडूचीपिप्पलीमूलनागरैः पाचनं शृतम् ।वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनीति ॥
हारीतेनाप्युक्तम् ।एतां क्रियां प्रयुञ्जीत षड्रात्रं सप्तमेऽहनि ।पिबेत् कषायसंयोगात् पेयां ज्वरविनाशिनीम् ॥
एतां क्रियां लङ्घनादिरूपाम् । कषायसंयोगात्कषायेण साधितां पेयामित्यर्थः ॥
खरनादेना-प्युक्तम् ।इति षड्रात्रिकः प्रोक्तो नवज्वरहरो विधिः ।ततः परं पाचनीयं शमनीयं ज्वरे हितम् ॥
ततः परं सप्तमेऽहनीत्यर्थः ॥
वाग्भटश्च ।सप्ताहादौषधं केचिदाहुरन्ये दशाहतः ।लघन्ने भोजिते केचिद्देयमामोल्वणे न तु ॥
सप्ताहात् सप्ताहमारभ्येत्यर्थः । अत्र ल्यष्-लोपे कर्म्मणि पञ्चमी । अतएव सुश्रुतः ।दशरात्रात् परं सर्व्वैर्दातव्यमिति निश्चितम् ।अतएव दशरात्रेण द्बादशाहेनेति लङ्घनवताव्यतीतेनेत्यर्थः ॥
अत्र चरकस्त्वेवमाह ।ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम् ।पाचनं शमनीयं वा कषायं पाययेत्तु तम् ॥
अस्यायमर्थः । ज्वरितं षडहे लङ्घनेन व्यतीतेसप्तमेऽहनि भोजितलघ्वन्नं अष्टमे दिने कषायंपाययेदित्यर्थः ॥
तथा च सुश्रुतः ।सप्तरात्रात् परं केचिन्मन्यन्ते देयमौषधम् ॥
सप्तरात्रात् परं अष्टमेऽहनीत्यर्थः । केचि-च्चरकादयः । चक्रदत्तोऽपि ।सप्तरात्रेण पच्यन्ते सप्तधातुगता मलाः ।निरामस्तु ततः प्रोक्तो ज्वरः प्रायोऽष्टमे दिने ॥
एवं सति कषायदाने सप्तमाष्टमयोर्दिवसयो-र्व्विकल्पः ॥
* ॥
तत्रापि वयोबलाग्निदोषदेश-कालोचितं कुर्य्यात् भेषजमन्नञ्च दोषपाकं दृष्ट्वादद्यादित्याह सुश्रुतः ।“पैत्तिके वा ज्वरे देयमल्पकालममुत्थिते ।अचिरज्वरितस्यापि भैषज्यं दोषपाकतः ॥
” इति ।अस्यायमर्थः । अल्पकालसमुत्थिते पैत्तिके ज्वरेदोषपाकं दृष्ट्वा भैषज्यं देयम् । न तु तत्र दश-रात्रापेक्षा । तथा अचिरज्वरितस्यापि पैत्तिके-तरनवज्वरयुक्तस्यापि दोषपाकं दृष्ट्वा भैषज्यंदेयमित्यर्थः ॥
* ॥
दोषपाकलक्षणमाह सुश्रुतः ।मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।पक्वं दोषं विजानीयाज्जरे देयं तंदौषधमिति ॥
ज्वरे मृदौ स्वल्पीभूते । मलेषु वातपित्तकफ-मूत्रपुरीषेषु । प्रचलेषु स्वमार्गसञ्चारिषु । पक्वंनिरामम् । दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्ष-णम् । दोषाणां दुष्टवातपित्तकफानां प्रकृतिःज्वरस्य तदुपद्रवाणां चोत्पादनम् । तस्यावैकृत्यं वैपरीत्यं तस्मात् दोषपाकज्ञानं एकेषांमते ।क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्द्दवम् ।दोषप्रकृतिरुत्साहो निरामज्वरलक्षणम् ॥
दोषप्रकृतिः दोषाणां स्वमार्गसञ्चारः । माधब-निदाने उत्साहस्थाने अष्टाह इति पाठः ॥
* ॥
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् ।अत्रानुक्ते प्रभातं स्यात् कषायेषु विशेषतः ॥
मुख्यभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे ।तोयपेयादिसंस्कारैर्निर्दोषं तत्र भैषजम् ॥
मुख्यभैषजं क्वाथः तस्य सम्बन्धः पानम् ।यत आह ।न कषायं प्रशंसन्ति नराणां तरुणे ज्वरे ।कषायेणाकुलीभूता दोषा जेतुं सुदुस्तराः ॥
आकुलीभूताः प्रवृद्धाः स्वमार्गं परित्यज्ययतस्ततो गताः । अत्र कषायशब्देन क्वाथोगृह्यते ॥
* ॥
उक्ताश्च क्वाथस्य पर्य्यायाः ।शृतं क्वाथः कषायश्च निर्य्यूहः स निगद्यते ।तोयपेयादिसंस्कारैर्न्निर्द्दोषं तत्र भेषजमिति ॥
तत्र तरुणे ज्वरे भेषजं मुख्यभेषजं क्वाथरूपम् ।तोयपेयादिसंस्कारैर्न्निर्दोषम् । यत आह ।न तु कल्पनमुद्दिश्य कषायः प्रतिषिद्ध्यत इति ।कल्पनं तोयपेयायवाग्वादिकम् ॥
* ॥
ननु ।स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ ।ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥
इति वचनात् स्वरसादयोऽपि कथं न निषिध्यन्ते ।तन्न ।यः कषायः कषायः स्यात् स वर्ज्यस्तरुणे ज्वरे ।इति ।यः कषायः कषायः स्यात् चतुर्थभागावशेष-करणेन अष्टमभागावशेषकरणेन वा कषाय-वर्णः कषायरसञ्च स्यात् । स कः क्वाथः । सतरुणज्वरे निषिद्धः ॥
* ॥
क्वाथवाचकस्य कषा-यस्य लक्षणमाह ।पादशिष्टः कषायः स्याद्यः षोडशगुणाम्भसा ।क्वथितोऽतः षडङ्गादि न निषिद्धो नवज्वरे ॥
अस्यायमर्थः । यः क्वात्थ्यद्रव्यात् षोडशगुणेना-म्भसा क्वथितः पक्वः अथ च पादशिष्टः चतुर्थ-भागावशेषः स कषायः स्यात् । अतः षड-ङ्गादिस्तरुणज्वरे न निषिद्धः । अपाकादर्द्ध-पाकाच्चोक्तलक्षणाभावेन कषायत्वाभावात् ॥
* ॥
तरुणज्वरे कषायस्य दोषमाह ।“दोषा वृद्धाः कषायेण स्तम्भितास्तरुणे ज्वरे ।स्तम्भ्यन्ते न विपच्यन्ते कुर्व्वन्ति विषमज्वरम् ॥
कषायेण स्तम्भिताः प्रवृत्तये निवारिताः ।यत आह कषायरसगुणान् ।कषायः स्तम्भनः शीतो रूक्षः पित्तकफापहः ।इत्यादि ।स्तम्भ्यन्ते आध्मानं कुर्व्वन्ति । न विपच्यन्तेसुखेन न विपच्यन्ते दुःखं दत्त्वा विलम्बेन विप-च्यन्ते इति यावत् ॥
अन्यच्च ।“न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः ।तिर्य्यग्विमार्गगा वाते घोरं कुर्य्युर्नवज्वरम् ॥
* ॥
अनुपस्थितदोषाणां वमनं तरुणे ज्वरे ।हृद्रोगं श्वासमानाहमोहञ्च कुरुते भृशम् ॥
”अस्यायमर्थः । कफादिदोषोपस्थितौ स्वयमेवचेद्भवति वमनं न तद्दोषाय । अनुपस्थित-दोषाणान्तु तरुणे ज्वरे वमनं यत्नकृतं हृद्रो-गादीन् करोतीत्यर्थः । एतेन वचनेन तरुणेज्वरे यत्नाद् वमनं निषिद्धम् ॥
* ॥
अवस्थाविशेषे तदपि कर्त्तव्यमित्याह ।“सद्यो भुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते ।वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥
”वमनं वेति विकल्पो लङ्घनापेक्षया वमनार्हस्ये-त्यनेन गर्भिण्यतिकृशातिवृद्ध्यादिनिरासः । वाग्-भटोऽत्र वृद्धवाग्भटः ॥
“वमितं लङ्घयेत् प्राज्ञो लङ्घितं न तु वामयेत् ।वमनं क्लेशबाहुल्याद्धन्याल्लङ्घनकर्षितम् ।न कार्य्यं गुर्व्विणीबालवृद्धदुर्ब्बलभीरुभिः ॥
”अनशनमिति शेषः । अनेन वचनेन गुर्व्विण्या-दीनामनशननिषेधात् ज्वरे सामे पाचनं निरामेशमनं पथ्यान्नमण्डादिकञ्च दद्यात् ॥
* ॥
पाचनशमनयोर्ल्लक्षणमाह ।“यत् पचत्याममाहारं पचेदामरसञ्च यत् ।यदपक्वान् पचेद्दोषांस्तद्धि पाचनमुच्यते ॥
न शोधयति यद्दोषान् समान्नोदीरयत्यपि ।समीकरोति संवृद्धांस्तत् संशमनमुच्यते ॥
”न शोधयति नोर्द्ध्वाधोमार्गाभ्यां पातयति ।नोदीरयति न वर्द्धयति ॥
* ॥
तयोः संप्रदानंकालञ्चाह ।“पाययेदातुरं सामं पाचनं सप्तमे दिने ।शमनेनाथवा दृष्ट्वा निरामं तमुपाचरेत् ॥
तस्मादादौ प्रदेयन्तु पाचनं दिवसत्रयम् ।शमनीयं प्रदेयन्तु पञ्चरात्रं ततः परम् ॥
शोधनं दीपनञ्चैव एकरात्रं प्रदापयेत् ॥
”इत्यत्रिसंहितातः ॥
अन्यच्च ।“कृशञ्चैवाल्पदोषञ्च शमनीयैरुपाचरेत् ॥
”ननु ।“लालाप्रसेको हृल्लासो हृदयाशुद्ध्यरोचकौ ।तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता ॥
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः ।आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् ॥
भेषजं ह्यामदोषस्य भूयो जनयति ज्वरम् ॥
”भूयो बाहुल्येन । अन्यच्च ।“पाययेद्दोषहरणं मोहादामज्वरे तु यः ।स सुप्तं कृष्णसर्पन्तु कराग्रेण परामृशेत् ॥
”इति वचनादामज्वरे भेषजनिषेधात् कथं सामेज्वरे पाचनं देयम् । उच्यते निरुपद्रवे सामेज्वरे पाचनं देयम् । सोपद्रवे तु सामे भेषजंनिषिद्धम् । तथा च वाग्भटः ।“सप्ताहात् परतोऽदुष्टे सामे स्यात् पाचनं ज्वरे ।निरामे शमनं स्तब्धे सामे नौषधमाचरेत् ॥
”अदुष्टे निरुपद्रवे । स्तब्धे सोपद्रवे ॥
* ॥
अथसामान्यज्वरे पाचनं कषायमाह सुश्रुतः ।“नागरं देवकाष्ठञ्च ध्यामकं बृहतीद्बयम् ।दद्यात् पाचनकं पूर्व्वं ज्वरितेम्यो ज्वरापहम् ॥
ध्यामकं रौहिषम् । तदलाभादुशीरं दद्यात् ।बृहतीद्बयं बृहत्फला सूक्ष्मफला बृहती । क्षुद्राबृहती चेति । कण्टकारीद्बयं वा दद्यात् ॥
कण्टकारीद्बयं शुण्ठी ध्यामकं सुरदारु चेतिशार्ङ्गधरेण उक्तत्वात् । नागरादिक्वाथः सर्व्व-ज्वरेषु ॥
* ॥
अथ सामान्यतः संशमनीयान्याहसुश्रुतः ।“अथ संशमनीयानि कषायाणि निबोध मे ।सर्व्वज्वरेषु देयानि यानि वैद्येन जानता ॥
वृश्चीरविल्ववर्षाभूपयः सोदकमेव च ।पचेत् क्षीरावशेषं तत् पेयं सर्व्वज्वरापहम् ॥
वृश्चीरः श्वेतपुनर्नवा । वर्षाभू रक्तपुनर्नवा ।तथाच मदनपालः ।“पुनर्नवः श्वेतमूलो वृश्चीरो दीर्घपत्रकः ।पुनर्नवा परा रक्ता वर्षाभू रक्तपुष्पकः ॥
”पाकप्रकारमाह ।“क्षीरमष्टगुणं द्रव्यात् क्षीरान्नीरं चतुर्गुणम् ।क्षीरावशेषं पातव्यं क्षीरपाके ह्ययं विधिः ॥
”द्रव्यात् पलपरिमितात् ॥
अन्यच्च ।“उदकाद्द्विगुणं क्षीरं शिंशपासारमेव च ।तत् क्षीरशेषं क्वथितं पेयं सर्व्वज्वरापहम् ॥
गुडूचीधान्यकारिष्टं पद्मकं रक्तचन्दनम् ।एषां क्वाथः सुप्रसिद्धः सर्व्वज्वरहरः स्मृतः ॥
दीपनो दाहहृल्लासतृष्णाच्छर्द्द्यरुचीर्हरेत् ॥
”गुडूच्यादिक्वाथः ॥
* ॥
संशोधनं तरुणज्वरिणोनिषिद्धं तदाह सुश्रुतः ।“छर्द्दिं मूर्च्छां मन्दमोहं भ्रमतृड्विषमज्वरान् ।संशोधनस्य पानेन प्राप्नोति तरुणज्वरी ॥
”संशोधनस्य लक्षणमाह ।“स्थानाद्बहिर्नयेदूर्द्ध्वमधो वा दोषसञ्चयम् ।संशोधनं तदेव स्याद्देवदालीफलं यथा ॥
”निषिद्धमपि संशोधनमवस्थाविशेषे देयं यतआह ।“रोगे शोधनसाध्ये तु यं विद्याद्दोषदुर्ब्बलम् ।तं समीक्ष्य भिषक् कुर्य्याद्दोषप्रच्यावनं मृदु ॥
”शोधनसाध्यान् रोगानाह ।“सद्योज्वरे विषेऽजीर्णे मन्दाग्नावरुचौ तथा ।स्तन्यरोगे च हृद्रोगे कासे श्वासे च वामयेत् ॥
जीर्णज्वरगरच्छर्द्दिगुल्मप्लीहोदरेषु च ।शूले शोथे मूत्रघाते कृमिरोगे विरेचयेत् ॥
”दोषदुर्ब्बलं दोषैरुपचितैर्द्दुर्ब्बलं न तु उप-वासादिकृशम् । अतएव समीक्ष्येति । अन्यच्च ॥
“चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् ।अव्यापत् दुर्ब्बलस्यापि शोधनं हि तदा भवेत् ॥
”कुतो बलं नापेक्षणीयमित्याशङ्कायामाह ।तदा तस्यामवस्थायां शोधनं दुर्ब्बलस्यापि दोष-दुर्ब्बलस्यापि अव्यापत् भवेत् । छर्द्द्यादिव्याधि-कृत् न भवतीत्यर्थः ॥
* ॥
बलवतः पुरुषस्यपक्वस्य दोषस्य स्वस्थानस्थितस्य शोधनाविधानेदोषमाह सुश्रुतः ।“पक्वोऽप्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम् ।विषमं वा ज्वरं कुर्य्याद्बलव्यापादमेव च ॥
”पक्वः लङ्घनतिक्ताम्बुपानपेयादिभिः । अनि-र्हृतः अधोमार्गेणानुत्सृष्टः । महात्ययं विषम-ज्वरं चातुर्थकम् । तस्यैव महात्ययत्वादितिगदाधरः ॥
गम्भीरमिति कार्त्तिकः ॥
महा-त्ययं महाकष्टं वा । बलव्यापादं बलक्षयम् ॥
* ॥
संशीधनमाह ।“आरग्वधग्रन्थिकमुस्ततिक्ता-हरीतकीभिः क्वथितः कषायः ।सामे सशूले कफवातपित्त-ज्वरे हितो रेचनपाचनश्च ॥
”आरग्वध धनवहेरा ॥
अन्यच्च ।“पथ्यारग्वधतिक्तात्रिवृदामलकैः शृतं तोयम् ।पाचनसारकमुक्तं मुनिभिर्ज्जीर्णज्वरे सामे ॥
”इति आरोग्यपञ्चकद्बयम् ॥
* ॥
“अनन्तां बालकं मुस्तं नागरं कटुरोहिणीम् ।पिष्ट्वा मुखाम्बुना कल्कं पाययेदक्षसम्मितम् ॥
