ज्योतिर्लोक (jyotirloka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritज्योतिर्लोक ज्योतिषां लोकः आश्रयः । कालचक्र-प्रवर्त्तकध्रुवलोके २ तदधिपे परमेश्वरे च तल्लोकस्थिति-वर्णनं भाग० ५ । २३ अ० ।“अथ तस्मात् परतस्त्रयोदशलक्षयोजनान्तरतो यत्त-द्विष्णोः परमं पदमभिवदन्ति । यत्र महाभागवतोध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेणच समकालयुग्भिः सहवहुमानं दक्षिणतः क्रियमाणइदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महा-नुभाव उपवर्णितः । सहिं सर्वेषां ज्योतिर्गणानांग्रहनक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेनभ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्व-दवभासते । यथा मेधीस्तम्भ आक्रमणपशवः संयोजिता-स्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्तिः एवंभगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयो-जिता ध्रुवमेवालम्ब्य वायुंनोदीर्य्यमाणा आकल्पान्तंपरितः क्रामन्ति । नभसि यथा मेघाः श्येनादयोवायुवशाः कर्म्मसारथयः परिवर्त्तन्ते । एवं ज्योतिर्गणाःप्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भिवि नपतन्तिं । केचिदेतत् ज्योतिरनीकं शिशुमारसम्स्थानेनभगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति । यस्यपुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितःतस्य लाङ्गुले प्रजापतिरिग्निरिन्द्रो धर्मैति । पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे नक्ष-त्राणि उपकल्पयन्ति । दक्षिणानि तु सव्ये यथाशिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्य-वयवाः समसंख्यां भवन्ति । पृष्टे त्वजवीथी आकाशगङ्गाचोदरतः । पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्रा-श्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढेदक्षिणवामपार्श्ववध्रिषु युञ्जीत । तथैव मृगशीर्षादीन्यु-दगयनानि दक्षिणपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत ।शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् । उत्त-राहनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकःशनैश्चर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदयेनारायणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्रिनौबुधः प्राणापानयोरार्हुगले, केतवंः सर्वाङ्गेषु, रोमसुसर्वे तारागणाः । एतदुहैव भगवतो विष्णोः सर्वदेवता-मयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्ष्य-माण उपतिष्ठेत् । नमो ज्योतिर्लोकाय कालायनायअनिमिषां मतयो महापुरुषाभिधीमहीति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
