| YouTube Channel

ज्ञेयं (jJeyaM)

 
शब्दकल्पद्रुमः
Sanskrit
ज्ञेयं, त्रि, (ज्ञायते इति ज्ञा + कर्म्मणि यत् ।)ज्ञानयोग्यम् ज्ञातव्यम् यथा, --“ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।अनादिमत् परं ब्रह्म सत्तन्नासदुच्यते
सर्व्वतः पाणिपादं तत् सर्व्वतोऽक्षिशिरोमुखम् ।सर्व्वतः श्रुतिमल्लोके सर्व्वमावृत्य तिष्ठति
सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् ।असक्तं सर्व्वभृच्चैव निर्गुणं गुणभोक्तृ
वहिरन्तश्च भूतानामचरं चरमेव ।सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके तत्
अविभक्तञ्च भूतेषु विभक्तमिव स्थितम् ।भूतभर्त्तृ तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य धिष्ठितम्
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते
”इति श्रीभगवद्गीतायां १३ अध्यायः