कल्कः स्वल्पेन कालेन हन्यात् सर्व्वज्वरानयम् ।विदध्यात् कोष्ठसंशुद्धिं दीपयेच्च हुताशनम् ॥
”अनन्ता सारिवा । इति सारिवादिकल्कः ॥
* ॥
संशोधनं संशमनञ्च येषां निषिद्धं तानाह ।“पीताम्बुर्ल्लङ्घनक्षीणो जीर्णी भुक्तः पिपासितः ।न पिबेदौषधं यत्तु संशोधनमथेतरत् ॥
”पीताम्बुः पीततिक्ताम्बुः । भुक्तः भुक्तवानित्यर्थः ।अत्राध्यवसितादित्वात् कर्त्तरि क्तप्रत्ययः । इतरत्संशमनम् ॥
* ॥
“त्रिफला रजनीयुग्मं कण्टकारीयुतं शटी ।त्रिकटु ग्रन्थिकं मूर्व्वा गुडूची धन्वयासकः ॥
कटुका पर्पटो मुस्तं त्रायमाणा च बालुकम् ।निम्बं पुष्करमूलञ्च मधुयष्टी च वत्सकः ॥
यवानीन्द्रयवो भार्गी शिग्रुबीजं सुराष्ट्रजा ॥
वचा त्वक् पद्मकोशीरचन्दनातिविषा बला ॥
शालीपर्णी पृश्निपर्णी विडङ्गं तगरं तथा ।चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् ॥
जीवकर्षभकौ चैव लवङ्गं वंशलोचनम् ।पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम् ॥
तालीशपत्रमेतानि समभागानि चूर्णयेत् ।अर्द्धांशं सर्व्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः ॥
एतत् सुदर्शनं नाम चूर्णं दोषत्रयापहम् ।ज्वरांश्च निखिलान् हन्यान्नात्र कार्य्या विचारणा ॥
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान् विषमांस्तथा ।सन्निपातीद्भवांश्चापि मानसानपि नाशयेत् ॥
शीतादीनपि दाहादीन् मोहं तन्द्रां भ्रमं तृषाम् ।कासं श्वासञ्च पाण्डुञ्च हृद्रोगं कामलामपि ॥
त्रिकपृष्ठकटीजानुपार्श्वशूलञ्च नाशयेत् ।शीताम्बुना पिबेदेतत् सर्व्वज्वरनिवृत्तये ॥
सुदर्शनं यथा चक्रं दानवानां विनाशनम् ।तद्वज्ज्वराणां सर्व्वेषां चूर्णमेतत् प्रणाशनम् ॥
”पुष्करमूलाभावे कुष्ठमपि दद्यात् । भार्ग्यभावेकण्टकारीमूलम् । सौराष्ट्राभावे स्फुटिकांदद्यात् । तगरालाभे कुष्ठं देयम् । जीवकर्षभ-कयोरलाभे विदारीकन्दस्य भागद्बयं दद्यात् ।पुण्डरीकं श्वेतकमलम् । काकोल्यभावे अश्व-गन्धामूलं दद्यात् । तालीशपत्रकाभावे स्वर्ण-ताली प्रदीयते । इति । अथवा कण्टकारीजटादेया । इति सुदर्शनचूर्णम् । * ।“शटी निशाद्वयं शुण्ठी दारु पुष्करमूलकम् ।एला गुडूची कटुका पर्पटश्च सवासकः ॥
भार्गी किराततिक्तञ्च दशमूलं तथैव च ।क्वाथमेषां पिबेत् कृष्णसिन्धुचूर्णयुतं नरः ॥
ज्वरान् सर्व्वान् द्रुतं हन्ति नात्र कार्य्याविचारणा ॥
”अनुभूतमत्युत्तममेतत् ॥
*“हरीतकीत्रिवृद्वृद्धदारकाणां पृथग्भवेत् ।पलद्वयं कणा शुण्ठी मुडूची गोक्षुरो वरी ॥
सहदेवी विडङ्गञ्च प्रत्येकं पलसम्मितम् ।मधुना वटिकां कृत्वा स्वादेत् ज्वरमपोहति ॥
कासं श्वासं मलस्तम्भं वह्निमान्द्यं नियच्छति ॥
लाक्षा दशाक्षा अरुणा षडक्षासचन्दनं लोहितचन्दनञ्च ।त्वक्पत्रकं वारि मुरा समुस्ताप्रत्येकमेतानि पलोन्मितानि ॥
किराततिक्तस्तिवृतासतिक्ता-मृताकणापर्पटकण्टकार्य्यः ।विडङ्गविश्वामलकानि वासा-रसानिशावारुणसिन्धुवाराः ॥
एतानि देयानि पृथक् पलार्द्ध-मानानि सर्व्वाणि च भेषजानि ।कल्कानमीषां विदधीत गव्य-दुग्धेन वै सार्द्धतुलामितेन ॥
तैलं तिलानान्तु तुलानुमानंतेनैव कल्केन शनैः पचेत्तु ।हन्यात् ज्वरान् तैलमिदं समस्तान्कुर्य्याद्बलं वीर्य्यमतीवपुष्टिम् ॥
विमर्द्दनादाशु परिभ्रमं श्रमंशमं नयेत् संजनयेत् द्युतिं तनोः ।तथा व्यथामस्थिसमुद्भवामपिप्रहत्य निद्रां समुपार्ज्जयेत् सुखम् ॥
”अरुणा मञ्जिष्ठा । वारि वाला । रसा रास्ना ।इति लाक्षादितैलम् ॥
* ॥
“लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम् ।अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः ॥
समूर्व्वारोहिणीरास्नाशताह्वामधुकैः समैः ।सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिना ॥
सर्व्वज्वरक्षयोन्मादश्वासापस्मारवातनुत् ।यक्षराक्षसभूतघ्नं गर्भिणीनाञ्च शस्यते ॥
”मस्तु दधिजलम् । कौन्ती रेणुका । चन्दन-मत्र श्वेतमेव न तु रक्तम् । रोहिणी कटुकी ।इति च लाक्षादितैलम् ॥
* ॥
“लाक्षा हरिद्रा मञ्जिष्ठा फेनिलं मधुकं बला ।लामज्जकं चन्दनञ्च चम्पकं नीलमुत्पलम् ॥
प्रत्येकमेषां षण्मुष्टीः पक्त्वा तोये चतुर्गुणे ।चतुर्भागावशेषे तु गर्भे चैतत् समापयेत् ॥
रेणुका पद्मकञ्चैव वाजिगन्धा तथैव च ।वेतसं चोरकं कुष्ठं देवदारु नखं त्वचम् ॥
शतपुष्पा पुण्डरीकं मांसी मधुकमेव च ।एभिरक्षमितैः कल्कैः कषायेणैव पेषितैः ॥
मस्तुशुक्तारनालानामाढकाढकमावपेत् ।क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् ॥
अभ्यङ्गात्तैलमेतद्धि शीघ्रं दाहमपोहति ।व्यपोहति तथा वातं पित्तं श्लेष्मभवं ज्वरम् ॥
सप्रलापं सतृष्णञ्च तालुशोषभ्रमान्वितम् ।ग्रहोपसृष्टा ये बाला रक्षःसंदूषिताश्च ये ॥
तेषां कष्टं प्रशमयेत्तैलं लाक्षादिकं महत् ॥
”फेनिलं वदरम् । लामज्जकमुशीरवत् पीतच्छवि-तृणविशेषः ।लामज्जंकं यदा न स्यादुशीरं दीयते तदा ।चम्पकमित्यस्य स्थाने कुत्रापि गैरिकं इति पाठः ।नीलोत्पलस्यालाभे तु कुमुदं देयमिष्यते ।समापयेत् प्रक्षिपेदित्यर्थः । चोरकं ग्रन्थि-पर्णस्य भेदः भण्टिउर इति नैपालदेशे भवति ।तदलाभे ग्रन्थिपर्णं देयम् । पुण्डरीकं श्वेतकम-लम् । मस्तु दधिजलम् । शुक्तं सन्धानभेदः ।आरनालमपि सन्धानभेदः । इति महालाक्षादि-तैलम् ॥
* ॥
अथ नवज्वरे रसाः ।“सूतो गन्धष्टङ्कणः शोषणश्चसर्व्वैस्तुल्या शर्करा मत्स्यपित्तैः ।भूयो भूयो मर्द्दयेत्तं त्रिरात्रंवल्लो देयः शृङ्गवेरद्रवेण ॥
तापे शीतं वीजनैस्तक्रभक्तंवृन्ताकाद्यं पथ्यमेतत् प्रदिष्टम् ।अद्रौ चोग्रं हन्ति सद्यो ज्वरन्तुपित्ताधिक्ये मूर्द्ध्नि तोयञ्च दद्यात् ॥
”अस्य प्रक्रिया । पाराशुद्ध भाग १ गन्धकशुद्धभाग १ सोहागाभृष्ट भाग १ मरिच भाग १शर्करा भाग ४ रोहुमत्स्यकपित्त भाग ३ ।अमुं प्रतिदिनं सर्व्वं दिनत्रयं मर्दयेत् । रस-मिमं रक्तित्रयमितमार्द्रकरसेन दद्यात् । ओदनंतकं वृन्ताकफलं भोक्तुं दद्यात् । व्यजनाद्यैःशीतलमुपचारं कुर्य्यात् । उदकमञ्जरीरसो नव-ज्वरेषु ॥
* ॥
रसरत्नप्रदीपे ।“अद्यात् समं सूतसमुद्रफेनहिङ्गूलगन्धं परिमृद्य यामम् ।नवज्वरे वल्लयुगं त्रिघस्र-मार्द्राम्भसायं ज्वरधूमकेतुः ॥
”प्रक्रिया । पाराशुद्धगन्धकशुद्धहिङ्गुलशुद्धसमुद्र-फेनसभागं सर्व्वं याममेकमार्द्रकरसेन संमर्द्द्यरक्तिकाषट्कमितमार्द्रकरसेन दिनत्रयं नवज्वरीभक्षयेत् । दिनत्रयान्नवज्वरो नश्येत् । इतिज्वरधूमकेतुः ॥
* ॥
रसेन्द्रचिन्तामणौ ।“शुद्धः सूतो विषो गन्धः प्रत्येकं शाणसंमितः ।धूर्त्तबीजं त्रिशाणं स्यात् सर्व्वेभ्यो द्बिगुणाभवेत् ॥
हेमाह्वा कारयेदेषां चूर्णं सूक्ष्मं प्रयत्नतः ।जम्बीरजीरकैर्द्देयश्चूर्णं गुञ्जाद्बयोन्मितम् ॥
आर्द्रकस्य रसेनापि ज्वरं हन्ति त्रिदोषजम् ।ऐकाहिकं द्ब्याहिकञ्च त्र्याहिकञ्च चतुर्थकम् ॥
विषमञ्च ज्वरं हन्यान्नवं जीर्णञ्च सर्व्वथा ।महाज्वराङ्कुशो नाम्ना रसोऽयं सर्व्वसंमतः ॥
”प्रक्रिया । शुद्धपारा शुद्धगन्धक शुद्धविष प्रत्येकंटङ्क १ धत्तूरबीज टङ्क ३ चोकटङ्क १२ सर्व्वेषांचूर्णमतिसूक्ष्मं कर्त्तव्यम् । इति महाज्वरा-ङ्कुशः ॥
* ॥
सर्व्वज्वरेषु शार्ङ्गधरे ।“एको भागो रसात् शुद्धाच्छैलेयः पिप्पली शिवा ।आकारकरभो गन्धः कटुतैलेन शोधितः ॥
फलानि चेन्द्रवारुण्याश्चतुर्भागमिता अमी ।एकत्र मर्द्दयेच्चूर्णमिन्द्रवारुणिकारसैः ॥
माषोन्मितां वर्टां कृत्वा दद्यात् सद्योज्वरे बुधः ।छिन्नारसानुपानेन ज्वरघ्नी वटिका मता ॥
”शैलेयः छड इति लोके । शिवात्र हरीतकी ।आकारकरभः अकरकरहा इति लोके । चतु-र्भागमिता अमी शैलेयादयः षट् समुदिताभागचतुष्टयमिताः । इति ज्वरघ्नीवटिका ॥
* ॥
शार्ङ्गधरे ।“रसं गन्धञ्च दरदं जैपालं क्रमवर्द्धितम् ।दन्तीरसेन संपिष्य वटी गुञ्जामिता कृता ॥
प्रभाते सितया सार्द्धमसिता शीतवारिणा ।एकेन दिवसेनैषा नवज्वरहरी भवेत् ॥
”इति च ज्वरघ्नीवटिका ॥
* ॥
रसरत्नप्रदीपे ।“रसो गन्धो विषं शुण्ठी पिप्पली मरिचानि च ।पथ्या विभीतकं धात्री दन्तीबीजञ्च शोधितम् ॥
चूर्णमेषां समांशानां द्रोणपुष्पीरसैः पुटेत् ।वटीं माषनिभां कुर्य्यात् भक्षयेन्नूतने ज्वरे ॥
”इति नवज्वरीहरीवटी । इति नवज्वरे रसाः ॥
* ॥
अथ सामान्यज्वरे रसाः ।“शुद्धं सूतं विषं गन्धं धूर्त्तबीजं त्रिभिः समम् ।चतुर्णां द्बिगुणं व्योषं चूर्णं गुञ्जाद्बयोन्मितम् ॥
आर्द्रकस्य रसैः किंवा जम्बीरस्य रसैर्युतम् ।महाज्वराङ्कुशो नाम्ना सर्व्वज्वरविनाशनः ॥
ऐकाहिकं द्ब्याहिकञ्च त्र्याहिकञ्च चतुर्थकम् ।विषमं वा त्रिदोषंवा ज्वरं हन्ति न संशयः ॥
”प्रक्रिया । शुद्धपाराटङ्क १ शुद्धविषटङ्क १ शुद्ध-गन्धकटङ्क १ धत्तूरबीजटङ्क ३ शोटिटङ्क ४पीपरीटङ्क ४ मरिचटङ्क ४ सर्व्वेषां चूर्णमति-सूक्ष्मं कर्त्तव्यम् । इति महाज्वराङ्कुशः ॥
* ॥
सर्व्वज्वरेषु सर्व्वरसग्रन्थेषु ।“सूतं गन्धं विषञ्चैव टङ्कणञ्च मनःशिला ।एतानि टङ्कमात्राणि मरिचं त्वष्टटङ्ककम् ॥
कटुत्रयं टङ्कषट्कं खल्ले क्षिप्त्वा विचूर्णयेत् ।रसः श्वासकुठारोऽयं श्वाससर्व्वज्वरापहः ॥
”इति श्वासकुठारो रसः ॥
* ॥
श्वासे सर्व्वज्वरे रसरत्नाकरे ।“दारुमूषां शिखिग्रीवां रसकञ्च पृथक् पृथक् ।टङ्कत्रयानुमानेन गृहीत्वा कनकद्रवैः ॥
मर्द्दयेत्त्रिदिनं कार्य्या वटी चणकमात्रया ।मरिचैरेकविंशत्या सप्तभिस्तुलसीदलैः ॥
खादेद्बटीद्बयं पथ्यं दुग्धभक्तं सशर्करम् ।तरुणं विषमं जीर्णं हन्यात् सर्व्वज्वरं ध्रुवम् ॥
”दारुमूषा दारुमूषी । शिखिग्रीवा तुतिया ।रसकं खपरिया । प्रत्येकं टङ्क ३ धत्तूरपत्र-स्वरसेन मर्द्दयेत् । इति ज्वराङ्कुशः ॥
* ॥
सर्व्वज्वरेषु ।“नागरं कर्षमात्रं स्यात् कर्षमात्रञ्च टङ्कणम् ।मरिचं सार्द्धकर्षं स्यात् तावद्दग्धवराटकम् ॥
विषं कर्षचतुर्थांशं सर्व्वमेकत्र चूर्णयेत् ।रसो हुताशनो नाम्ना खाद्यो गुञ्जामितो ज्वरे ॥
”इति हुताशनो रसो ज्वरे ॥
* ॥
“शुद्धजैपालटङ्कन्तु कट्वीटङ्कद्बयोन्मितम् ।गैरिकं टङ्कमेकञ्च कन्यानीरेण मर्द्दयेत् ॥
कलायसदृशी कार्य्या वटिका ताञ्च भक्षयेत् ।शीतलेन जलेनैषा वटी जीर्णज्वरापहा ॥
”इति ज्वरघ्नीवटी ॥
“द्बिभागतालेन हतञ्च ताम्रंरसञ्च गन्धञ्च समीनमायुः ।विषं समञ्च द्बिगुणञ्च ताम्रंत्रिसप्तरात्रेण दिवाकरांशैः ॥
विमर्द्द्यरिष्टस्वरसेन चूर्णंगुञ्जैकदत्तं सितया समेतम् ।ज्वराङ्गुशोऽयं रविसुन्दराख्योज्वरान्निहन्त्यष्टविधान् समस्तान् ॥
”अस्य प्रक्रिया । पाराटङ्क १ गन्धकटङ्क १ विष-टङ्क १ द्बिगुणतालकहतताम्रटङ्क २ रोहुमत्स्यक-पित्त १ सव एकत्र खले जवचूर्ण होइ मिलेतव नीविके पातकी स्वरसकभावना २१ घामेमह देवै मात्रा रत्ती एक अनुपान श्वेत-शंर्करा रती २ खाइ । इति सर्व्वज्वरे रवि-सुन्दरो रसः ॥
* ॥
“शुद्धं सूतं तथा गन्धं खल्ले तावद्बिमर्द्दयेत् ।सूतं न दृश्यते यावत् किन्तु कज्जलवद्भवेत् ॥
एषा कज्जलिका ख्याता वृं हणी वीर्य्यवर्द्धिनी ।नानानुपानयोगेन सर्व्वव्याधिविनाशिनी ॥
