| YouTube Channel

ज्ञानी (jJAnI)

 
Hindi
Hindi
जो ज्ञान में है
Wordnet
Sanskrit
Synonyms:
ज्ञानी, योगी, तत्वदर्शी, अन्तःप्रज्ञः, आत्मज्ञः, आत्मज्ञानी, सिद्धः
noun
यः आत्मानं जानाति।
"महन्तः ज्ञानिनः अपि भगवतः दर्शनं काङ्क्षन्ति।"
शब्दकल्पद्रुमः
Sanskrit
ज्ञानी, [न्]
पुं,
(ज्ञानमस्त्यस्येति ज्ञान +“अत इनिठनौ ।” ११५ इति इनिः ।)दैवज्ञः (सामान्यबोधयुक्तमात्रे, त्रि यथा, मार्कण्डेये ८१ ३६ ।“ज्ञानिनो मनुजाः सत्यं किन्तु ते नहि केवलम् ।यतो हि ज्ञानिनः सर्व्वे पशुपक्षिमृगादयः
”)ज्ञानयुक्ते च, त्रि इति मेदिनी ते, ६९
तस्य लक्षणं यथा, --“प्रजहाति यदा कामान् सर्व्वान् पाथ ! मनो-गतान् ।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते
यः सर्व्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् ।नाभिनन्दति द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
यदा संहरते चायं कर्म्मोऽङ्गानीव सर्व्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता
”ज्ञानिनापि कर्म्म कर्त्तव्यम् यथा, --“सक्ताः कर्म्मण्यविद्बांसो यथा कुर्व्वन्ति भारत ! ।कुर्य्याद्धिद्वांस्तथा सक्तश्चिकीर्षुः कर्म्म संग्रहम्
बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन्
प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः ।अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते
तत्त्ववित्तु महाबाहो ! गुणकर्म्मविभागयोः ।गुणा गुणेषु वर्त्तन्त इति मत्वा सज्जते
”ज्ञानिप्रशंसा यथा, --“चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! ।आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी भरतर्षभ !
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।प्रियो हि ज्ञानिनोऽत्यर्थमहं मम प्रियः
उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम् ।आस्थितः हि युक्तात्मा मामेवानुत्तमां गतिम्
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।वासुदेवः सर्व्वमिति महात्मा सुदुर्लभः
”इति श्रीभगवद्गीता