| YouTube Channel

ज्येष्ठाश्रमी (jyeSThAzramI)

 
Wordnet
Sanskrit
Synonyms:
गृहस्थः, ज्येष्ठाश्रमी, गृहमेधी, स्नातकः, गृही, गृहपतिः, सत्री, गृहयाय्यः, गृहाधिपः, कुटुम्बी, गृहायनिकः
noun
यः गृहेषु दारेषु अभिरमते।
"सः गृहस्थः सुखी भवति यः कुटुम्बेन सह जीवति।"
शब्दकल्पद्रुमः
Sanskrit
ज्येष्ठाश्रमी, [न्]
पुं,
(आश्रमोऽस्त्यस्य इति ।आश्रम + इनिः ज्येष्ठः श्रेष्ठ आश्रमी ।)“ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।चत्वार आश्रमाः प्रोक्ताः सर्व्वेगार्हस्थमूलकाः
”“यथा वायुं समाश्रित्य वर्त्तन्ते सर्व्वजन्तवः ।तथा गार्हस्थमाश्रित्य वर्त्तन्ते सर्व्व आश्रमाः
”इति वचनाच्च गृहस्थाश्रमस्य सर्व्वाश्रमेषूत्कृष्ट-त्वात् तथात्वम् ।) गृहस्थः इति हेमचन्द्रः