” * ॥
कज्जलिकाविधानं तद्गुणश्च रसरत्नप्रदीपे ।“जयापत्ररसेनाथ वर्द्धमानरसेन च ।भृङ्गराजरसेनापि काकमाच्या रसेन च ॥
रसं संशोध्य यत्नेन तत्समं शोययेद्बलिम् ।भृङ्गराजरसैः पिष्ट्वा शोषयेदर्करश्मिभिः ॥
सप्तधा वा त्रिधा वापि पश्चाच्चूर्णन्तु कारयेत् ।चूर्णयित्वा समं तेन रसेन सह मर्द्दयेत् ॥
नष्टसूतं यदा चूर्णं भवेत् कज्जलसन्निभम् ।निर्धूमे वरदाङ्गारे द्रवीकुर्य्यात् प्रयत्नतः ॥
तत्र तं महिषीविष्ठास्थापिते कदलीतले ।निःक्षिप्य तदुपर्य्यन्यत् पत्रं दत्त्वा प्रपीडयेत् ॥
शीतलान्तात् ततः पत्रात् समुद्धृत्य विचूर्णयेत् ।एवं सिद्धा भवेद्ब्याधिघातिनी रसपर्पटी ॥
ज्वरादिव्याधिभिर्व्याप्तं विश्वं दृष्ट्वा पुरा हरः ।चकार कृपया युक्तः सुधावद्रसपर्पटीम् ॥
रक्तिकासंमितां तावद्भृष्टजीरकसंयुताम् ।गुञ्जार्द्धभृष्टहिङ्ग्वाढ्यां भक्षयेद्रसपर्पटीम् ॥
रोगानुरूपभैषज्यैरपि तां भक्षयेद्बुधः ।पिबेत्तदनुपानीयं शीतलं चुलुकत्रयम् ॥
प्रत्यहं वर्द्ध्वयेत्तस्या एकैकां रक्तिकां भिषक् ।नाधिकां दशगुञ्जातो भक्षयेत्तां कदाचन ॥
एकादशदिनारम्भात् तां तथैवापकर्षयेत् ।एवमेताः समश्नीयान्नरो विंशतिवासरान् ॥
शिवं गुरुं तथा विप्रान् पूजयित्वा प्रणम्य च ।श्रद्धया भक्षयेदेतां क्षीरमांसरसाशनः ॥
ज्वरञ्च ग्रहणीञ्चापि तथातीसारमेव च ।कामलां पाण्डुरोगञ्च शूलप्लीहजलोदरम् ॥
एवमादीन् गदान् हत्वा हृष्टः पुष्टश्च वीर्य्यवान् ।जीवेद्बर्षशतं साग्रं वलीपलितवर्ज्जितः ॥
”इति रसपर्पटी ॥
* ॥
अथ ज्वरिणे अन्नदानसमयः । तत्र चरकः ।“क्षुत् सम्भवति पक्वेषु रसदोषमलेषु च ।काले वा यदि वाकाले सोऽन्नकाल उदाहृतः ॥
”अन्यच्च ।“आमे पाकं गते नॄणां यदा भोजनलालसा ।भवेत् काले ह्यकाले वा सोऽन्नकाल उदाहृतः ॥
”तत्र कालमाह । ज्वरस्य पाकावस्थान्नदानकालःज्वरस्य पाककालश्च ।“वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः ।श्लैष्मिको द्बादशाहेन ज्वरः पाकमुपैति हि ॥
”ज्वरस्य पाक उपशमः ॥
ज्वरपाकेनैव रसपाकेदोषपाकोऽपि कथितः । यतो दोषपाकं विनाज्वरपाको न भवति रसपाकं विना दोषपाकश्चन भवति ॥
* ॥
ननु यथा पैत्तिको ज्वरो दशाहो-रात्रेण पाकं याति । एकादशे दिनेऽन्नं दीयते ।तथा श्लैष्मिको ज्वरो द्बादशाहोरात्रेण पाकंयाति त्रयोदशदिवसेऽन्नं दीयते । तथा वातिकोज्वर सप्ताहोरात्रेण पाकं याति । अष्टमेदिवसेऽन्नं कथं न दीयते । कथं सप्तम एवदिवसेऽन्नं दीयते । इति । उच्यते ।“कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ।आमक्षयादूर्द्धमपि वायुर्न सहते क्षणम् ॥
”इति वचनादामरसपाके जाते आहारलाभंविना वायुः क्षणमात्रमपि सोढुं न शक्नोति ।स आशुकारित्वाम् क्षणादाक्षेपकादीन् विका-रान् संजनयति ॥
अतो वातिके ज्वरे पाक-दिनानामन्तिमे सप्तम एव दिनेऽन्नं दीयते ।तथा च धन्वन्तरिः ।“ज्वराभिभूतः षडहे व्यतीतेविपक्वदोषः कृतलङ्घनादिः ।यो भेषजं खादति वैद्यवश्योनिःसंशयं हन्त्यचिरात् स रोगान् ॥
”ज्वराभिभूतः वातज्वराभिभूतः । विपक्वदोषःपक्ववातः । कृतलङ्घनादिः आदिशब्दात् कृत-पक्वजलपाननिर्व्वातगृहवासगुरूष्णवसनधार-णादिः । भेषजमित्यन्नस्याप्युपलक्षणम् । अतएवचरकः ।“ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम् ।पाचनं शमनीयंवा कषायं पाययेत्तु तमिति ॥
”ज्वरितं वातज्वरिणम् ॥
षडहेऽतीते इत्युपलक्ष-णम् ॥
पित्तज्वरिणं दशाहेऽतीते ॥
श्लेष्मज्वरिणंद्बादशाहेऽतीते ॥
लघ्वन्नं भोजितं ज्वरिणं पाचनंशमनीयंवा कषायं पाययेत् । पुनः स एव ।“सर्व्वज्वरेषु ज्वरितं दिनान्ते भोजयेल्लघु ॥
”दिनान्तेऽन्तशब्दोऽत्र मध्यवाची तेन त्रिधाविभक्तस्य दिवसस्य मध्यभागे पित्तप्राधान्यसमये ॥
उक्तञ्च वाग्भटेन ।“वयोऽहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमा-दिति ।”ते वातपित्तश्लेष्माणः ॥
पित्तकालेऽपि मध्याह्ना-दर्व्वाक् । यत आह ।“याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् ।याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ॥
” इति ॥
एतत् सुस्थपरमिति चेत्तन्न । यत आह ।“श्लेष्मक्षये प्रवृद्धोष्मा बलवाननलस्तदा ।वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्ध्वनम् ॥
”तदा पित्तप्राधान्यसमये । अन्यथा उक्तसम-यादन्यदा । वेगापाये जठराग्निवेगनाशे । तत्भोजनं ज्वरवेगाभिवर्द्धनं भवतीत्यर्थः ॥
* ॥
अत्र विषमज्वरिणेऽन्नं दातुं कालविशेषमाहचरकः ।“सर्व्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत् ।वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम् ॥
”सर्व्वज्वरेषु सर्व्वविषमज्वरेषु । वेगापाये ज्वर-वेगापाये भोजयेत् । अन्यथा ज्वरवेगापायंविना । तत् भोजनं ज्वरवेगाभिवर्द्धनं भवती-त्यर्थः ॥
* ॥
अथान्नग्रहणाय स्थानमाह ।“आहारनिर्हारविहारयोगाःसदैव सद्भिर्विजने विधेयाः ॥
” इति ॥
* ॥
अत्यबलस्य ज्वरितस्य भोजनार्थोपवेशनप्रकार-माह सुश्रुतः ।“ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः ।निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ॥
”निषण्णं यथास्थानस्थितमेव न तु स्थानान्तरंनीतम् ॥
* ॥
अन्नग्रहणसमये प्रथमं ज्वरितेनकवलः कर्त्तव्य इत्याह ।“यथा दोषोचितैर्द्रव्यैः कर्त्तव्यः कवलग्रहः ।अरोचकास्यवैरस्यमलपूतिप्रसेकहृत् ॥
भृष्टजीरकचूर्णेन सिन्धुजन्मयुतेन च ।जिह्वां दन्तान् मुखस्यान्तर्घृष्ट्वा कवलमाचरेत् ॥
मुखे मलं विगन्धत्वं विरसत्वञ्च नश्यति ।मनः प्रसन्नं भवति भोजनेऽतिरुचिर्भवेत् ॥
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ।अन्नकाले ह्यभुञ्जानः क्षीयते भ्रियतेऽपि च ॥
”अयमर्थः । यद्यपि अस्य ज्वरितस्य हिते भक्ष्येअरुचिर्भवेत् तथापि ज्वरितो हितमेवाश्नीया-दिति नियमः । यत आह सुश्रुतः ।“गुर्व्वभिष्यन्द्यकालञ्च ज्वरी नाद्यात् कथञ्चन ।न तु तस्याहितं भुक्तमायुषे चासुखाय च ॥
आनद्धस्तिमितैर्द्दोषैर्यावन्तं कालमातुरः ।तावत्कालं स लघ्वन्नमश्नीयात् सविरिक्तवत् ॥
”आनद्धस्तिमितैर्द्दोषैः अपक्वैर्दोषैर्व्याप्त इत्यर्थः ॥
ननु हिते वस्तुनि कथमरुचिः स्यादत आह ।सातत्यात् स्वाद्बभावाच्च पथ्यं द्बेष्यत्वमागतमिति ।सातत्यात् एकस्यैव भक्षस्य सर्व्वदोपयोगात् ।स्वाद्वभावाच्च भक्ष्यान्तरादपि विस्वादुतः । पथ्य-मप्रियं स्यात् तथापि तदेव पथ्यम् । कल्पना-विधिइभिस्तैस्तैः प्रियत्वं गमयेत् पुनरिति ॥
अथ च ज्वरितोऽन्नकालेऽश्नीयादेवेति द्बितीयोनियमः । कुत इति चेत् हि यतो हेतो अभुञ्जानःक्षीयतेऽपक्वधातुर्भवति ततो भ्रियतेऽपि च ॥
* ॥
ज्वरिताय हितान्यन्नादीन्याह ।“रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह ।यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः ॥
”तत्र रक्तशालिगुणाः ।“रक्तशालिर्व्वरस्तेषां बल्यो वर्ण्यस्त्रिदोषजित् ।चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृड्ज्वरापहः ॥
विषव्रणश्वासकासदाहनुद्बह्निपुष्टिदः ।तस्मादल्पान्तरगुणाः शालयो महदादयः ॥
”रक्तशालिर्यो मगधदेशे दाउदखानी इति प्रसिद्धः ॥
“मुद्गान् मसूरांश्चणकान् कुलत्थान् समकुष्ट-कान् ।यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत् ॥
”तत्र मुद्गादिगुणास्तत्तच्छब्दे द्रष्टव्याः ॥
* ॥
“पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम् ।कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् ॥
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ॥
”तत्र पटोलादिगुणास्तत्तच्छब्दे द्रष्टव्याः ॥
* ॥
“लावान् कपिञ्जलानेणान् हरिणान् पृषतान्शशान् ।कुरङ्गान् कालपुच्छांश्च तथैव मृगमातृकान् ॥
मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत् ।सारसक्रौञ्चशिखिनस्तथा तित्तिरकुक्कुटान् ॥
गुरूष्णत्वान्न शंसन्ति केचिदेवं व्यवस्थिताः ॥
”तित्तिरिरत्र कृष्णतित्तिरिः । गौरतित्तिरेःकपिञ्चलपदेन पूर्व्वं गृहीतत्वात् ॥
“ज्वरितानां प्रकोपन्तु यदा याति समीरणः ।तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः ॥
कपिञ्जल इति ख्यातो लोकेषु गौरतित्तिरिः ॥
”इति ॥
* ॥
“निम्बूकं दाडिमं धात्रीफलमम्लं प्रकाङ्क्षते ।प्रदद्यादम्लसात्म्याय काञ्जिकं वा पुरातनम् ॥
”अथौषधसिद्धायाः पेयायाः गुणाश्च ।“अन्नकाले हिता पेया यथास्वं पाचनैः कृता ।दीपनी पाचनी लघ्वी ज्वरार्त्तानां ज्वरापहा ॥
”यथास्वं पाचनैः कृता यथादोषं पाचनैः कृता ।यथा, --“पञ्चमूल्याः कषायन्तु पाचनं वातिके ज्वरे ।सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् ॥
पिप्पल्यादिकषायन्तु पाचनं कफजे ज्वरे ।लघुना पञ्चमूलेन पिप्पल्या सह धान्यया ॥
महत्या पञ्चमूल्याथ व्याघ्री दुस्पर्शगोक्षुरैः ।सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम् ॥
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे ॥
”अस्यायमर्थः । वातपित्ते लघुना पञ्चमूलेनसिद्धान्यन्नानि भिषक् प्रयुञ्जीत ।“शालिपर्णी पृश्निपणीं कण्टकारीद्बयं तथा ।गोक्षुरः पञ्चमः प्रोक्तः पञ्चमूलमिदं लघु ॥
श्लेष्मपित्ते वातपित्ते पिप्पल्या सह धान्यया ॥
”कफवाते महत्या पञ्चमूल्या ।“श्रीफलः सर्व्वतोभद्रा पाटला गणिकारिका ।श्योनाकः पञ्चमः प्रोक्तः पञ्चमूलमिदं महत् ॥
त्रिदोषजे ज्वरे देया व्याघ्री दुस्पर्शगोक्षुरैः ।व्याघ्री कण्टकारिका । दुस्पर्शो यवासः ।पेयांवा रक्तशालीनां वस्तिपार्श्वशिरोरुजि ।श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् ॥
विबद्धवर्च्चाः सयवां पिप्पल्यामलकैः शृताम् ।सर्पिष्मन्तीं पिबेत् पेयां ज्वरी दोषानुलोमनीम् ॥
कासीश्वासी च हिक्की च पञ्चमूलीशृतांपिवेत् ॥
”यवोऽत्रान्नम् । अत्र पञ्चमूली बृहती लघ्वी चहिता । तया शृतां पेयां पिबेदित्यर्थः ।“पेया भेषजसंयोगाल्लघुत्वाच्चाग्निदीपिका ।वातमूत्रपुरीषाणां दोषाणां चानुलोमिका ॥
स्वेदनाय च सोष्णत्वाद्द्रवत्वात् तृट्शमाय च ।आहारभावात् प्राणाय सरत्वाल्लाघवाय च ॥
ज्वरघ्नीहेतुसात्म्यत्वात्तस्मात्तां पूर्व्वमाचरेत् ॥
”हेतुसात्म्यत्वात् हेतवो वातपित्तकफास्तेषांसात्म्यत्वात् ॥
“यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः ।एकैकं मुष्टिमादाय पचेदष्टगुणे जले ॥
पञ्चमुष्टिक इत्येष वातपित्तकफापहः ।शूले प्रशस्यते गुल्मे कासे श्वासे क्षये ज्वरे ॥
”पञ्चमुष्टिकयूषः ॥
* ॥
“रुद्धमूत्रपुरीषस्य गुदे वर्त्तिं निधापयेत् ।पिप्पलीपिप्पलीमूलं यवानीचव्यसाधितम् ॥
पाययेत यवागूं वा मारुताद्यनुलोमनीम् ॥
”पेवाया यवाग्वाश्च क्वचिदपवादमाह ।“मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफोत्थिते ।ऊर्द्ध्वगे रक्तपित्ते च यवागूर्न्न हिता ज्वरे ॥
दाहच्छर्द्द्यर्द्दितं क्षामं निरन्नं तृष्णयान्वितम् ।शर्क्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥
”लाजशक्तुरूपं तर्पणम् । तथा च ग्रन्थान्तरे ।“दाहच्छर्द्द्यर्द्दितं क्षामं निरन्नं तृष्णयान्वितम् ।घर्म्मार्त्तं मद्यपञ्चापि तोयालोडितशक्तुकम् ॥
शर्क्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ।ज्वरापहैः फलरसैर्युक्तमन्नं हितं क्वचित् ॥
” * ॥
सन्तर्पणस्वरूपञ्चाह धन्वन्तरिः ।“द्राक्षादाडिमखर्ज्जूरमृदिताम्बुसशर्क्करम् ।लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् ॥
लाजाचूर्णम् । द्राक्षादिजलशर्क्करामध्वाज्यसहितंतर्पणमुक्तमित्यर्थः ॥
लाजशक्तुगुणाश्च गुणग्रन्थे ।“लाजानां शक्तवः क्षौद्रसितायुक्ता विशेषतः ।छर्द्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः ॥
”चरकश्च ।“तत्र तर्पणमेवादौ प्रदेयं लाजशक्तुतः ।ज्वरापहैः फलरसैर्युक्तं मधुसशर्क्करम् ॥
”ज्वरघ्नानि फलान्याह चरक एव ।“द्राक्षादाडिमखर्ज्जूरपियालैः सपरूषकैः ।तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम् ॥
”पियालमत्र पक्वफलं न तन्मज्जातिगुरुत्वात् ।तर्पणार्हस्य दाहच्छर्द्दितृषार्त्तस्य लङ्घितस्यक्षीणस्येत्यर्थः ।श्रमोपवासानिलजे हितो नित्यं रसौदनः ॥
रसोऽत्र मांसरसः । तेन सिक्त ओदनो रसौ-दनः । अन्नेन व्यञ्जनमित्यनेन समासः ॥
“मुद्गयूषौदनश्चैव हितः कफसमुत्थिते ।स एव सितया युक्तः शीतपित्तज्वरे हितः ॥
”स एव मुद्गयूषौदन एव ॥
“कृशोऽल्पदोषो यः क्षीणकफो जोर्णज्वरान्वितः ।विबन्धासृष्टदोषश्च रूक्षः पित्तानिलज्वरी ॥
पिपासार्त्तः सदाहश्च पयसा स सुखी भवेत् ॥
”अन्यच्च ।“अजादुग्धं गुडोपेतं पातव्यं ज्वरशान्तये ।तदेव तु पयः पीतं तरुणे हन्ति मानवम् ॥
”तरुणे ज्वरे । अन्यच्च ।“जीर्णे ज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ।तदेव तरुणे पीतं विषवद्धन्ति मानवम् ॥
” * ॥
अथ ज्वरिणो नियममाह ।“न द्बिरद्यान्न पूर्व्वाह्ने नाभिष्यन्दि कदाचन ।न तीक्ष्णं न गुरुप्रायो भुञ्जीत तरुणज्वरी ॥
न जातु तर्पयेत् प्राज्ञः सहसा ज्वरकर्षितम् ।तेन संशमितोऽप्यस्य पुनरेव भवेज्ज्वरः ॥
” * ॥
अथ ज्वरविमुक्तेः पूर्व्वरूपमाह ।“दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसंज्ञिताः ।कूजनं चाति वैगन्ध्यमाकृतिज्वरमोक्षणे ॥
”विड्भित् मलप्रवृत्तिः । अत्र सम्पदादित्वात्भावे क्विप् । कूजनं कुन्थनम् । अतिवैगन्ध्यंगात्रस्य । ज्वरमुक्तौ भविष्यत्यामेतल्लक्षणं भवति ॥
ननु दोषक्षयं विना न व्याधिनिवृत्तिः । क्षीणश्चदोषः कथमेवंविधं रूपं करिष्यति । उच्यते ।कश्चित् क्षीणोऽपि दोषः विनाशकाले स्वशक्तिंदर्शयति । यथा निर्व्वाणावस्थायां दीपो विशे-षात् प्रज्वलति । वाग्भटोऽप्याह ।“धातून् प्रक्षोभयन्दोषो मोक्षकाले विलीयते ।ततो नरः श्वसन् कूजन् वमन् खिद्यन्न चेष्टते ॥
”न चेष्टते अचेष्टश्च स्यात् ।“त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे ।लक्षणं मोक्षकाले स्यादन्यस्मिन् स्वेददर्शनम् ॥
”एतद्दाहादिकं लक्षणं मोक्षकाले एतेष्वेवज्वरेषु स्यात् । केषु त्रिदोषजे । अन्तर्व्वेगे ।धातुगे ज्वरे । अन्यस्मिन् स्वेदमात्रं दर्शनंभवति ॥
* ॥
अथ ज्वरमुक्तस्य लक्षणमाह ।“देहो लघुर्व्यपगतक्लममोहतापःपाको मुखे करणसौष्ठवमव्यथत्वम् ।स्वेदः क्षवः प्रकृतियोगिमनोऽन्नलिप्साकण्डूश्च मूर्द्ध्नि विगतज्वरलक्षणानि ॥
”सुश्रुतोऽप्याह ।“स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च ।क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्यलक्षणम् ॥
” * ॥
अथ ज्वरमुक्तस्य नियमाः ।“व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणानि च ।ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥
”अन्यच्च ।“व्यायामञ्च व्यवायञ्च प्रवातं शिशिरं जलम् ।ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥
अपि ज्वरविमुक्तस्य स्नानं कुर्य्यात् पुनर्ज्वरम् ।तस्माज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत् ॥
बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत् ।तावज्जरेण मुक्तोऽपि वर्ज्जनीयानि वर्ज्जयेत् ॥
”अथ वातज्वराधिकारः । तत्र वातज्वरस्यविप्रकृष्टसन्निकृष्टकारणकथनपूर्व्विकां संप्राप्ति-माह ।“वातलाहारचेष्टाभ्यां वायुरामाशयाश्रयः ।बहिर्निरस्य कोष्ठाग्निं ज्वरकृत् स्याद्रसानुगः ॥
”अथ तस्य पूर्व्वरूपमाह । जृम्भात्यर्थं समी-रणादिति । समीरणात् ज्वरे उत्पत्स्यति अत्यर्थंजृम्भा स्यात् । जृम्भा च श्रमादिपूर्व्विका भवति ॥
अथ वातज्वरस्य लक्षणमाह ।“वेपथुर्व्विषमो वेगः कण्ठौष्ठमुखशोषणम् ।निद्रानाशः क्षवस्तम्भो गात्राणां रौक्षमेव च ॥
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता ।शूलाध्माने जृम्भणञ्च भवत्यनिलजे ज्वरे ॥
”एतानि लक्षणानि प्रायो भावित्वेन सुश्रुतेननिर्द्दिष्टानि । चकारादन्यान्यपि चरकनिदा-नोक्तानि बोद्धव्यानि । तान्येव श्लोकेन प्रदर्श्यन्ते ।“भवन्ति विविधा वातवेदना स्यादसुप्तता ।पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता ॥
ऊरुसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः ।शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ ॥
अरुणं नेत्रमूत्रादि तृट् प्रलापोष्णकामिता ॥
”विषमो वेगः शरीरोष्णतादिरूपो ज्वरवेगोविषमो भवतीत्यर्थः । क्षवस्तम्भः छिक्कायाअभावः । तथा च वाग्भटः ।“हषीं रोमाङ्गदन्तेषु वेपथुः क्षवथोग्रहः ॥
” इति ।चरकोऽपि । क्षवथूद्गारनिग्रह इति । शिरो-हृद्गात्ररुक् गात्रपदे प्रयुक्ते शिरोहृच्छब्द-प्रयोगस्तत्र विशेषेण वेदनाबोधनार्थः ॥
* ॥
अथ वातज्वरचिकित्सा ।“आमाशयस्थो हत्वाग्निं सामो मार्गान्पिधापयन् ।विदधाति ज्वर दोषस्तस्माल्लङ्घनमाचरेत् ॥
”इति वचनात् सामान्यतो ज्वरिमात्रस्य याव-दारोग्यदर्शनं लङ्घनाभिधाने वातज्वरिणोलङ्घनविधाने विशेषमाह चरकः ।“ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम् ।पाचनं शमनीयंवा कषायं पाययेद्भिषक् ॥
”सुश्रुतोऽप्याह ।“वातिके सप्तरात्रेण दशरात्रेण पैत्तिके ।श्लैष्मिके द्बादशाहेन ज्वरे युञ्जीत भेषजमिति ॥
”ननु अन्नं वै प्राणिनां प्राणा इति श्रुतिः तदन्नंविना प्राणिभिः कथं स्थातव्यमित्याह ।“दोषाणामेव सा शक्तिर्ल्लङ्घने या सहिष्णुता ।न हि दोषक्षये कश्चित् सोढुं शक्नोति लङ्घनम् ॥
कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ।आमक्षयादूर्द्धमपि वायुर्न्न सहते क्षणम् ॥
” * ॥
भेषजमाह ।“श्रीफलः सर्व्वतोभद्रा कामदूती च शोणकः ।तर्कारी गोक्षुरः क्षुद्रा बृहती कलसी स्थिरा ॥
रास्ना कणा कणामूलं कुष्ठं शुण्ठी किरातकः ।मुस्तामृता बला बालं द्राक्षा यासः शताह्विका ॥
एषां क्वाथो निहन्त्येव प्रभञ्जनकृतं ज्वरम् ।सोपद्रवञ्च योगोऽयं सर्व्वयोगवरः स्मृतः ॥
”श्रीफलो विल्वः । सर्व्वतोभद्रा गम्भारी । काम-दूती पाटला । शोणकः शोनापाढा इतिलोके । तर्क्कारी गणिकारिका । कलसी पृश्नि-पर्णी । स्थिरा शालिपर्णी । बालं सुगन्धबाला ।यासो यवासः । इति दशमूलादिक्वाथः ॥
* ॥
सुश्रुतस्तु ।“पञ्चमूली कषायन्तु पाचनं वातिके ज्वरे ।” इति ।अत्र पञ्चमूली बृहत्पञ्चमूली । अतएव त्रिशती ।“श्रीपर्णी तर्क्कारी श्रीफलटुण्टुकपाटलामूलैः ।पाचनमुदितं मारुतजनितज्वरहारिवारिणिकथितैः ॥
”इति बृहत्पञ्चमूली क्वाथः ॥
* ॥
“किराताब्दामृतोदीच्यबृहतीद्बयगोक्षुरैः ।त्रिपर्णीकलसीविश्वैः क्वाथो वातज्वरापहः ॥
”उदीच्यं बालकम् । त्रिपर्णी शालिपर्णी ।कलसी पृश्निपर्णी । इति किरातादिक्वाथः ॥
* ॥
“गुडूचीपिप्पलीमूलनागरैः पाचनं शृतम् ।वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ॥
”कालिङ्गं शृतं ऐन्द्रयवं शृतम् ॥
* ॥
त्रिशती ।“विश्वामृताग्रन्थिकसिद्धतोयंमरुज्ज्वरस्याप्तिवतः कुतोऽयम् ।क्वाथोऽथ कुस्तुम्बुरुदेवदारु-क्षुद्रौषधैः पाचनमत्र चारु ॥
”औषधं शुण्ठी । क्वाथः पाचनमिति । वेदाःप्रमाणमितिवत् ।“पञ्चमूलीबलारास्नाकुलत्थः सह पुष्करैः ।क्वाथो हन्याच्छिरःकम्पं पर्व्वभेदं मरुज्जरम् ॥
”पञ्चमूली विल्वादिः । इति बृहत्पञ्चमूल्यादिक्वाथः ॥
“कणारसोनामृतवल्लिविश्वा-निदिग्धिकासिन्धुकभूमिनिम्बैः ।समुस्तकैराचरितः कषायोहिताशिनां हन्ति गदानिमांस्तु ॥
ज्वरं मरुद्दुष्टिसमुद्भवं तथाबलासजञ्चानलमन्दताञ्च ।कण्ठावरोधं हृदयावरोधंस्वेदञ्च रोमाञ्चहिमत्वमोहान् ॥
”इति कणादिक्वाथः ॥
* ॥
“शुद्धं शङ्करशुक्रमक्षतुलितं मारारिनारीरज-स्तावत्तावदुमापतिस्फुटगलालङ्कारवस्तु स्मृतम् ॥
तावत्येव मनःशिला च विमला तावत्तथा टङ्कणंशुण्ठी द्ब्यक्षमिता कणा च मरिचं दिक्पाल-संख्याक्षकम् ॥
विषादि वस्तूनि शिलोपरिष्टा-द्बिचूर्णयेद्बाससि शोधयेच्च ।ततस्तु खल्ले रसगन्धकौ चचूर्णञ्च तद्यामयुगं विमर्द्द्य ॥
कल्पतरुनामधेयो यथार्थनामा रसः श्रेष्ठः ।समीरणश्लेष्मगदान् हरते मात्रास्य गुञ्जैका ॥
आर्द्रकेण सममेष भक्षितोहन्ति वातकफसम्भवं ज्वरम् ।श्वासकासमुखसेकशीतता-वह्निमान्द्यविरुचींश्च नाशयेत् ॥
नस्येनाश्वेव हरति शिरोऽर्त्तिं कफवातजाम् ।मोहं महान्तमपि च प्रलापं क्षवथुग्रहम् ॥
”कल्पतरुरसः ॥
सामान्यज्वरचिकित्सोक्तो महा-ज्वराङ्कुशः प्रदेयोऽत्र ॥
* ॥
“विषमहौषधमागधिकोषणाद्युमणिरक्तकमार्द्रकमर्द्दितम् ।क्रमविवर्द्धितमुद्दलितज्वर-स्त्रिपुरभैरव एव रसो वरः ॥
”द्युमणिः मारितं ताम्रं तस्य भागाः पञ्च ।रक्तकं हिङ्गुलं तस्य भागाः षट् । मात्रास्यरक्तिकार्द्धम् । त्रिपुरभैरवो रसो ज्वरे ॥
* ॥
“वातश्लेष्मज्वरे स्वेदं जङ्घापार्श्वास्थिशूलिनि ।पीनसश्वासवाधिर्य्ये कारयेत्तद्बिधानवित् ॥
स्रोतसां मार्द्दवं कृत्वा नीत्वा पावकमाशयम् ।हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ॥
“खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः ।शमयति वातकफामयमस्तकशूलाङ्गभङ्गा-दीन् ॥
”बालुकास्वदः कम्पे शिरोहृदयगात्रव्यथायांजृम्भायाम् । पादसुप्ततायां पिण्डिकोद्वेष्टने ऊरु-सादे हनुस्तम्भे लोमहर्षे च ॥
* ॥
“मातुलुङ्गफलकेशरो धृतःसिन्धुजन्ममरिचान्वितो मुखे ।हन्ति वातकफरोगमास्यगशोषमाशु जडतामरोचकम् ॥
”इति कवलः कण्ठौष्ठमुखशोषे ॥
* ॥
अन्यच्च ।“शर्क्करादाडिमाभ्याञ्च द्राक्षादाडिमयोस्तथा ।कल्कं विधारयेदास्ये शोषवैरस्यनाशनम् ॥
द्राक्षामलकयोः कल्कं सघृतं वदने क्षिपेत् ।तेन घृष्ट्वा मुखस्यान्तः संशोषस्तेन शाम्यति ॥
सुरसं जायते वक्त्रं रुचिर्भवति भोजने ॥
” * ॥
निद्रानाशस्य निदानमाह ।“लावणं लङ्घनं चिन्ता व्यायामः शोकभीक्रुधः ।एभिरेव भवेन्निद्रानाशः श्लेष्मातिसंक्षयात् ॥
”अस्य चिकित्सामाह ।“भृष्टन्तु विजयाचूर्णं मधुना निशि भक्षयेत् ।निद्रानाशेऽतिसारे च ग्रहण्यां पावकक्षये ॥
गुडं पिप्पलीमूलस्य चूर्णेनालोडितं लिहन् ।चिरादपि च संनष्टां निद्रामाप्नोति मानवः ॥
