ज्ञानलक्षणा (jJAnalakSaNA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
SanskritHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritज्ञानलक्षणा स्त्री ज्ञानं ज्ञानभेदो लक्षणं स्वरूपं यस्याः ।न्यायमते अलौकिकप्रत्यक्षसाधने सन्निकर्षभेदे उपनय-शब्दे १२१५ पृ० विवृतिः । मथुरानाथेन तु अन्यथैवसामान्यलक्षणाज्ञानलक्षणयोर्भेदो दर्शितः यथा“न च सामान्यप्रकारकज्ञानस्यैव सामान्यलक्षणात्वे ज्ञान-लक्षणासाभान्यलक्षणयोः कार्य्य कारणभावे को भेदः इतिवाच्यं कारणतावच्छेदकभेदेन कार्य्यतावच्छेदकभेदेनच भेदात् । सामान्यलक्षणायाः कार्य्यकारणभावास्तुतत्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन, स्व-रूपतस्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्सम्ब-न्धावच्छिन्नघटत्वाद्याश्रयताशालिमुख्यविशेष्यकप्रत्यक्षत्वेन, यावत्त्वस्य कार्य्यतावच्छेदकाघटकत्वेऽपि विनिगमना-विरहेण सकलघटभानम् । समवायसम्बन्धेन घटत्व-प्रकारकज्ञानानन्तरं कालिकादिसम्बन्धेन घटत्वादिप्रका-रकनिखिलघटविषयकप्रत्यक्षस्य समवायसम्बन्धेन घटत्व-प्रकारेण घटत्ववतः कालादेः प्रत्यक्षस्य च वारणायसम्बन्धान्तर्भावः । घटत्वादिप्रकारकज्ञानं विनापि द्रव्यत्वादिसामान्यलक्षणया जायमाने द्रव्यत्वादिप्रकारकघटादिमुख्यविशेष्यकप्रत्यक्षे व्याभचारवारणाय कार्य्यता-वच्छेदके घटत्वादिप्रकारिताकेति । प्रकारित्वञ्चालौकिकंग्राह्यं तेन घटत्वादिपकारकज्ञानं विनापि द्रव्यत्वादि-विशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकोत्तरं द्रव्यत्वसामान्यलक्षणया जायमाने यावद्घटविशेष्यकप्रत्यक्षे-ऽलौकिकसन्निकर्षमर्य्यादया घटत्वप्रकारकं ग व्यभिचारः ।न च तथापि कालिकादिसम्बन्धेन स्वरूपतो घटत्वादि-प्रकारकतुद्ध्यात्मकगवादिविशेष्यकसमवायसंसर्गकद्रव्यत्व-प्रकारकस्मरणोत्तरं द्रव्यत्वसामान्यलक्षणया जाय-माने याबद्धटमुख्यविशेष्यकप्रत्यक्षे उपनयमर्य्यादयासमवायसम्बन्धेन स्वरूपती घटत्वप्रकारके व्यभिचारइति वाच्यम् । यथोक्तकार्य्यकारणभावस्यैव बाधक-त्वेन तत्र समवायसम्बन्धेन घटत्वस्याप्रकारत्वात् ।घटत्वप्रकारकज्ञानं विनाऽपि जातित्वरूपेण गोत्वादि-जात्यन्तरप्रकारकज्ञानाद् जायमाने जातिस्वरूपेण घट-त्वादिनिखिलजातिप्रकारकनिखिलजात्याश्रयप्रत्यक्षे व्य-भिचारवारणाय स्वरूपत इति घटत्वादिप्रकारि-ताविशेषणं यथोक्तकार्यकारणभावस्यैव बाधकत्वेन तत्रकथञ्चिदपि स्वरूपतो घटत्वादेरप्रकारत्वात् । कालिक-सम्बन्धेन स्वरूपतो घटत्वादिप्रकारकस्मरणादितो जाय-माने विशेष्ये विशेषणमिति रोत्या समवायसम्बन्धे न घटा-दिप्रकारकधटवदित्याद्युपनीतभाने व्यभिचारवारणायमुख्यविशेष्यत्वप्रवेशः । उपनीतभाने च घटो न मुख्यविशेष्यःबहिरिन्द्रियस्थले उपनीतं विशेषणतया भासते इति नि-यमात् । मुख्यविशेष्यत्वमप्यलौकिकं ग्राह्यं तेन कालि-कसम्बन्धेन स्वरूपतो घटत्वादिस्मरणलौकिकसन्निकर्षाभ्यांजायमाने लौकिकालौकिकोभयघटत्वप्रकारिताशाल्ययंघट इति घटमुख्यविशेष्यकलौकिकप्रत्यक्षे न व्यभिचारः ।