ज्ञानं (jJAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishज्ञानं [ज्ञा-भावे ल्युट्] 1 Knowing, understanding, becoming acquainted with, proficiency
सांख्यस्य योगस्य च ज्ञानं Māl. 1. 7.
2 Knowledge, learning
बुद्धिर्ज्ञानेन शुध्यति Ms. 5. 109
ज्ञाने मौनं क्षमा शत्रौ R. 1. 22.
3 Consciousness, cognizance, knowledge
ज्ञानतोऽज्ञानतो वापि Ms. 8. 288. knowingly or unknowingly, consciously or unconsciously.
4 Sacred knowledge
especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme spirit (opp. कर्मन्)
cf. ज्ञानयोग and कर्मयोग in Bg. 3. 3.
5 The organ of intelligence, sense, intellect.
6 Conscience.
7 The Supreme spirit.
8 An epithet of Viṣṇu.
9 The Vedās taken collectively.
Comp.
अंनुत्पादः ignorance, folly.
अपोहः forgetfulness.
अभ्यासः {1} study. {2} thinking, reflection.
आत्मन् a. allwise.
इंद्रियं an organ of perception
(these are five त्वच, रसना, चक्षुस्, कर्ण and घ्राण the skin, tongue, eye, ear and nose
see बुद्धिंद्रिय under इंद्रिय).
कांडं that inner or esoteric portion of Veda which refers to true spiritual knowledge, or knowledge of the Supreme spirit, as distinguished from the knowledge of ceremonial rites (opp. कर्भकांड).
कृत a. done knowingly or intentionally.
गम्य a. attainable by the understanding.
चक्षुस् n. the eye of intelligence, the mind's eye, intellectual vision (opp. चर्मचक्षुस्)
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा Ms. 2. 8
4. 24. (
m.) a wise and learned man.
तत्त्वं true knowledge, knowledge of god.
तपस् n. penance consisting in the acquisition of true knowledge.
दः a preceptor.
दा an epithet of Sarasvatī.
दुर्बल a. wanting in knowledge.
निश्चयः certainty, ascertainment.
निष्ठ a. intent on acquiring true (spiritual) knowledge.
पतिः {1} the Supreme spirit. {2} a teacher, preceptor.
मुद्र a. ‘having the impress of wisdom’, wise.
मूल a. foundeb on spiritual knowledge.
यज्ञः a man possessed of true or spiritual knowledge, philosopher.
योगः contemplation as the principal means of, attaining the Supreme spirit or acquiring true or spiritual knowledge.
लक्षणं,
णा {1} indication, sign, a means of knowing or inferring. {2} (in logic) sign or proof of knowledge
subsequent derived from antecedent knowledge.
विज्ञानं {1} sacred and miscellaneous knowledge. {2} the Vedas with the supplementary branches of knowledge, such as medicine, arms, &c.
शास्त्रं the science of fortune-telling.
साधनं {1} a means of acquiring true or spiritual knowledge. {2} an organ of perception.
Hindi
Hindiज्ञान
शब्दकल्पद्रुमः
Sanskritज्ञानं, (ज्ञा + भावे ल्युट् ।) विशेषेणसामान्येन चावबोधः ॥
“मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।”इत्यमरः । १ । ५ । ६ ॥
अस्यार्थः । “मोक्षे शिल्पे शास्त्रे च या धीःसा ज्ञानं विज्ञानञ्चोच्यते एषा विशेषप्रवृत्तिः ।अन्यत्र घटपटादौ या धीः सापि ज्ञानं विज्ञान-ञ्चोच्यते एषा सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानंविज्ञानञ्च यथाज्ञानान्मुक्तिरिति सा याचिताच विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्रयथा ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरेइति घटत्वप्रकारकज्ञानमिति ये केचित् प्राणिनोलोके सर्व्वे विज्ञानिनो मताः इति । ब्रह्मणोनित्यविज्ञानानन्दरूपत्वादिति एवं चित्रज्ञानंव्याकरणज्ञानं घटपदविज्ञानमित्यादिकं प्रयु-ज्यत एव । मोक्षनिमित्तं शिल्पशास्त्रयोर्धी-र्ज्ञानमुच्यते तन्निमित्ततोऽन्यनिमित्तं या तयोर्धीःसा विज्ञानमिति केचित् । मोक्षविषया मोक्ष-फला धीर्ज्ञानं अन्यधीर्विज्ञानं क्वान्यत्र इत्याहशिल्पशास्त्रयोरिति केचित् । अवबोध इत्य-ध्याहृत्य मोक्षविषये अवबोधो धीः अन्यत्रघटपटादिविज्ञानं शिल्पशास्त्रविषये विज्ञान-मिति केचित् ।” इति भरतः ॥