वायसजङ्घामूलं मूलं वा शिरसि काकमाच्याश्च ।विधृतं निद्राजनकं स्नुङ्मूलं वा शृतं सगुडम् ॥
”पीतमिति शेषः ॥
“मूलन्तु काकमाच्या बद्धं सूत्रेण मस्तके नियतम् ।विदधाति नष्टनिद्रो निद्रामाश्वेव सिद्धमिदम् ॥
शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि ।अभ्यङ्गोद्बर्त्तनस्नानमूर्द्ध्वकर्णाक्षितर्पणम् ॥
”रसं मांसरसम् ॥
“कान्ताबाहुलताश्लेषानिवृत्तिकृतकृत्यता ।मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः ॥
रसे शाके च सूपे च सर्पिर्यूषपयःसु च ।निद्रां सञ्जनयत्याशु पलाण्डुरुपयोजितः ॥
”रसे मांसरसे ॥
“ऐक्षवं पोतकी माषाः सुरा मांसरसः पयः ।गोधूमतिलमत्स्याश्च निद्रां कुर्व्वन्ति देहिनाम् ॥
”निद्रानाशे ॥
* ॥
“दारु हैमवती कुष्ठशताह्वाहिङ्गुसैन्धवैः ।लिम्पेत् कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ॥
”हैमवती श्वेतवचा । दारुषट्कलेपः शूलाध्मा-नयोः ॥
* ॥
“कटुतैलं कणाहिङ्गुवचालशुनसाधितम् ।उष्णं विनिहितं हन्ति कर्णयोर्निस्वनं व्यथाम् ॥
”तैलं कर्णस्वने ॥
* ॥
“कणासुगन्धिवचया यवान्या च समन्विता ।ताम्बूलसहिता हन्ति शुष्ककासं मुखे धृता ॥
”शुष्ककासे ॥
* ॥
अथान्नमाह ।“श्रमोपवासानिलजे हितो नित्यं रसौदनः ।मुद्गामलकयूषस्तु बद्धविट्काय दीयते ॥
”रसो विहितमांसरसः ॥
“पेयांवा रक्तशालीनां वस्तिपार्श्वशिरोरुजि ।श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् ॥
कासी श्वासी च हिक्वी च पञ्चमूलीशृतांपिबेत् ॥
”पेयमिति शेषः । इति वातज्वराधिकारः ॥
* ॥
अथ पित्तज्वराधिकारः । तत्र पित्तज्वरस्य विप्र-कृष्टसन्निकृष्टकारणकथनपूर्व्विकां संप्राप्तिमाह ।“पित्तलाहारचेष्टाभ्यां पित्तमामाशयाश्रयम् ।बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद्रसानुगम् ॥
”पित्तस्य पङ्गुत्वात्तेन कोष्ठाग्नेरुष्मा बहिर्नेतुं नशक्यते । यत आह ।“पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः ।वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत् ॥
”इति ॥
ततोऽत्र पित्तं वायुसहायं बोद्धव्यम् । यत आह ।“द्रव्यमेकरसं नास्ति न रोगोऽप्येकदोषजः ।एकस्तु कुपितो दोष इतरानपि कोपयेत् ॥
” इति ।अथ तस्य पूर्व्वरूपमाह । पित्तान्नयनयोर्द्दाहइति । पित्तात् ज्वरे उत्पत्स्यति नेत्रदाहः स्यात् ।स च श्रमादिपूर्व्वको भवति ॥
* ॥
अथ पित्तज्वरस्य लक्षणमाह ।“वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः ।कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ॥
प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा ।पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥
”अतिसारः पित्तस्य सरत्वात् सद्रवा प्रवृत्तिर्नत्वतीसार एव तस्य ज्वरोपद्रवत्वात् । वमिःयदा पित्तं कफस्थानं याति तदा बोद्धव्या ।प्रलापोऽनर्थकं वचः । मूर्च्छारुपादेरज्ञानम् ।मदः पूगकोद्रवधत्तूरभक्षणादिव मत्तता । भ्रमःचक्रारूढस्येव ज्ञानम् । चकारात् रक्तकोष्ठा-दयो बोद्धव्याः ॥
* ॥
अथ पित्तज्वरस्य चिकित्सा ।“आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-पयन् ।विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥
”इति वचनात् सामान्यतो ज्वरिमात्रस्य याव-दारोग्यदर्शनं लङ्घनाभिधाने पित्तज्वरिणोलङ्घनविधाने विशेषमाह सुश्रुतः । पैत्तिके दशरात्रेण ज्वरे युञ्जीत भेषजमिति । दशरात्रेणलङ्घनवता व्यतीतेनेत्यर्थः ॥
* ॥
किन्तद्भेषजं तदाह ।“तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सदोहकम् ।पक्वं सशर्क्करं पीतं पाचनं पैत्तिके ज्वरे ॥
”इति तिक्तादिक्वाथः ॥
* ॥
“पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः ।प्रियङ्गुश्च कृतः क्वाथ एषां शर्क्करया युतः ॥
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ॥
”इति पर्पटादिक्वाथः ॥
* ॥
“द्राक्षा हरीतकी मुस्ता कटुका कृतमालकः ।पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः ॥
मुखशोषप्रलापान्तर्द्दाहमूर्च्छाभ्रमप्रणुत् ।पिपासारक्तपित्तानां शमनो भेदनो मतः ॥
”इति द्राक्षादिक्वाथः ॥
* ॥
“पटोलयवधान्याकमधूकं मधुसंयुतम् ।हन्ति पित्तज्वरं दाहं तृष्णां चातिप्रमाथिनीम् ॥
”इति पटोलादिक्वाथः ॥
* ॥
“गुडूच्यामलकीयुक्तः केवलो वापि पर्पटः ।पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ॥
”इति गुडूच्यादिक्वाथः ॥
* ॥
“एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।किं पुनर्यदि युज्येत चन्दनोशीरबालकैः ॥
” * ॥
“ह्नीवेरं चन्दनोशीरघनपर्पटसाघितम् ।दद्यात् सुशीतलं वारितृट्छर्द्दिज्वरदाहनुत् ॥
”इति ह्नोवेरादिक्वाथः ॥
* ॥
“भूनिम्बातिविषालोध्रमुस्तकेन्द्रयवामृताः ।बालकं धान्यकं विल्वं कषायो माक्षिकान्वितः ॥
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ॥
”इति भूनिम्बादिक्वाथः ॥
* ॥
“द्राक्षाचन्दनपद्मानि मुस्ता तिक्तामृतापि च ।धात्री बालमुशीरञ्च लोध्रेन्द्रयवपर्पटाः ॥
परूषकं प्रियङ्गुश्च यवासो वासकस्तथा ।मधूकं कुलकं चापि किरातो धान्यकं तथा ॥
एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम् ।तृषां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ॥
मूर्च्छां छर्द्दिं तथा शूलं मुखशोषमरोचकम् ।कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ॥
”इति महाद्राक्षादिक्वाथः ॥
* ॥
“ससितो निशि पर्य्युषितः प्रातर्धान्याकतण्डुल-क्वाथः ।पीतः शमयत्यचिरादन्तर्द्दाहं ज्वरं पैत्तम् ॥
”इति धान्याकक्वाथः ॥
* ॥
“अमृताया हिमः प्रातः ससितः पैत्तिकज्वरम् ।वासायाश्च तथा कासरक्तपित्तज्वरान् जयेत् ॥
”“गुडूची भूमिनिम्बश्च बालं वीरणमूलकम् ।लघु मुस्तं त्रिवृद्धात्री द्राक्षा वासा च पर्पटः ॥
एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम् ।सोपद्रवमपि प्रातर्निपीतो मधुना सह ॥
”इति गुडूच्यादिक्वाथः ॥
* ॥
“पलाशस्य वदर्य्या वा निम्बस्य मृदुपल्लवैः ।अम्लपिष्टैः प्रलेपोऽयं हन्याद्दाहयुतं ज्वरम् ॥
* ॥
उत्तानसुप्तस्य गभीरताम्-कांस्यादिपात्रे निहिते च नाभौ ।शीताम्बुधारा बहुला पतन्तिनिहन्ति दाहं त्वरितं ज्वरञ्च ॥
* ॥
पथ्यां तैलघृतक्षौद्रैर्लिहन्दाहज्वरापहः ।कासासृक्पित्तवीसर्पश्वासान् हन्ति वमीरपि ॥
तैलघृतक्षौद्रैरित्यत्र न समुच्चयस्तेन केवलेनक्षौद्रेणापि लिह्यात् ॥
* ॥
“काञ्जिकार्द्रपटेनावगुण्ठनं दाहनाशनम् ।अथ गोतक्रसंस्विन्नशीतलीकृतवाससा ॥
* ॥
द्राक्षामलककल्केन कवलोऽत्र हितो मतः ।पक्वदाडिमबीजैर्व्वा धानाकल्केन च क्वचित् ॥
”धानात्र धान्याकम् । इति कवलः ॥
* ॥
अथान्नमाह ।“दाहवम्यर्द्दितं क्षामं निरन्नं तृषयान्वितम् ।शर्क्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥
”लाजतर्पणं लाजाशक्तुरूपं तर्पणम् । सन्त-र्पणस्वरूपमुक्तं सामान्यज्वरचिकित्सायाम् ॥
* ॥
“मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे ।हर्म्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले ॥
मलयोदकसंसिक्ते स्वप्यात् पित्तज्वरी नरः ॥
हारावली चन्दनशीतलानांसुगन्धपुष्पाम्बरभूषितानाम् ।नितम्बिनीनां सुपयोधराणा-मालिङ्गनान्याशु हरन्ति दाहम् ॥
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः ।नार्य्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥
”इति पित्तज्वराधिकारः ॥
* ॥
* ॥
अथ श्लेष्मज्वराधिकारः । तत्र श्लेष्मज्वरस्यविप्रकृष्टसन्निकृष्टकारणकथनपूर्व्विकां संप्राप्ति-माह ।“श्लेष्मलाहारचेष्टाभ्यां कफ आमाशयाश्रयः ।बहिर्निरस्य कोष्ठाग्निं ज्वरकृत् स्याद्रसानुगः ॥
”कफस्य कोष्ठाग्नितेजसो बहिर्नयनेन पङ्गुत्वा-दाशङ्कायां जातायां पित्तस्येव सिद्धान्तोबोद्धव्यः ॥
* ॥
अथ तस्य पूर्व्वरूपमाह ।कफान्नान्नाभिनन्दनमिति । कफात् ज्वरे उत्-पत्स्यति अन्नानभिलाषः स्यात् । स च श्रमादि-पूर्व्वको भवति ॥
* ॥
अथ श्लेष्मज्वरस्य लक्षण-माह ।“स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता ।शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ॥
गौरवं शीतमुत्क्लेदो रोमहर्षातिनिद्रता ।प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोऽति-शुक्लता ॥
स्तैमित्यं अङ्गानामार्द्रपटावगुण्ठित्वमिव ।स्तिमितो वेगः ज्वरस्य मन्दवेगः । आलस्यंसमर्थस्यापि कर्म्मण्यनुत्साहः । स्तम्भः अङ्गा-नम्रता । तृप्तिः अन्नाभिलाषे सत्यपि भोजना-सामर्थ्यम् । गौरवं गात्राणाम् । शीतं शीतंलगति । उत्क्लेदः वमनोपस्थितिरिव । अति-निद्रता निद्राधिक्यम् । प्रतिश्यायो नासारोग-विशेषः । अरुचिः भोजनानिच्छा । चकारात्पिडका शीता मुखप्रसेकश्छर्द्दिस्तन्द्रा हृदयोप-लेप उष्णाभिलाषो वह्निमान्द्यमिति । यतउक्तम् ।“प्रसेकः पिडकाः शीताश्छर्द्दिस्तन्द्रोष्णकामिता ।कफेन लिप्तहृदयं भवेदग्नेश्च मन्दता ॥
”अथ श्लेष्मज्वरचिकित्सा ।“आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-पयन् ।विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥
”इति वचनात् सामान्यतो ज्वरिमात्रस्य याव-दारोग्यदर्शनं लङ्घनाभिधाने श्लेष्मज्वरिणो लङ्घनविधाने विशेषमाह सुश्रुतः । श्लैष्मिके द्बाद-शाहेन ज्वरे युञ्जीत भेषजमिति । द्बादशाहेनलङ्घनवता व्यतीतेनेत्यर्थः ॥
* ॥
किन्तद्भेषजंतदाह ।“पिप्पल्यादिकषायन्तु कफजे परिपाचनमिति ।”पिप्पल्यादिगणमाह ।“पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली ।नागरं चित्रकं चव्यं रेणुकैलाजमोदिका ॥
सर्षपो हिङ्गु भार्गी च पाठेन्द्रयवजीरकाः ।महानिम्बश्च मूर्व्वा च विषा तिक्ता विडङ्गकम् ॥
पिप्पल्यादिगणो ह्येष कफमारुतनाशनः ।गुल्मशूलज्वरहरो दीपनश्चामपाचनः ॥
”इति पिप्पल्यादिक्वाथः ॥
“क्षौद्रोपकुल्यासंयोगः श्वासकासज्वरापहः ।प्लीहानं हन्ति हिक्काञ्च बालानामपि शस्यते ॥
पिप्पलीं त्रिफलाञ्चापि समभागां ज्वरी लिहन् ।मधुना सर्पिषा वापि कासी श्वासी सुखीभवेत् ॥
* ॥
कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ।श्वासकासज्वरहरो लेहोऽयं कफनाशनः ॥
”इति चातुर्भद्रिकावलेहः ॥
* ॥
“कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा ।कटुत्रयञ्च सर्व्वाणि समभागानि चूर्णयेत् ॥
आर्द्रकस्य रसैर्लिह्यान्मधुना वा कफज्वरी ।कासश्वासारुचिच्छर्द्दिश्लेष्मानिलनिवृत्तये ॥
”इत्यष्टाङ्गोऽवलेहः ॥
* ॥
“सिन्धुवारदलक्वाथं कणाढ्यं कफजे ज्वरे ।जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत् ॥
यवानी पिप्पली वासा तथा खाखसवल्कलम् ।एषां क्वाथं पिबेत् कासे श्वासे च कफजे ज्वरे ॥
वासाक्षुद्रामृताक्वाथः क्षौद्रेण ज्वरकासहृत् ॥
”इति वासादिक्वाथः ॥
* ॥
“मरिचं पिप्पलीमूलं नागरं कारवी कणा ।चित्रकं कट्फलं कुष्ठं ससुगन्धिवचा शिवा ॥
कण्टकारी जटा शृङ्गी यवानी पिचुमर्द्दकः ।एषां क्वाथो हरत्येव ज्वरं सोपद्रवं कफात् ॥