अथ तथापि कालिकसम्बन्धेन स्वरूपतो घटत्वप्रकारक-स्मरणाज्जायमाने समवायसम्बन्धेन घटत्वप्रकारकमुख्यवि-शेष्यकमानसोपनीतभाने व्यभिचारो मानसोपनीतं विशेष-णतयैव भासत इति नियमाभावात् तत्र कालिकसम्बन्धेनघटत्वप्रकारेण प्रत्यक्षं न तु समवायसम्बन्धेन घटत्वप्रका-रकमित्युक्तावपि घटवदिति घटादिस्मरणोत्तरं जायमानेपरम्परासम्बन्धेन घटत्वप्रकारकमानसोपनोतभाने व्यभि-चारो दुर्वारः तदनभ्युपगमे तादृशस्मरणोत्तरं निखिल-घटाश्रयसाक्षात्कारानुपपत्तेः द्रव्यत्वप्रकारकज्ञानस्याऽप्र-त्यासत्तित्वात् इति चेन्न लाघवात् यथोक्तरूपेण कार्य-कारणभावकल्पने यथोक्तमानसे घटादिर्न मुख्यविशेष्यःकिन्तु चक्रव्यूहवत् घटत्वपुटितो भवन्नेव भासत इत्येवकल्प्यते यथोक्तकार्य्यकारणभावस्यैव बाधकत्वात् तत्तदुप-नीतभानान्यत्वप्रवेशे गौरवात् सर्वत्रैव मानसोपनीतभानेउपनीतं अवश्यं मुख्यविशेष्यतया भासते इति नियमा-भावात् । असति बाधक एव मानसोपनीतस्य प्रकारत्व-विशेष्यत्वलक्षणद्विविधविषयत्वाभ्युपगमात् । एवं स्वण्ठ-शो दण्डपुरुषोभयविषयकसमूहालम्बनस्मरणानन्तरं जा-यमाने दण्डप्रकारकदण्डाश्रयप्रत्यक्षेऽपि पुरुषो न दण्डांशेमुख्यविशेषतया भासते अपि तु चक्रव्यूहवत् दण्ड-पुटितः पुरुषः पुरुषपुटितश्च दण्डो भसते इति कल्प्यते ।न च तथापि योगजधर्माधीनविशिष्टज्ञानं प्रति विशेषण-ज्ञानस्याहेतुत्वनये सामान्यज्ञानं विनाऽपि जायमाने सामा-ष्यप्रकारकसामान्याश्रयमुख्यविशेष्यकप्रत्यक्षे व्यभिचारः ।गोन्धजविशिष्टज्ञानं प्रति विशेषणज्ञानस्य हेतुत्वनयेऽपिधोनजधर्मेण सामान्यतदाश्रये उभयविषयकनिर्विकल्पकंत्त्वनयित्वा जनिते सामान्यप्रकारकभामान्याश्रयमुख्यवि-शेष्यकप्रत्यक्षे व्यभिचार इति वाच्यं योगजधर्मजन्यता-वच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्षविशेषणात् । ता-दृशयोगजज्ञाने सामान्याश्रयमुख्यविशेष्यतया भानेमानाभावाच्च । अपि च चक्रव्यूहवत् स्वप्रकारीभूतसा-मान्ये प्रकारीभूयैव भासते लाथवात्तथैव कल्पनात् । अतएव कालिकादिसम्बन्धेन स्वरूपतो घटत्वस्मरणानन्तरंविशेष्ये विशेषणमिति रीत्या कालिकादिसम्बन्धेनैवघटत्वप्रकारकं घटवदित्याकारकोपनीतभानं जायते न तुसमवायसम्बन्धेन घटत्वप्रकारकैत्युक्तावेव व्यभिचार-वारणस्सम्भवात् किं जात्यादिसामान्यलक्षणायाः कार्य-तावच्छेदके स्वरूपतः प्रकारताघटितमुख्यविशेष्यत्व-प्रवेशेन । न च तथाप्यत्र घट्वमिति घटत्वविशेष्यकस्मर-णोत्तरं