* ॥
योगशास्त्र-मते तु ।“एकत्वं बुद्धिमनसोरिन्द्रियाणाञ्च सव्वशः ।आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥
”इति मोक्षधर्म्मः ॥
“एकत्वं बुद्धिमात्रेणावस्थानं बुद्धिवृत्तिनिरोधइति यावत् ।” इति तट्टीका ॥
* ॥
“अमानित्वमदम्मित्वमहिंसाक्षान्तिरार्जवम् ।आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥
असक्तिरनभिष्वङ्गः पुत्त्रदारगृहादिषु ।नित्यञ्च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥
”सात्त्विकराजसतामसभेदेन तत्त्रिविधम् ।सात्विकं यथा, --“सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते ।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥
”राजसं यथा, --“पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्वि-धान् ।वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
”तामसं यथा, --“यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् ।अतत्वार्थवदल्पञ्च तत्तामसमुदाहृतम् ॥
” ३ ॥
इति श्रीभगवद्गीतायाम् । १८ । २० -- २२ ॥
“सर्व्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु विभक्तेषुपरस्परं व्यावृत्तेषु अविभक्तमनुस्यूतं एकमव्ययंनिर्विकारं भावं परमात्मतत्त्वं येन ज्ञानेनेक्षतेआलोचयति तज्ज्ञानं सात्विकं विद्धि ॥
१ ॥
सर्व्वेषु भूतेषु नानाभावान् वस्तुत एवानेकान्क्षेत्रज्ञान् पृथग्विधान् सुखिदुःखित्वादिरूपेणविलक्षणान् येन ज्ञानेन वेत्ति तज्ज्ञानं राजसंविद्धि ॥
२ ॥
एकस्मिन् कार्य्ये देहे प्रतिमादौ वा कृत्-स्नवत् परिपूर्णवत् सक्तं एतावानेव आत्माईश्वरो वा इत्यभिनिवेशयुक्तं अहैतुकं निरुप-पत्तिकं अतत्त्वार्थवत् परमार्थालम्बनशून्यं अत-एवाल्पं तुच्छं अल्पविषयत्वात् अल्पफलत्वाच्चयदेवम्भूतं ज्ञानं तत् तामसमुदाहृतम् ॥
” ३ ॥
इति तट्टीकायां श्रीधरस्वामी ॥
न्यायमते तु ।“अप्रमा च प्रमा चैव ज्ञानं द्विविधमुच्यते ।तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥
तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः ।आद्यो देह आत्मबुद्धिः शङ्खादौ पीतिमा मतिः ॥
भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते ।किं स्विन्नरो वा स्थाणुर्व्वेत्यादि बुद्धिस्तु संशयः ।तदभावाप्रकारा धीस्तत्प्रकारा तु निर्णयः ॥
स संशयो भवेद्या धीरेकत्राभावभावयोः ।साधारणादिधर्म्मस्य ज्ञानं संशयकारणम् ॥
दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।पित्तदूरत्वादिरूपो दोषो नानाविधो मतः ॥
”“गुणः स्याद्भ्रमभिन्नन्तु ज्ञानमत्रोच्यते प्रमा ।अथवा तत्प्रकारं यज्ज्ञानं तद्बत् विशेष्यकम् ॥
ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते ।तत् प्रमा न प्रमा नापि भ्रमः स्यान्निर्व्विकल्पकम् ॥
प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत् ॥
”इति भाषापरिच्छेदः ॥
(यथा, वायुपुराणे उत्तरभागे । ११ । ३६ ।“वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्त्तते ।योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥
”विष्णुः । यथा महाभारते । १३ । १४९ । ६१ ।“सर्व्वदर्शी विमुक्तात्मा सर्व्वज्ञो ज्ञानमुत्तमम् ॥
”“ज्ञानं प्रकृष्टमजन्यमनवच्छिन्नं सर्व्वस्य साधक-मिति ज्ञानमुत्तमं ‘सत्यं ज्ञानमनन्तं ब्रह्म’इति श्रुतेः ॥
” इति तद्भाष्यम् ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
