ज्योतिष्टोम (jyotiSToma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Englishज्योति—ष्टोम (fr. °तिस्-स्तोम, viii, 3, 83) of a Soma ceremony (typical form of a whole class of ceremonies consisting originally of 3, and later of 4, 5, or 7 subdivisions, viz. Agni-ṣṭoma (q.v.), Ukthya, and Ati-rātra, or in addition to these Ṣoḍaśin, Aty-agni-ṣṭoma, Vāja-peya, and Aptor-yāma), vii
x, xiii
iii
Benfey
EnglishShabdartha Kaustubha
Kannadaज्योतिष्टोम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ವರ್ಗಕಾಮನೆಯಿಂದ ಮಾಡುವ ಜ್ಯೋತಿಷ್ಟೋಮವೆಂಬ ಒಂದು ಯಾಗ /೧೬ ಜನ ಋತ್ವಿಕ್ಕುಗಳಿಂದ ನಡೆಸಲ್ಪಡುವ ಒಂದು ಯಜ್ಞ
व्युत्पत्तिः - > ज्योतींशि त्रिवृदादयः स्तोमा यस्य
प्रयोगाः - > "बहुधा निःसृतः कायाज्जोतिष्टोमः क्रतुर्यथा" । ज्योतिष्टोमेन स्वर्गकामो यजेत" ।
उल्लेखाः - > भा० वन० २२१-३०, श्रुतिः
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
Englishशब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritज्योतिष्टोम ज्योतीषि त्रिवृदादयः स्तोमायस्य षत्वम् ।१ स्वनामख्याते अग्निष्टोमस्वं स्थारूपे यज्ञभेदे तद्विधानादिताण्ड्य० ब्रा० ४ । १ । ६ ।“यज्ज्योतिष्टोमो भवति यज्ञमुखन्तटाध्नुवन्ति यदुक्थोयज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्तै” मू०“अथ षोडशिकोऽयमतिरात्र इत्युक्तं, कॢप्तो ज्योति-ष्टोमोऽतिरात्रः स षोडशिक इति । अथ तद्व्यतिरिक्ता-भिस्तिसृभिः संस्थाभिरवयुज्य स्तूयते । षद्यपि सर्वेषा-मपि ज्योतिष्ठोमत्वमस्ति तथापि उक्थातिरात्रसंस्थयोःपृथग्वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्दे-नोच्यते । ज्योतीषि त्रिवृदादयः स्तोमा यस्य सज्योतिष्टोमः । तथा च तैत्तिरीयकं त्रिवृत्पञ्चदश सप्तदशएकविंश एतानि ज्योतींषि यत एतस्य स्तोमा इति ।यज्जोतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्मको भवति ज्यो-तिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या, “एष वाच प्रथमोयज्ञानामिति” श्रुतेः । तत्तेन यज्ञमुखं यज्ञानां मुखभूतम-ग्निष्टोमं प्राप्य आध्नुर्वन्ति सत्रिणः समृद्धा भवन्ति तथातस्मिन्नतिरात्रे उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतरन्त-र्भवतीति यत् तत् यज्ञक्रतोः संपूर्णस्य यज्ञस्य अनन्तर-याय अपरित्यागाय भवति उक्थसंस्थायां हि क्रतुःसंपूर्णो भवति यथा पूर्वयोः सवनयोः पञ्चदश पञ्चदशस्तात्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात् । अग्नि-ष्टोमस्त्वसंपूर्णः क्रतुः उक्तहेतोरभावात्” भा० ।तस्य च अग्निष्टोमसंस्थत्वेन ज्योतिष्टोमनामताहेतु-रुक्तो यथा “यदेतानि सर्वाणि सह दुरुपापानि कै-तेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमेनैवाग्निष्टो-मेन यजेत । तम्य वा एतस्य ज्योतिष्टोमस्या-ग्निष्टोमस्य त्रिवृद्बहिष्पवमानं तदुव्रतस्य शिरः, पञ्चदशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ, पञ्चदशं होतु-राज्यं सप्तदशं पृष्टमेकविंशं यज्ञायज्ञियं तत् पुच्छम्”शत० ब्रा० १० । १ । २ । ७ । “अधुनां प्रथमसंस्थारूपज्योति-ष्टोमाग्निष्टोमं महाव्रतयज्ञात्मना स्तोतुं तत्रैवाग्निचय-नादित्रयस्योपादानाद् ब्रह्मवादिप्रश्नोत्तराभ्यां दर्शयति ।सह युगपत् दुरुपापानि आप्तुमशक्यानि सर्वेषां महाव्र-तयज्ञानुष्ठाने प्रयोगबाहुल्येनऋत्विक्सम्पादनादेः दुष्कर-त्वेन चानधिकारात् तत्राम्बिष्टोम इति पदेनाग्निस्तव-नोक्तेरग्निचयनमुक्तमिति मन्तव्यम् । पक्ष्याकारस्य महा-व्रतसाम्नो हि शिरःपक्षमध्यपुच्छात्मकाः पञ्चावयवाःशिरो नायत्रं, रथन्तरं दक्षिणः पक्षः वृहदुत्तरः पक्षःभद्रमस्य पुच्छं राजनसाम ह्यात्मेति तत्सर्वमग्निष्टोमेसम्पादयति तस्य वा इति ऋकत्रयात्मकमेक सूक्तं तादृ-शानि त्रीणि सूक्तानि त्रिवृतोऽवयवायस्य स्तोमस्य तदिदंत्रिवृदु बहिष्पवमानम् प्रातःसवनिकं तृचं सूक्तत्रयात्मकंवहिष्पवमानं महाव्रतस्य शिरो भवति बहिष्पवमानमपि गायत्रीच्छन्दस्कैस्तृचैर्गातव्यम् माध्यन्दिनः पञ्चदशस्तोत्रियात्मकः पवमानः, तृतीयंसवने सप्तदशस्तोत्रिया-त्मकः आर्भवः षवमानः पक्षस्थानीयौ होत्रानुशंसनीयंप्रथममाज्यस्तोत्र” सप्तदशस्तोत्रियात्मकं पृष्ठनामकंहोतुः प्रथमं स्तोत्रम् तदुभयं मध्यात्मरूपम् । एकविं-शत्यावृत्तिरूपं “यज्ञायज्ञा वो अग्नयः” इत्यत्रोत्पन्नं सामपुच्छस्थनीयम्” भा० २ सोमयागे च “ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तदुगुणदर्शनात्” कात्या० श्रौ०१२ । १ । १ “ज्योतिष्टोमशब्देन उपांश्वादिहारियोस्रनपर्य्यन्तो ग्रहयज्ञाभ्यासोऽभिधीयते ज्योतींषि यम्यस्तोमाः स ज्योतिष्टोमः स्तोमैर्ह्यसौ द्योत्यत इति ते चसोमयागस्य स्तोमाः तस्मात् ज्योतिष्ठोमशब्देन सोम-यागोऽभिधीयते” कर्कः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