जायमाने विशेष्ये विशेषणमिति रीत्या घट-वदिदमित्याद्युपनीतभाने व्यभिचारवारणाय तदवश्यंनिवेशनीयमिति वाच्यं स्वरूपतो घटत्वविशिष्टबुद्धिं प्रति-स्वरूपतो विशेषणीभूतघटत्वविषयकज्ञानस्य हेतुतयातादृशस्मरणोत्तरं तादृशोपनीतभानासम्भवात् घटत्वत्व-घटकतयैव स्वरूपतो घटत्वज्ञानाभ्यु पगमेन व्यभिचार-स्यापि विरहादित्यस्मत्कृतपूर्वपपक्षोऽपि निरस्तः । घट-वदिति स्मरणोत्तरं जायमाने परम्परासम्बन्धेन घटत्व-घ्रकारकमानसोपनीतभाने यथोक्तरीत्या योगजधर्मजन्येघटत्वप्रकारकघटविशेष्यकप्रत्यक्षे च व्यभिचारवारणायतत्प्रवेशस्यावश्यकत्वात् । एतेनाभावत्वाद्यखण्डोषाधिरू-पसामान्यलक्षणाया अपि कार्य्यकारणभाबो व्याख्यातःजात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानञ्च न प्रत्यासत्तिरितिसामान्यपदार्थनिर्वचनावसर एव प्रतिपादितं नन्वेवंरूपेणकार्यकारणभावे जातित्वरूपेणैकजातिमात्रप्रकारकज्ञाना-नन्तरं जातित्वावछिन्नजातिप्रकारकनिखिलजात्या एवप्रत्वक्षं कथं स्पाज्ज्वात्यन्तराश्रयस्य ज्ञानप्रकारीभूतजाति-व्यक्तेराश्रयत्वाभावात् स्वरूपतो घटत्वादिप्रकारकत्वस्यकार्यतावच्छेदकत्वाच्चेति चेन्न जातित्वरूपेण जातिप्रका-रकलौकिकप्रत्यक्षदशायामन्ततो निर्धर्मितावच्छेदकस्यापिपरम्परासम्बन्धेन जातित्वघटकनित्यत्वादिघाटकीभूताभा-वत्वाद्यखण्डोपाधिपकारकज्ञानस्यावश्यकत्वात् तत एवसामान्यज्ञानात् जातित्वावच्छिन्नजातिमत्त्वरूपेण निखिल-जात्याश्रयस्य साक्षात्कारः जात्यन्तराश्रयस्यापि परम्परा-तम्बन्धेन तदाश्रयत्वात् । यत्र जातित्वरूपेण क्यत्किचुत्जातिप्रकारकशाब्दस्मृत्यादिधीस्तत्रापि मध्ये परम्परा-सम्बन्धेन ध्वं सत्वादिप्रकारकमानसोपनीतभानानन्तरमेवजातिमतः सर्वस्य प्रत्यक्षाभ्यु पगमात् क्षणविलम्बे क्षति-विरहात् । न च पम्परासम्बन्धेन ध्वं सत्वादिकज्ञान-स्यैव तत्प्रयासत्तित्वे ध्वं सत्ववदित्येव तज्ज्ञानं स्यात्न तु जातिमदिति सामान्यप्रकारज्ञानस्य मुख्यविशेष्येसामान्यप्रकारकज्ञानकत्वनियमादिति वाच्यं विशेषण-ज्ञानार्थं जातित्वघटकसामान्यलक्षणायाः मध्ये सकल-जातिविशेष्यकज्ञानस्यावश्यकत्वात् ज्ञानलक्षणयैव जाति-मदिति फलस्यापि सम्भवात् द्विविधविषयैस्यवेष्टत्वात् । एवंतद्व्यक्तित्वादिरूपेण घटत्वादिज्ञानानान्तर जायमाने तत्त-द्व्यक्तित्वरूपेण घटत्वादिप्रकारकत दाश्रयप्रत्यक्षेऽपि पर-म्परासम्बन्धेन तद्यक्तित्वप्रकारकज्ञानमेव प्रत्यासत्तिरतोघटत्वादिसामान्यलक्षणायाः कार्यदिशि तदसंग्रहो नदोषाय इति भट्टाचार्य्यानुयायिनः” ।