”इति मरिचादिक्वाथः ॥
वातज्वराधिकारोक्तकल्पतरुरसोऽपि । श्लेष्म-ज्वरे दातव्यस्तस्य कफव्याधिहरत्वात् ॥
* ॥
“सिन्धुत्रिकटुराजीभिरार्द्रकेण कफे हितः ॥
”कवल इति शेषः ॥
* ॥
अथान्नमाह ।“मुद्गयूषौदनो दोषो ज्वरे कफसमुत्थिते ॥
”इति श्लेष्मज्वराधिकारः ॥
* ॥
अथ वातपित्तज्वराधिकारः । तत्र द्बन्द्वज-ज्वरस्य विप्रकृष्टसन्निकृष्टकारणकथनपूर्व्विकांसंप्राप्तिमाह । तत्र वातपित्तज्वरस्य ।“वातपित्तकरैर्व्वातपित्ते आमाशयाश्रये ।बहिर्न्निरस्य कोष्ठाग्निं रसगे ज्वरकारिणी ॥
”स्यातामिति शेषः ॥
* ॥
अथ तस्य पूर्व्वरूपमाह ।“प्राग्रूपे वातपित्तस्य भवतो वातपैत्तिके ॥
”ज्वर इति शेषः ॥
* ॥
अथ वातपित्तज्वरस्य लक्षणमाह ।“तृष्णा मूर्च्छा भ्रमो दाहो निद्रानाशः शिरो-रुजा ।कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ॥
पर्व्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ॥
”पर्व्वभेदः पर्व्वाणि भिद्यन्त इवेति सन्धिषु व्यथा ॥
अथ वातपित्तज्वरस्य चिकित्सा ।“वातपित्तज्वरे देयमौषधं पञ्चमेऽहनि ।किराततिक्ताममृतां द्राक्षामामलकीं शटीम् ।निष्काथ्य सगुडं क्वाथं वातपित्तज्वरे पिबेत् ॥
”इति किरातादिक्वाथः ॥
* ॥
“गुडूची पर्पटो मुस्तं किरातो विश्वभेषजम् ।वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम् ॥
”इति पञ्चभद्रक्वाथः ॥
* ॥
“त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः ।शृतमम्बु हरत्याशु वातपित्तभवं ज्वरम् ॥
”इति त्रिफलादिक्वाथः ॥
* ॥
“मधुकं सारिवा द्राक्षा मधूकं चन्दनोत्पलम् ।काश्मीरफलकं लोध्रं त्रिफला पद्मकेशरम् ॥
परूषकं मृणालञ्च क्षिपेत् संचूर्ण्य वारिणि ।निशोषितं सिताक्षौद्रलाजयुक्तञ्च तत् पिबेत् ।वातपित्तज्वरं दाहं तृष्णामूर्च्छ्रारुचिभ्रमान् ॥
शमयेद्रक्तपित्तञ्च जीमूतमिव मारुतः ॥
”अत्र मधुकादिमृणालान्तं समुदितं पलपरि-मितं संचूर्ण्य क्षिपेत् वारिणि षट्पलपरिमिते ।मधुकादिर्हिमो दाहे ॥
* ॥
अथान्नमाह ।“मुद्गामलकयूषस्तु वातपित्तज्वरे हितः ।महादाहे प्रदातव्यो यूषश्चणकसम्भवः ॥
”दाडिमामलकमुद्गसम्भवो यूष उक्त इति वात-पैत्तिके ।“कफपित्तहरा मुद्गाः कारवेल्लादयस्तथा ।प्रायेण न च ते देया वातपित्तोत्तरे ज्वरे ॥
दत्तास्तु ज्वरविष्टम्भशूलोदावर्त्तकारिणः ॥
”इति वातपित्तज्वराधिकारः ॥
* ॥
अथ वातश्लेष्मज्वराधिकारः । तत्र तस्य विप्र-कृष्टसन्निकृष्टकारणकथनपूर्व्विकां सम्प्राप्तिमाह ।“वातश्लेष्मकरैर्व्वातकफावामाशयाश्रयौ ।बहिर्न्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ॥
”पूर्व्वरूपमाह ।“प्राग्रूपे वातकफयोः स्यातां वातकफज्वरे ॥
”तस्य लक्षणमाह ।“स्तैमित्यं पर्व्वणां भेदो निद्रागौरवमेव च ।शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम् ॥
सन्तापे मध्यवेगश्च वातश्लेष्मज्वराकृतिः ॥
”स्वेदाप्रवर्त्तनं स्वेदस्य आसमन्ताद्भावेन प्रवृत्तिः ॥
तथाह हारीतः ।“शिरोग्रहः स्वेदभवश्च कासोज्वरस्य लिङ्गं कफवातजस्येति ॥
”स्वेदभवः स्वेदोत्पत्तिः ॥
* ॥
ननु स्वेदः पित्तस्य धर्म्मः अतएव पित्तज्वरेकण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायत इत्यु-क्तम् । तस्मात् कथं वातश्लेष्मज्वरे स्वेदस्याति-प्रवृत्तिः । उच्यते । विकृतिविषमसमवायारब्ध-त्वान्न दोष इति कार्त्तिकः । प्रकृतिसमसमवा-यस्य विकृतिविषमसमवायस्य चायमर्थः ।प्रकृत्या हेतुभूतया समः कारणानुरूपः सम-वायः कार्य्यकारणभावः सम्बन्धः प्रकृतिसम-समवायः कारणानुरूपं कार्य्यमिति यावत् ।यथा प्रकृतैर्यथास्थितैः शुक्लैस्त्रन्तुभिः समवाय-कारणैरारब्धः पटः शुक्ल एव भवति । तथाप्रकृतेन केवलेन वातेन पित्तेन कफेन वाजनितो ज्वरो वाताद्युचितैर्धर्म्मैर्वमथुवेगाधिक्य-स्तैमित्यादिभिर्युक्तो भवति । विकृतिविषमसम-वायस्तु विकृत्या हेतुभूतया विषमः कारणाननु-रूपः समवायः कार्य्यस्य कारणेऽसम्बन्धः । यथासंयोगाद्बिकृताभ्यां हरिद्राचूर्णाभ्यां हेतुभूताभ्यांविषमः कारणानुरूपो लोहितो वर्णो जायते ।तथा योगेन विकृताभ्यां वातश्लेष्मभ्यां हेतु-भूताभ्यां विषमा कारणाननुरूपा स्वेदस्याति-प्रवृत्तिरिति सिद्धान्तः ॥
* ॥
अथ वातश्लेष्मज्वरस्य चिकित्सा ।“वातश्लेष्मज्वरे देयमौषधं नवमेऽहनि ।पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः ।दीपनीयः स्मृतो वर्गो वातश्लेष्मज्वरापहः ॥
कोलमात्रोपयोगित्वात् पञ्चकोलमिदं स्मृतम् ।तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् ॥
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥
”इति पञ्चकोलम् ॥
* ॥
“किरातविश्वामृतवल्लिसिंहिका-कणाकणामूलरसोनसिन्धुकैः ।कृतः कषायो विनिहन्ति सत्वरंज्वरं समीरात् सकफात् समुत्थितम् ॥
”इति किरातादिक्वाथः ॥
* ॥
“पिप्पल्यादिगणं क्वाथं पिबेद्बातकफज्जरी ।नातःपरं किञ्चिदस्मिन् ज्वरे भेषजमुत्तमम् ॥
”इति पिप्पल्यादिक्वाथः ॥
* ॥
“पिप्पलीपिप्पलीमूलचव्यचित्रकनागरः ।वचा सातिविषा जातीपाठावत्सकरेणुकम् ॥
किराततिक्तको मूर्व्वा सर्षपा मरिचानि च ।कट्फलं पुष्करं भार्गी विडङ्गं कर्कटाह्वयम् ॥
अर्कमूलं बृहत्सिंही श्रेयसी सदुरालभा ।दीप्यकश्चाजमोदा च शुकनासा सहिङ्गुका ॥
एतानि समभागानि गण एषोऽष्टविंशतिः ।एषां क्वाथो निपीतः स्याद्बातश्लेष्मज्वरापहः ॥
हन्ति वातं तथा शीतं प्रस्वेदमपि वेपथुम् ।प्रलापञ्चातितन्द्राञ्च रोमहर्षरुची तथा ॥
महावातेऽपतन्त्रे च शून्यत्वे सर्व्वगात्रजे ।पिप्पल्यादिर्म्महाक्वाथो ज्वरे सर्व्वत्र पूजितः ॥
”इति बृहत्पिप्पल्यादिक्वाथः ॥
* ॥
“दशमूलीरसः पीतः कणाढ्यः कफवातजे ।ज्वरे विपाके निद्रायां पार्श्वरुक्श्वासकासके ॥
इति दशमूलीक्वाथः ॥
* ॥
तत्र श्रेयसी रास्ना वातश्लेष्मज्वरहरत्वात् ॥
“पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम् ।वातश्लेष्मज्वरं हन्ति सेवितं प्लीहनाशनम् ॥
”इति पिप्पलीक्वाथः ॥
* ॥
“सूतकं टङ्कणं भृष्टं गन्धं शुद्धं समं समम् ।द्बिगुणं सूतकाद्देयं जैपालं तुषवर्ज्जितम् ॥
सैन्धवं मरिचं चिञ्चा त्वक् क्षारः शर्करापि च ।प्रत्येकं सूततुल्यं स्याज्जम्बीरैर्म्मर्द्दयेद्दिनम् ॥
सूर्य्यशेस्वरनामायं रसो गुञ्जाद्बयोन्मितः ।भक्षितस्तप्ततोयेन वातश्ले ष्मज्वरापहः ॥
”सूर्य्यशेखरो रसो वातश्लेष्मज्वरे शीतज्वरे च ॥
रमप्रदीपे ।“स्वेदोद्गमे भृष्टकुलत्थचूर्ण-निपातनं शस्तमिति ब्रुवन्ति ।जीर्णं शकृद्गोर्लवणस्य भाजनंसंचूर्णितं स्वेदहरं सुधूलनात् ॥
”मरिचं पिप्पली शुण्ठी पथ्या लोध्रश्च पौष्करम् ।भूनिम्बः कटुका कुष्ठं कर्च्चूरो लिङ्गिका शटी ॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।एतदुद्धूलनं श्रेष्ठं स्रोतोवत् स्वेदनिर्गमे ॥
”लिङ्गिका पञ्च गुरिया इति लोके । अत्र शटीगन्धपलाशी । इति मरिचाद्युद्धूलनम् ॥
* ॥
“भूनिम्बकारवीतिक्तावचाकट्फलजं रजः ।एषामुद्धूलनं श्रेष्ठं सन्ततं स्वेदसंस्रवे ॥
”इति भूनिम्बाद्युद्धूलनम् ॥
* ॥
पूर्व्वोक्तो बालुकास्वेदोऽप्यत्र समुचितः ॥
यतउक्तम् ।“पीनसश्वासवाधीर्य्ये जङ्घापार्श्वास्थिशूलिनि ।वातश्ले ष्मज्वरे स्वेदं कारयेत् तद्बिधानवित् ॥
* ॥
मातुलुङ्गफलकेशरो धृतःसिन्धुजन्ममरिचान्वितो मुखे ।हन्ति वातकफरोगमास्यगंशोषमाशु जडतामरोचकम् ॥
इति कवलः ॥
”अथान्नमाह ।“महत्या पञ्चमूल्यान्नं सम्यक् सिद्धं चिकित्सकः ।सप्तमे दिवसे दद्यात् ज्वरे वातबलासजे ॥
”इति वातश्लेष्मज्वराधिकारः ॥
* ॥
अथ पैत्तिकश्लेष्मज्वराधिकारः । तत्र तस्यविप्रकृष्टसन्निकृष्टकारणकथनपूर्व्विकां सम्पाप्ति-माह ।“पित्तश्ले ष्मकरैः पित्तकफवामाशयाश्रयौ ।बहिर्न्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ॥
”पूर्व्वरूपमाह ।“प्राग्रूपे पित्तकफयोः स्यातां पित्तकफे ज्वरे ॥
”अथ तस्य लक्षणमाह ।“लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा ।मुहुर्द्दाहो मुहुः शीतं पित्तश्ले ष्मज्वराकृतिः ॥
”आस्यस्य तिक्तत्वं पित्तेन । लिप्तत्वं कफेन ।तन्द्रा अर्द्धोन्मीलितनेत्रत्वम् । मोहो मूर्च्छा ॥
* ॥
अथ पित्तश्ले ष्मज्वरस्य चिकित्सा ।“पित्तश्ले ष्मज्वरे देयमौषधं दशमेऽहनि ।गुडूचीनिम्बधान्याकचन्दनं कटुरोहिणी ॥
गुडूच्यादिरयं क्वाथः पाचनो दीपनः स्मृतः ।तृष्णादाहारुचिच्छर्द्दिपित्तश्लेष्मज्वरापहः ॥
”इति गुडूच्यादिक्वाथः ॥
* ॥
“अमृताकटुकारिष्टपटोलं घनचन्दनम् ।नागरेन्द्रयवश्चैतदमृताष्टकमीरितम् ॥
क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहम् ।हृल्लासारोचकच्छर्द्दितृष्णादाहनिवारणम् ॥
”इति अमृताष्टकम् ॥
* ॥
“कण्टकार्य्यमृता भार्गी विश्वेन्द्रयववासकम् ।भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणीम् ॥
विपाच्य पाययेत् क्वाथं पित्तश्ले ष्मज्वरापहम् ।दाहतृष्णारुचिच्छर्द्दिकासशूलनिवारणम् ॥
”इति कण्टकार्य्यादिक्वाथः ॥
* ॥
“नागरोशीरविल्वाब्दधान्यमोचरसाम्बुभिः ।कृतः क्वाथो भवेद्ग्राही पित्तश्ले ष्मज्वरापहः ॥
”इति नागरादिक्वाथः ॥
* ॥
“सशर्क्करामक्षमात्रां कटुकाञ्च्येष्णवारिणा ।पीत्वा ज्वरं जयेज्जन्तुः पित्तश्ले ष्मसमुद्भवम् ॥
”अत्र कटुकाया द्बादशमाषाः । शर्क्कराया-श्चत्वारो माषाः । एवं कर्ष इति चक्रदत्तः ॥
वैद्यव्यवहारे तु कटुकाशर्क्करयोः समभागयो-रेव कर्षः । इति कटुकीकल्कः ॥
* ॥
“सपत्रपुष्पवासायाः रसः क्षौद्रसितायुतः ।पित्तश्ले ष्मज्वरं हन्ति सास्रपित्तं सकामलम् ॥
”अत्र वासाया रसो अर्द्धपलपरिमितो देयः ।मधुसितयोः प्रत्येकं टङ्कः प्रक्षेप्तव्यः ॥
* ॥
अथान्नमाह ।“कषायः परिपीतस्तु शृङ्गवेरपटोलयोः ।पित्तश्ले ष्मज्वरवमीदाहकण्डूहरो भवेत् ॥
” * ॥
अन्यच्च ।“पटोलघान्ययोर्यूषः पित्तश्ले ष्मज्वरापहः ॥
”इति पित्तश्ले ष्माधिकारः ॥
* ॥
अथ सन्निपातज्वराधिकारः । तस्य निदा-नादिचिकित्सा सन्निपातज्वरशब्दे द्रष्टव्या ॥
* ॥
अथागन्तुकज्वराधिकारमाह । तत्रागन्तुक-ज्वरस्य निदानान्याह ।“अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः ।आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ॥
”अभिघातः शस्त्रमुष्टिलगुडादिभिरभिहननम् ।अभिषङ्गः कामशोकभयक्रोधभूतादीनामावेशः ।अभिचारः कृत्याद्युत्पादनम् । अभिशापःब्राह्मणगुरुवृद्धसिद्धादिकृतः शापः । तं आगन्तु-ज्वरं यथास्वं यथादोषलक्षणं दोषैर्व्विभावयेत्विजानीयात् ॥
* ॥
अपराण्यपि निदाना-न्याह ।“ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः ।रागद्वेषभयाद्ये च ते स्युरागन्तवो गदाः ॥