“ज्ञानलक्षणायाः कारणतावच्छेदकन्तु सामान्यतःसंसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वं घटत्वादि-प्रकारकज्ञानादिव घटत्वादिविषयकज्ञानादपि घटत्वादिप्रकारकोपनीतभानोदयात् । विनश्यदवस्थलौकिकसन्निकर्ष-जन्यघटघटत्वादिनिर्विकल्पकानन्तरमपि घटत्वादिप्रकार-कप्रत्यक्षापत्तिवारणाय संसर्गावच्छिन्नेति विषयताविशेष-णम् । केचित्तु ज्ञानलक्षणायाः सप्रकारकघटघटत्वादिज्ञा-नत्वं कारणतावच्छेदकं न चैवं विनश्यदवस्थलौकिकसन्निक-र्षजन्यद्रव्यत्वादिविशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकादपिप्रत्यक्षापत्तिरितिवाच्यम् इष्टत्वात् सर्वांशे निर्विकल्पकस्यैवप्रत्यासत्तित्वानभ्यु पगमादित्याहुस्तदसत् तथापि सर्बांशेनिर्विकल्पकादपि इष्टापत्तेः सुकरतया कारणतावच्छेदकेसप्रकारकत्वस्य उपादानस्यवैवर्थ्यात् । सविशेष्यकत्वसंसर्ग-कविषयतताशालित्वमादाय विनिगमनाविरहेण कार्य्य-कारणभावस्यापत्तेः । ज्ञानलक्षणायाः कार्य्यतावच्छेद-कन्तु घटत्वादिप्रकारकप्रत्यक्षत्वं घटत्वादिज्ञानं विनापिजायमाने सामान्यलक्षणाजन्यघटादिमुख्यविशेष्यकप्रत्यक्षे-व्यभिचारवारणाय विषयत्वमपहाय प्रकारिताप्रवेशः ।प्रकारिता चालौकिकी ग्राह्या तेन निर्विकल्पकजन्यप्राथ-मिकतद्विशिष्टलौ किकप्रत्यक्षे न व्यभिचारः । न चैवं ज्ञान-लक्षणासन्निकर्षो लौकिकसन्निकर्षद्वयमेव यत्र वर्त्तते तत्रकोदृक् ज्ञानं स्यादिति वाच्यं तत्र लौकिकालौकिकोभय-तत्प्रकारिताकज्ञानस्यैव उत्पत्तेः बिषयतायाः साङ्कर्य्य-खादोषत्वात् । न च तत्प्रकारकज्ञानं विनापि जायमानेयोगजधर्मजतत्प्रकारकप्रत्यक्षे व्यभिचार इति वाच्यंयोगजधर्मजन्यतदवच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्ष-विशेषणात् तत्प्रकारकज्ञानं, विना योगजधर्मेणापि तत्-प्रकारकप्रत्यक्षजनात् योगजधर्मस्य निर्विकल्पकाजनक्-त्वात् । न च चक्षुःसंयोगजन्यनिर्विकल्पकसहकारेणयोगजधर्मजनिते तत्प्रकारकप्रत्यक्षे व्यभिचार इतिवाच्यम् तत्र निर्विकल्पकजनकीभूतचक्षुःसंयोगादि-सत्त्वे तत्प्रकारकलौकिकप्रत्यक्षस्यैव उत्पत्तेः अलौकि-कप्रत्यक्षजनकयोगजधर्मसत्त्वेऽपि यथोक्तकार्य्यकारण-भावस्यैव वाधकत्वेनालौकिकप्रत्यक्षस्यानुत्पत्तेः । नचैवं निर्विकल्पकोत्पत्तिकाले चक्षुःसंयोगादिनाशेतन्निर्विकल्पकसहकारेण योगजधर्म्मात्तत्प्रकारक-साक्षात्कारो न स्यादिति वाच्यम् इष्टापत्तेः । न चैवंतत्प्रकारकप्रत्यक्ष एव तज्ज्ञानस्य हेतुतया इदं रजतमितिशुक्तिविशेष्यकमानसभ्रमे शुक्तिज्ञानस्याहेतुतया शुक्ति-ज्ञानं विनापि तादृशभ्रमापत्तिरिति वाच्यं इदं रजतमितिशुक्तिविशेष्यकमानसभ्रमस्यापि शुक्तिज्ञानात्मकशुक्तिवि-शिष्टधीकारणसत्त्वेन यत्र कुत्रचिद्धर्मिणि शुक्तिप्रकारक-त्वनियमात् । शुक्तिज्ञानविरहस्थले शुक्तिप्रकारकज्ञान-सामान्यकारणविरहादेव तदभावात् विशेषसामग्रीसहि-ताया एव सामान्यसामग्र्याः फलोपधायकत्वात् । न चेदंरजतमिति शुक्तिविशेषय्कमानसभ्रमस्य न शुक्तिप्रकारक-त्वनियंमः शुक्तिप्रकारकज्ञानप्रतिबन्धकदोषसत्त्वे तत्रतस्याः योगाप्रकारत्वादिति वाच्यं शुक्तिमुख्यविशेष्य-कतादृशमानसभ्रमस्थले तादृशदोषे मानाभावात् लाघ-वाद्यथोक्तरूपेण ज्ञानलक्षणायाः कार्य्यकारणभाव-कल्पने फलबलेन तथैव कल्पनात् । न चैवं मातस्योपनी-तभाने उपनीतस्य गुख्यविशेष्यतया भाने मानाभावः ।मुख्यविशेष्यकत्वस्य कार्य्यतानवच्छेदकतया सामग्र्यास्तत्रमानत्वासम्भवात् इति वाच्यं मुख्यविशेष्यत्वस्य कारणानियम्यतया वाधकासत्त्व एव मुख्यविशेष्यतया भानसम्भ-वात्, न चैवं मानसोपनीतभानवत् बहिरिन्द्रियजोपनी-तभानेऽप्युपनीतस्य प्रकारत्वमुख्यविशेष्यत्वलक्षणद्विविध-विषयतापत्तिरिति वाच्यं सामान्यलक्षणालौकिकसन्नि-कर्षन्यातिरिक्तस्य बहिरिन्द्रायिजतत्तन्मु ख्यविशेष्यकप्र-त्यक्षस्यानुभवासिद्धतया अलीकतथा यावद्घिशेषसामग्री-बाधादेव तदुबाधात् मानसस्य तत्तदतिरिक्तस्यापि इदंरजतमित्यात्युपनीतविशेष्यकभ्रमस्य उपनीतशुक्त्यादि-मुख्यविशेष्यकत्वमनुभवसिद्धमतोनालीकत्वं न च तथापिघटघटत्वादिनिर्विकल्पकोत्तरं जायमानेऽयं घट इत्यादि-विशिष्टप्रत्यक्षे घटत्वादेमुर्ख्यविशेष्यत्वापत्तिः लौकिक-सन्निकर्षरूपविशेषसामग्रीसत्त्वादिति वाच्यम् तथाप्यसति-बाधके घटाद्यंशे घटत्वादेः प्रकारत्ववन्मुख्यविशेष्यन्व-स्यापीष्टत्वादिति । केचित्तु संसर्गावच्छिन्नतद्विषयताशालि-ज्ञानत्वेन कारणता योगजधर्म्माजन्यसामान्यलक्षणाप्रत्या-सत्त्यजन्यतद्विषयकप्रक्षक्षत्वेन कार्यता तद्विषयता । चालौ-किकी ग्राह्या तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः: । एवञ्चतद्विषयकप्रत्यक्षत्वमात्रस्य कार्य्यतावच्छेदकतया इदं रज-तमिति शुक्तिमुख्यविशेष्यकमानसभ्रमोऽपि न शुक्तिज्ञानंविना बहिरिन्द्रियजोपनीतभाने उपनीतस्य मुख्यवि-शेष्यत्वनिरासश्चोक्तक्रमेणेत्याहुरिति संक्षेपः ।”मीमांसकवेदान्तिभिस्तु अस्याः प्रत्यासत्तित्वं नाङ्गीकृतम् ।यथोक्तं वेदा० प० । “न च ज्ञानं प्रत्यासत्तिः ज्ञानस्य प्रत्या-सत्तित्वे अनुमानमात्रोच्छेदप्रसङ्गः” इति । अस्यायमा ।शयः वह्निव्याप्यधूमवान् परवत इति परामर्शात्मकज्ञानस्यअनुमितिहेतुतायाः सर्वैः स्वीकारात तजज्ञानस्य चवह्निविषयकत्वेन तदुत्तरं जायमानं वह्निमान् पर्वत इतिज्ञानमलौकिकप्रत्यक्षमेव स्वान्नानुमितिः न च समानवि-षयस्थले अनुमितिसामग्र्याः अलौकिकप्रत्यक्षसामग्र्याःप्रतिबन्धकत्वेन नालौकिकप्रत्यक्षमपि तु अनुमिति-र्भबिष्यतीति चेन्न तादृशप्रतिबध्यप्रतिबन्धकभावकल्पन-स्याप्रामाणिकत्वात् । अतएव इदं रजतमिति ज्ञान-मनिर्वचनीयरजतविषयकं न देशान्तरस्थानुभूतरजतविषयकमुपनयमर्य्यादया ज्ञानमिति स्थितम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