”भयाद्येत्याद्यशब्देन भूतविषवाय्वग्निक्षतभङ्गादयःसंगृह्यन्ते । तेन रागादयोभङ्गाद्यन्ता हेतवो-ऽप्यागन्तुसंज्ञाः स्युः । कार्य्यकारणयोरभेदोप-चारात् । एतेन आगन्तुजः स्मृत इत्यत्राप्या-गन्तुशब्दो हेतुवाची आगन्तुर्ज्जायते दौषैरि-त्यत्र व्याधिवाची अभिघाताभिषङ्गाभ्यामित्यादिश्लोके दौषैर्यथास्वं तं विभावयेदितिवचनेनैवप्रतीयते । अभिधातादीनां विप्रकृष्टकारणत्वंमिथ्याहारविहाराणामिव दोषाणां सन्निकृष्ट-कारणत्वम् । तथा सति दक्षापमानसंक्रुद्धरुद्रे-त्यादि श्लोके आगन्तुज्वरस्याष्टमत्वविघातोदोषजेष्वेव प्रवेशात् । उच्यते । आगन्तुज्वरस्यदोषा आरम्भका न किन्तु पश्चादनुबन्धिनः ॥
* ॥
तथा चागन्तुज्वरस्य सम्प्राप्तिमाह चरकः ।आगन्तुर्हि व्यथापूर्व्वो जायते पश्चान्निजैर्दोषै-रनुबध्यत इति ॥
* ॥
तत्र कस्यागन्तोः को निजो दोष इत्यपेक्षाया-माह ।“कामशोकभयाद्बायुः क्रोधात् पित्तं त्रयो मलाः ।भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥
”कामशोकभयात् कामशोकभयजादागन्तोर्वायुःकुप्यति । क्रोधात् क्रोधजादागन्तोः पित्तंकुप्यति । भूताभिषङ्गात् भूतावेशजादागन्तोःत्रयो मला दोषाः कुप्यन्ति इत्यर्थः । भूत-सामान्यलक्षणाः भूतस्य भूतलक्षणस्य सामान्यंसमानता येषां तानि भूतसामान्यानि भूतसा-मान्यानि लक्षणानि येषां ते भूतसामान्य-लक्षणाः मलाः ॥
* ॥
अथागन्तुज्वराणां हेतुभेदैर्लक्षणभेदानाह ।“श्याव्यास्यता विषकृते तथातीसार एव च ।भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया ॥
”विषकृते स्थावरजङ्गमविषभक्षणकृते ज्वरे ।श्यावः शुक्लानुविद्धः कृष्णो वर्णः शाकवर्णो वा ।अतीसारः स्थावरविषेणैव तस्याधोगामित्वात् ।तोदः सूचीव्यधनेनेव व्यथा ॥
* ॥
“ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा ।कामजे चित्तविभ्रंशस्तन्द्रालस्यमभोजनम् ॥
हृदये वेदना चास्य गात्रञ्च परिशुष्यति ॥
”कामजे समीहितकान्ताद्यप्राप्तिनिमित्तके ज्वरे ।चकारात् वाग्भटोक्तान्यपि लक्षणानि बोद्ध-व्यानि । तानि यथा, --“कामाद्म्रमोऽरुचिर्द्दाहो ह्रीनिद्राधीधृतिक्षयः ।भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः ॥
”भयात् भयजे ज्वरे प्रलापः । शोकाच्च चकारेणप्रलाप एवानुकृष्यते । कोपाच्च कोपादपिवेपथुर्भवति ॥
* ॥
ननु वेपथुर्व्वातस्य धर्म्मः तत्कथं क्रोधजे ज्वरे वेपथुः । यत उक्तम् । क्रोधात्पित्तमिति । उच्यते ।“एकः प्रकुपितो दोष इतरानपि कोपयेत् ॥
”इति वचनात् पित्तकोपितषातजन्य एवात्रवेपथुः ॥
* ॥
किञ्च क्रोधाद्बायुरपि भवति ।यत उक्तं विदेहेन । क्रोधशोकौ स्मृतौ वात-पित्तरक्तप्रकोपनाविति । यत उक्तम् ।“भूताभिषङ्गादुद्वेगो हास्यं रोदनकोपने ।केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥
”भूताभिषङ्गोत्थो विषमज्वरो भवति । कदा-चिदपि वेगवान् कदाचिच्छान्तवेग इत्यर्थः ॥
‘अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ।”तृष्णा चेति चकारेण हारीतानुवादि वाग्-भटोक्तञ्च बोद्धव्यम् । तद्यथा, --“अत्राभिचारिकैर्म्मन्त्रैर्हूयमानस्य तप्यते ।पूर्व्वं मनस्ततो देहस्ततो विष्फोटविभ्रमैः ।सदाहमूच्छर्ग्रस्तस्य प्रत्यहं वर्द्धते ज्वर इति ॥
”अथ तेषां चिकित्सा ।“आगन्तुजे ज्वरे नैव नरः कुर्व्वन्ति लङ्घनम् ॥
”तथा च वाग्भटः ।“शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम् ॥
”नेष्यते इति शेषः । अन्यच्च ।“लङ्घनं न हित कामशोकचिन्ताप्रहारजे ।भयभूतश्रमक्रोधलङ्घनैश्च कृते ज्वरे ॥
किन्तु दीप्ताग्नये तत्र दद्यान्मांसरसौदनम् ।अभिघातज्वरे युञ्ज्यात् क्रियामुष्णविवर्ज्जिताम् ॥
कषायं मधुरं स्निग्धं यथादोषमथापि वा ।अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः ॥
रक्तावसेकैर्म्मेध्यैश्च तथा मांसरसौदनैः ॥
”मेध्यैर्म्मेधाय हितैः ॥
* ॥
“व्यधबन्धश्रमात्यध्वभङ्गभ्रंशसमुद्भवान् ।ज्वरानुपाचरेत् पूर्व्वं क्षीरमांसरसौदनैः ॥
”व्यधस्ताडनं कर्णादिवेधो वा । भङ्गश्छेदभेदादिकः ।भ्रंशो वृक्षादितः पतनम् ॥
* ॥
“अध्वश्रान्तेषु चाभ्यङ्गं दिवानिद्राञ्च कारयेत् ।ओषधीगन्धविषजौ विषपित्तप्रवाधनैः ।जयेत् कषायैर्म्मतिमान् सर्व्वगन्धकृतैर्भिषक् ॥
”सर्व्वगन्धमाह ।“चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् ।लवङ्गसहितञ्चैव सर्व्वगन्धं विनिर्द्दिशेत् ॥
* ॥
क्रोधजे पित्तजे काम्ये नार्य्याः सद्बाक्यमेव च ।आश्वासेनेष्टलाभेन वायोः प्रशमनेन च ॥
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः ।कामैरथ मनोघ्नैश्च पित्तघ्नैश्चाप्युपक्रमैः ॥
सद्बाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ॥
”कामैः कामावेशैः । मनोघ्नैः धिक्कारादिभि-र्भयजनकवचनैर्व्वा ॥
* ॥
“कामात क्रोधज्वरो नश्येत् क्रोधात् कामज्वर-स्तथा ।षातिताभ्यामुभाभ्याञ्च कामक्रोधज्वरक्षयः ॥
”घातिताभ्यामुभाभ्यां मनसि निगृहीताभ्यां काम-क्रोधाभ्याम् ॥
* ॥
“भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः ।जयेद्भूताभिषङ्गोत्थं मनःसान्त्वैश्च मानसम् ॥
”ताडनैरित्यस्य स्थाने केचित् पूजनैरिति पठन्ति ॥
“सहदेवाया मूलं विधिना कण्ठे निबद्धमपहरति ।एकद्बित्रिचतुर्भिर्द्दिवसैर्भूतज्वरं पुंसाम् ॥
अभिचाराभिशापोत्थौज्वरौ होमादिभिर्जयेत् ।दानस्वस्त्ययनातिथ्यैरुत्पातग्रहदुष्टिजौ ॥
”इत्यागन्तुज्वराधिकारः ॥
* ॥
अथ विषमज्वराधिकारमाह । तत्र विषम-ज्वरस्य निदानादिचिकित्सापर्य्यन्तं विषमज्वर-शब्दे द्रष्टव्यम् ॥
* ॥
अथ जीर्णज्जराधिकारः । तस्य निदानादिकंजीणज्जरशब्दे द्रष्टव्यम् ॥
* ॥
अथ दुर्ज्जलजनितस्य ज्वरस्य चिकित्सामाह ।“हरीतकी निम्बपत्रं नागरं सैन्धवोऽनलः ।एषां चूर्णं सदा खादेत् दुर्ज्जलज्वरशान्तये ॥
”इति हरीतक्यादि चूणम् ॥
* ॥
“अरुचिमनलमान्द्यं पीनसश्वासकासा-नुदरमुदकदोषानाशु हन्यादशेषान् ।जनयति तनुकान्तिं चित्तनेत्रप्रसादंपलपरिमितशुण्ठीक्षोदसिद्धः कषायः ॥
”इति शुण्ठीक्वाथः ॥
* ॥
“विषं भागद्बयं दग्धकपर्द्दः पञ्चभागकः ।मरिचं नवभागञ्च चूर्णं वस्त्रेण शोधयेत् ॥
आर्द्रकस्य रसेनास्य कुर्य्यान्मुद्गनिभां वटीम् ।वारिणा वटिकायुग्मं प्रातः सायञ्च भक्षयेत् ॥
अयं रसो ज्वरे योज्यः सामे दुर्ज्जलजेऽपि च ।अजीर्णाध्मानविष्टम्भशूलेषु श्वासकासयोः ॥
”इति दुर्ज्जलजेता रसः ॥
* ॥
“पटोलमुस्तामृतवल्लिवासकंसनागरं धान्यकिराततिक्तकम् ।कषायमेषां मधुना पिबन्नरोनिवारयेत् दुर्ज्जलदोषमुल्वणम् ॥
”इति पटोलादिक्वाथः ॥
* ॥
“किराततिक्तत्रिवृदम्बुपिप्पली-विडङ्गविश्वाकटुरोहिणीरजः ।निहन्ति लीढं मधुनातिसत्वरंसुदुस्तरं दुर्ज्जलदोषजं ज्वरम् ॥
”इति किराततिक्तादिचूर्णम् ॥
* ॥
“भोजनादौ नरैर्भुक्तं शुण्ठीराज्यभयोत्थितम् ।कल्कं तु सहते नित्यं नानादेशोद्भवं जलम् ॥
महार्द्रकयवक्षारौ पीत्वा चोष्णेन वारिणा ।नानादेशसमुद्भूतंवारिदोषमपोहति ॥
” * ॥
अथ साध्यस्य ज्वरस्य लक्षणमाह ।“बलवत्स्वपि दोषेषु ज्वरः साध्योऽनुपद्रवः ॥
”ज्वरस्योपद्रवानाह ।“श्वासमूर्च्छारुचिच्छर्द्दितृष्णातीसारविड्ग्रहाः ।हिक्काकासाङ्गमेदाश्च ज्वरस्योपद्रवा दश ॥
” * ॥
प्रसङ्गादुपद्रवाणां चिकित्सायां विशेषमाह ।“संजातोपद्रवो व्याधिस्त्याज्यो न स्याच्चिकित्-सकैः ।व्याधौ शान्त प्रणश्यन्ति सद्यः सर्व्वेऽप्युपद्रवाः ॥
अतो व्याधिं जयेद्यत्नात् पूर्व्वं पश्चादुपद्रवम् ।भिषग्यः कुशलः सोऽत्र जयेत् पूर्व्वमुपद्रवम् ॥
तेष्वपि प्रचुरेषु प्राङ्नाशयेदाशुकारिणम् ।मूलव्याधिं जयेत् पूर्व्वं जेयो यो वा भवेद्बली ॥
अविरोधेन वा कुर्य्यादुभयोरपि च क्रियाम् ॥
”तत्र ज्वरे श्वासस्य चिकित्सा ।“सिंही व्याघ्री ताभ्रमूली पटोलीशृङ्खी पद्मा पुष्करं रोहिणी च ।शाकं शट्या शैलमल्ल्याश्च बीजंश्वासं हन्यात् सन्निपाते दशाङ्गः ॥
”सिंही वडीकटैया । व्याघ्री कटैया । ताम्रमूलीदुरालभा । पद्मा भार्गी । रोहिणी कटुकी ।शैलमल्ली कोरैया । इति दशाङ्गो योगः ॥
* ॥
“भार्गीनिम्बघनाभयामृतलताभूनिम्बवासाविषा-त्रायन्तीकटुकावचात्रिकटुकश्योनाकशत्रुद्रुमैः ।रास्नायासपटोलपाटलिशटीदार्व्वीविशाला-त्रिवृद्-ब्राह्मीपुष्करसिंहिकाद्बयनिशाधात्र्यक्षदेव-दुमैः ॥
क्वाथोऽयं खलु सन्निपातनिवहान् द्बात्रिंशतांपानतो ।दुर्द्धर्षान्निजतेजसा विजयते सर्पान् गरुत्मानिवकिञ्च श्वासवलासकासगुदरुघृद्रोगहिक्कामरु-न्मन्यास्तम्भगलामयार्द्दितमला विष्टम्भव्रध्ना-नपि ॥
”विषा अतीस । शक्रद्रुमः ककुभः । देवद्रुमः देव-दारु ॥
इति द्बात्रिंशदङ्गक्वाथः ॥
* ॥
“मधुना कृष्णाकट्फलकर्क्कटशृङ्गीभवं चूर्णम् ।श्वासामये महोग्रे लीढ्वा लोकः सुखी भवति ॥
वन्योपलाग्नितापितदात्रस्याग्रेण पञ्जरे दाहः ।अपहरति श्वासामयमसंशयं भाषितं मुनिभिः ॥
”अथ ज्वरे मूर्च्छायाश्चिकित्सा ।“आर्द्रकस्य रसैर्नस्यं मूर्च्छायामाचरेन्नरः ।अञ्जनञ्च प्रयुञ्जीत मधुसिन्धुशिलोषणैः ॥
शीताम्भसाक्षिसेकः सुरभिर्धूपः सुगन्धिपुष्पञ्च ।मृदुतालवृन्तवातः कोमलकदलीदलस्पर्शः ॥
”अथ ज्वरे अरुचेश्चिकित्सा ।“अरुचौ तु शृङ्गवेरजरसकैः साम्लैः ससिन्धुजैःकवलः ।सिन्धूत्थमातुलुङ्गीफलकेशरधारणं वक्त्रे ॥
”अन्यच्च ।“अरुचौ मातुलुङ्गस्य केशरं साज्यसैन्धवम् ।धात्रीद्राक्षासितानां वा कल्कमास्ये तुधारयेत् ॥
”अथ ज्वरे छर्द्देश्चिकित्सा ।“क्वाथो गुडू च्याः समधुः सुशीतःपीतः प्रशान्तिं वमनस्य कुर्य्यात् ।विण्मक्षिकाणां मधुनावलीढासचन्दना शर्करयान्विता च ॥
”अथ ज्वरे तृष्णायाश्चिकित्सा ।“दन्तशठवीजपूरकदाडिमवदरैः सचुक्रकैर्व्वदने ।लेपो जयति पिपासामथ रजतगुटीमुखान्तःस्था ॥
शीतं पयः क्षौद्रयुतं निपीत-माकण्ठमाश्वेव तदुद्बमेच्च ।तर्षप्रकर्षप्रशमाय वक्त्रेदध्याद्गदक्षौद्रवटाग्रलाजान् ॥
” * ॥
अथ ज्वरे अतीसारस्य चिकित्सा ।“लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः ।समुदीर्णदोषनिचयं शमयति तत् पाचयत्यपि च ॥
वत्सादनीवत्सकवारिवाह-विश्वम्भरानिम्बविषाः सविश्वाः ।ज्वरातिसारं त्वरितं जयन्तिविश्वामृतावत्सकवारिवाहः ॥
”विश्वम्भरानिम्बो भूनिम्बः ।“पाठामृतापर्पटमुस्तविश्वा-किराततिक्तेन्द्रयवान् विपाच्य ।पिबन् हरत्येव दृढेन सर्व्व-ज्वरातिसारानपि दुर्न्निवारान् ॥
” * ॥
अथ ज्वरे विड्ग्रहस्य चिकित्सा ।“विड्ग्रहे वातजित् कर्म्म कुर्य्यादन्नानुलोमनम् ।मलं प्रवर्त्तयेदाशु तीक्ष्णाभिः फलवर्त्तिभिः ॥
पथ्यारग्वधतिक्तात्रिवृदामलकैः शृतं तोयम् ।जीर्णज्वरे विबन्धे दद्यादाश्वेव विडग्रहःशाम्येत् ॥
”अथ ज्वरे हिक्कायाश्चिकित्सा ।“नीरेण सिन्धूत्थरजोऽतिसूक्ष्मंनस्येन नूनं विनिहन्ति हिक्काम् ।शुण्ठी हठाद्वा सितया समेताधूपोऽथवा हिङ्गुसमुद्भवश्च ॥
” * ॥
अथ ज्वरे कासस्य चिकित्सा ।“कासे कणाकणामूलं कलिद्रुमफलं रजः ।सविश्वभेषजं लिह्यात् मधुना वा वृषाद्रसम् ॥
”रजः पर्पटकम् ।“पुष्करमूलकटुत्रिकशृङ्गीकट्फलयासककार-विकाभिः ।मधुलुलिताभिरयं खलु लेहः कासरिपुः कफ-रोगहरश्च ॥
” * ॥
अथ ज्वरे दाहस्य चिकित्सा ।“दाहाधिकारलिखितं दाहे कुर्य्याच्चिकित्सितम् ।परं ज्वराविरुद्धं यन्मुख्यो नाश्यो ज्वरो यतः ॥
”अथ सुखसाध्यस्य ज्वरस्य लक्षणम् ।“सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनाञ्च मार्द्दवम् ।वहिर्व्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥
”तृष्णादीत्यादिशब्देनान्तर्द्दाहसन्ध्यस्थि-व्यथा-श्वासा गृर्ह्यन्ते । तेषामार्द्दवमल्पता । बहि-र्व्वेगस्य ज्वरस्य ।“वर्षाशरद्बसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।प्राकृतः सुखसाध्यस्तु शरत्सुरभिसम्भवः ॥
”सुरभिर्व्वसन्तः ॥
* ॥
अथ कष्टसाध्यस्य ज्वरस्य लक्षणमाह ।“वैकृतोऽन्यः स दुःसाध्यः प्राकृतेष्वनिलोद्भवः ॥
”अन्यः प्राकृतादन्यः वैकृतः । * । वर्षादिषुज्वरं जनयतां वातादीनां चिकित्साविशेषार्थंप्राधान्यमप्राधान्यञ्चाह ।“वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितं ज्वरम् ।कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः ॥
”तस्य पित्तज्वरस्य चिकित्सामाह ।“तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥
”तत्प्रकृत्या तस्य पित्तस्य प्रकृत्या स्वभावेन ।यत उक्तम् ।“कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ॥
” इति ।विसर्गाच्च शरदो विसर्गकालत्वाच्च । यत उक्तम् ।वर्षाशरद्धेमन्ता विसर्गाः कालास्तत्रोपचितबला-प्राणिनो भवन्ति सोमस्य बलवत्त्वादिति । तत्रशरदि पित्तज्वरे अनशनाद्भयं न । कफो वसन्तेतमपि वातपित्तं भवेदनु । वसन्ते कफज्वरेऽपिकफप्रकृत्या लङ्घनाद्भयं न भवति । किन्तुवसन्तस्यादानकालत्वात् निःशङ्कं न कर्त्तव्यम् ।यत उक्तम् । शिशिरवसन्त-ग्रीष्मास्त्वादानकालाःस्तत्रापचितबलाः प्राणिनो भवन्ति सूर्य्यस्यबलवत्त्वादिति । एतेनेदं उक्तम् । वर्षासु वायुःप्रधानं पित्तश्लेष्माणावप्रधाने । शरदि पित्तंप्रधानं कफोऽप्रधानम् । वसन्ते श्लेष्मा प्रधानंवातपित्ते अप्रधाने । तत्र प्रधानस्य प्राधा-न्येन चिकित्सा कर्त्तव्या । सा चाप्रधानानिषिद्धा विषेया । एवं वैकृतेष्वपि प्रधा-नस्य प्राधान्येन चिकित्सा कर्त्तव्या । तथाचोक्तम् ।“संसर्गे यो गरीयान् स्यादुपक्रम्य स वै भवेत् ।शेषदोषाविरोधेन सन्निपाते तथैव च ॥
”संसर्गे दोषद्बयस्य संसर्गे । गरीयान् प्रधानः ।“अन्तर्द्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः ।सन्ध्यस्थिशूलमस्वेदो दोषवर्च्चोविनिग्रहः ॥
अन्तर्व्वेगस्य लिङ्घानि कष्टसाध्यत्वमेव च ॥
”वर्च्चोविनिग्रहः पुरीषाप्रवृत्तिः ॥
* ॥
अथासाध्यस्य ज्वरस्य लक्षणमाह ।“ज्वरः क्षीणस्य शूलस्य गम्भीरो दैर्घ्यरात्रिकः ।असाध्यो बलवान् यश्च केशसीमन्तकृत् ज्वरः ॥
”दैर्घ्यरात्रिकः बहुरात्रानुबन्धी । केशसीमन्तकृत्प्रभावात् केशेषु सीमन्तं यः करोति ॥
* ॥
गम्भीरस्य लक्षणमाह ।“गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्द्दाहेन तृष्णया ।आनद्धत्वेन चात्यर्थं कासश्वासोद्गमेन च ॥
”आनद्धत्वेन विबद्धमलत्वेन ॥
* ॥
सामान्य-ज्वरेऽपि कर्णमूलशोथस्यासाध्यत्वादिकमाह ।“ज्वरस्य पूर्व्वं ज्वरमध्यतो वाज्वरान्ततो वा श्रुतिमूलशोथः ।क्रमादसाध्यः खलु कृच्छ्रसाध्यःसुखेन साध्यो मुनिभिः प्रदिष्टः ॥
” * ॥
अथारिष्टमाह । तत्रारिष्टस्य लक्षणम् ।“रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते ।तल्लक्षणमरिष्टं स्याद्रिष्टमप्यभिधीयते ॥
हेतुभिर्बहुभिर्जातो बहुभिर्बहुलक्षणः ।ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः ॥
”शीघ्रमिन्द्रियनाशनः उत्पन्नमात्र एव चिकित्-स्यमानोऽपीन्द्रियाणां चक्षुरादीनां शक्तिं योनाशयति ॥
* ॥
अन्यच्चारिष्टमाह ।“विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ।शीतार्द्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ॥
”विसंज्ञः विगतज्ञानः । ताम्यते नष्टहर्षः । शेतेनिपतितोऽपि वा अत्रापिशब्द एवार्थः निप-तित एव तिष्ठति न चोत्थातुं समर्थः तथा सन्शेत एव । शीतार्दितः बहिः । अन्तरुष्णःअन्तर्द्दाहवान् ॥
* ॥
अन्यच्च ।“यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् ।वक्त्रेण चैवाच्छ्वसिति ज्वरस्तं हन्ति मानवम् ॥
”हृष्टरोमा रोमाञ्चवान् । हृदि सङ्घातशूलवान्सान्निपातिकशूलवान् । वक्त्रेण चैवोच्छ्वसितिन तु नासिकया ॥
* ॥
अन्यच्च ।“हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ।सन्ततोच्छासिनं क्षीणं नरं क्षपयति ज्वरः ॥
”क्षपयति समापयतीत्यर्थः ॥
* ॥
अन्यच्च ।“हतप्रभेन्द्रियं क्षाममरोचकनिपीडितम् ।गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्ज्जयेत् ॥
”हता प्रभा दीप्तिर्येषाम् । अथवा हता प्रभाप्रतिभा विषयग्रहणशक्तिर्येषां तथाविधानीन्द्रि-याणि यस्य तं हतप्रभेन्द्रियम् । क्षामं क्षीणम् ।गम्भीरतीक्ष्णवेगात्तं गम्भीरः उक्तलक्षणःतीक्ष्णवेगः अतिदुःसहवेगः ताभ्यां आर्त्तंदुःखितम् ॥
* ॥
अन्यच्च ।“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ।शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥
”व्याख्यातोऽयं श्लोकः ॥
* ॥
विषमज्वरस्यारिष्टमाह ।“आरम्भाद्बिषमो यस्य यस्य वा दैर्घ्यरात्रिकः ।क्षीणस्य चातिरूक्षस्य गम्भीरोहन्ति यस्य तम् ॥
”यस्य आरम्भाद्बिषमः प्रथमोत्पत्तेरेव विषमःन तु ज्वरोत्सृष्टस्य । यस्य दैर्घ्यरात्रिको वा यस्यक्षीणस्यातिरूक्षस्य च गम्भीरोभवति तंविषमोदैर्घ्यरात्रिको गम्भीरश्च हन्तीत्यर्थः ॥
इतिज्वराधिकारः ॥
* ॥
अथ ज्वरातिसाराधिकारः ।“ज्वरातिसारयोरुक्तं निदानं यत् पृथक् पृथक् ।तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः ॥
”अथ ज्वरातिसारस्य चिकित्सामाह ।“ज्वरातिसारयोरुक्तं भेषजं यत् पृथक् पृथक् ।न तन्मिलितयोः कार्य्यमन्योन्यं वर्द्धयेत् पुनः ॥
”अयमभिप्रायः । ज्वरहरमनुलोमनं भवति ।अतीसारहरं स्तम्भनं भवति । अतः परस्पर-विरुद्धत्वात् पृथक् उक्तं भेषजं मिलितयोर्न्नकार्य्यम् । यत आह ।“अनुलोमनं ज्वरघ्नं ग्राहकमतिसारहृद्भवति ।पृथगुत्तमौषधं तज्ज्वरातिसारे विरुद्धमन्योन्यम् ॥
अतस्तौ प्रतिकुर्व्वीत विशेषोक्तचिकित्सितैः ॥
लङ्घनमेकं मुक्त्र्य न चान्यदस्तीह भेषजं बलिनः ।समुदीर्णदोषनिचयं तत् पाचयेत्तथा शमयेत् ॥
लङ्घनमुभयोरुक्तं मिलिते कार्य्यं विशेषतस्तदनु ।उत्पलषष्ठकसिद्धं लाजमण्डादिकं सकलम् ॥
”उत्पलषष्ठकं यथा, --“पृश्निपर्णीबलाविल्वधनिकानागरोत्पलैः ।ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः ॥
”अत्र लाजमण्डाद्यपेक्षया वाशब्दः । अतिसारेपुरीषातिप्रवृत्त्या साम्लत्वञ्च दाडिमरसादिनाकर्त्तव्यम् । इत्यत्पलषष्ठकम् ॥
* ॥
“कणा करिकणा लाजक्वाथो मधुसितायुतः ।पीतो ज्वरातिसारस्य तृष्णावम्योश्च नाशनः ॥
”इति कणादिक्वाथः ॥
* ॥
“नागरातिविषामुस्तामृताभूनिम्बवत्सकैः ।क्वाथः सर्व्वज्वरहरः सर्व्वातीसारनाशनः ॥
”इति नागरादिक्वाथः ॥
* ॥
“गुडूच्यतिविषाधान्यशुण्ठीविल्वाब्दबालकैः ।पाठा भूनिम्बकुटजं चन्दनोशीरपर्पटैः ।पिबेत् कषायं सक्षौद्रं ज्वरातीसारशान्तये ॥
ह्यल्लासारुचितृड्दाहवमीनां विनिवृत्तये ॥
”इति बृहद्गुडूच्यादिक्वाथः ॥
* ॥
“उत्पलं दाडिमत्वक् च पद्मकेशरमेव च ।पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम् ॥
”इत्युत्पलादिचूर्णम् ॥
* ॥
विल्वबालकभूनिम्बगुडूचीधान्यनागरैः ।कुटजाब्दयुतः क्वाथो ज्वरातीसारशूलनुत् ॥
इति विल्वादिक्वाथः ॥
* ॥
“नागरातिविषाविश्वागुडूचीविल्वमुस्तकैः ।कषायः पाचनः शोथज्वरातीसारवारणः ॥
”इति नागरादिक्वाथः ॥
* ॥
“दशमूलीकषायेण विश्वामक्षसमां पिबेत् ।ज्वरे चैवातिसारे च सशोथे ग्रहणीगदे ॥
”इति दशमूलीक्वाथः ॥
* ॥
इति ज्वरातिसाराधिकारः । इति भावप्रकाशः ॥
कृदन्तरूपमाला
Sanskrit1 {@“ज्वर रोगे”@} 2 3 ज्वारकः-रिका, 4 ज्वरकः-रिका, जिज्वरिषकः-षिका, 5 जाज्वरकः-रिका
ज्वरिता-त्री, ज्वरयिता-त्री, जिज्वरिषिता-त्री, जाज्वरिता-त्री
ज्वरन्-न्ती, 6 संज्वरन्ती, ज्वरयन्-न्ती, जिज्वरिषन्-न्ती
-- ज्वरिष्यन्-न्ती-ती, ज्वरयिष्यन्-न्ती-ती, जिज्वरिषिष्यन्-न्ती-ती
-- -- ज्वरयमाणः, -- जाज्वर्यमाणः
-- ज्वरयिष्यमाणः, -- जाज्वरिष्यमाणः
7 जूः-जूरौ-जूरः
-- -- -- ज्वरितम्-तः-तवान्, ज्वरितः, जिज्वरिषितः, जाज्वरितः-तवान्
8 ज्वरः, 9 सञ्ज्वारी, 10 ज्वरः, जिज्वरिषुः, जाज्वरः
ज्वरितव्यम्, ज्वरयितव्यम्, जिज्वरिषितव्यम्, जाज्वरितव्यम्
ज्वरणीयम्, ज्वरणीयम्, जिज्वरिषणीयम्, जाज्वरणीयम्
ज्वार्यम्, ज्वर्यम्, जिज्वरिष्यम्, जाज्वर्यम्
ईषज्ज्वरः-दुर्ज्वरः-सुज्वरः
-- -- ज्वर्यमाणः, ज्वर्यमाणः, जिज्वरिष्यमाणः, जाज्वर्यमाणः
ज्वारः, ज्वरः, जिज्वरिषः, जाज्वरः
ज्वरितुम्, ज्वरयितुम्, जिज्वरिषितुम्, जाज्वरितुम्
11 12 जूर्तिः, 13 ज्वरणा, जिज्वरिषा, जाज्वरा
ज्वरणम्, ज्वरणम्, जिज्वरिषणम्, जाज्वरणम्
ज्वरित्वा, ज्वरयित्वा, जिज्वरिषित्वा, जाज्वरित्वा
प्रज्वर्य, 14 प्रज्वरय्य, प्रजिज्वरिष्य, प्रजाज्वर्य
ज्वारम् २, ज्वरित्वा २, 15 ज्वरम् २, -ज्वारम् २, ज्वरयित्वा २, जिज्वरिषम् २, जिज्वरिषित्वा २, जाज्वरम् २
जाज्वरित्वा २। 16 इति निप्रत्ययः।
ज्वरति, ज्वरणं वा जूर्णिः = रोगः।
अत्र धातोः सम्प्रसारणोठादयो यथासम्भवमूह्याः।]] जूर्णिः।
01 (६३१)
02 (१-भ्वादिः-७७६। अक। सेट्। पर। घटादिः।)
03 [[१। ‘अत उपधायाः’ (७-२-११६) इत्युपधाकारस्य वृद्धिः। एवं ण्यदादिषु ज्ञेयम्।]]
04 [[२। अस्य धातोः घटादिपाठेन मित्त्वात्, णौ परतः उपधावृद्धौ सत्यम्, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वो भवति। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05 [[३। यङि द्वित्वादिके कृते, अभ्यासे, ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06 [[आ। ‘ताः संज्वरन्तीर्गलदश्रुधारा विमोहशक्त्या हिडयन् वियोगः।’ धा। का। २। ६।]]
07 [[४। ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च’ (६-४-२०) इति, उपधावकारयोर्द्वौ ऊठौ। अनन्तरं सवर्णदीर्घः। ‘खरवसानयोः--’ (८-३-१५) इति विसर्गः। जूः = पिशाचः।]]
08 [[B। ‘स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति।।’ शिशुपालवधे २। ५४।]]
09 [[५। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वर--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्ययो भवति। उपधावृद्धिः।]]
10 [[C। ‘संज्वारिणेव मनसा ध्वान्तमायासिना मया।’ भ। का। ७। ६।]]
11 [पृष्ठम्०६००+ २५]
12 [[१। ‘तितुत्र--’ (७-२-९) इति, इण्णिषेधः। ‘ज्वरत्वर--’ (६-४-२०) इत्युपधाव- कारयोरूठौ भवतः।]]
13 [[आ। ‘सुहृन्मनोजूर्तिकृतस्तथापि तस्मान्मदीयान्वयनाशवांशः।’ वा। वि। ३। २८।]]
14 [[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
15 [[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
16 [[४। ‘वीज्याज्वरिभ्यो निः’ [द। उ। १-१८]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
