| YouTube Channel

ज्ञप (jJapa)

 
शब्दसागरः
English
ज्ञप r. 10th cl. (ज्ञपयति-ते)
1. To know.
2. To cause to be known: see ज्ञा.
3. To whet or sharpen.
4. To beat.
5. To please.
E.
चुरा० उभ० सक०
सेट् घटादि
Wilson
English
ज्ञप r. 10th cl. (ज्ञापयति)
1 To know.
2 To cause to be known: see ज्ञा.
3 To whet or sharpen.
4 To beat.
5 To please.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ज्ञप्
मूलधातुः:
ज्ञप
धात्वर्थः:
ज्ञाने, ज्ञापने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ज्ञपयति-ते
अनुबन्धादिविशेषः:
मित्
धातुप्रदीपः
Sanskrit
ज्ञपँ ज्ञप मिच्च
- ज्ञपयति जिज्ञापयिषति ज्ञीप्सति ज्ञप्तः ज्ञपितः (12) ज्ञापने मारणादिषु चाभिधानमस्यैव तत्र घटादित्वात् सिध्यति कर्त्त्रभिप्रायेऽपि क्रियाफले परस्मैपदार्थ तत्राप्यस्य वृत्तिरिष्यते 88
शब्दकल्पद्रुमः
Sanskrit
ज्ञप, ज्ञप्तौ इति कविकल्पद्रुमः (चुरां-परं-सकं-सेट् ।) म, ज्ञपयति ज्ञप्ति-र्म्मारणालोकनिशाणतोषणस्तुतयः ज्ञाक्म इत्य-नेनैवेष्टसिद्धौ ज्ञपपाटश्चुरादिरुभयपदीतिमतेफलवत्कर्त्तरि परस्मैपदार्थः इति धातुप्र-दीपः वस्तुतस्तु ज्ञप्तिपदमस्मादेव निष्पादितम् ।तेन अनिर्द्दिष्टार्थतया ज्ञप्तिरिह ज्ञानम् अत-एव प्रच्छौ ज्ञीप्से इत्यत्र अस्यैव सनन्तस्यनिष्पादितेन ज्ञीप्सशब्देन ज्ञातुमिच्छा प्रति-पाद्यते एवं ज्ञानपर्य्याये प्रतिपज्ज्ञप्तिचेत-नेत्यमरः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ज्ञप मारणे, आलोके, निशाने, तोषणे स्तुतौ चुरा०उभ०
सक०
सेट् घटा० ज्ञपयति--ते अजिज्ञपत्--त ।ज्ञाक्म इत्यतेनैवेष्टसिद्धौ ज्ञपपाठश्चुरादिरुभयपदीतिमते फलवत्कर्त्तरि परस्मैपदार्थः इति धातुप्रदीपः ।वस्तुतस्तु ज्ञप्तिपदमनेनैव निष्पादितम् तेन अनिर्दि-ष्टार्थतया ज्ञप्तिरिह ज्ञानम् अतएव प्रच्छौ ज्ञीप्सेइत्यत्र अस्यैव सनन्तस्य निष्पादितेन ज्ञीप्सशब्देन ज्ञातु-मिच्छा प्रतिपाद्यते एवं ज्ञानपर्य्याये “प्रतिपज्ज्ञप्तिचेत-ना इत्यमरः” इति दुर्गासः ज्ञप ज्ञाने इतिपाणिनिः अधिकं ज्ञाधातौ वक्ष्यते
क्षीरतरङ्गिणी
Sanskrit
ज्ञपँ ज्ञप मारण, तोषण, निशामनेषु
मिच्च- घटादित्वात् (1548)सिद्धे स्वार्थणिजर्थः पाठः, कर्त्रभिप्रायेक्रियाफले इति परस्मैपदं यथा स्यात्, नियमार्थं वा-ज्ञपयमादिवर्जं नान्ये स्वार्थण्यन्ता मित इति यमादीनां मित्तवमवश्यं वाच्याम्, ज्ञपेस्तु सौकर्यार्थमनुवाद इत्येके संज्ञपयति पशुम्, विज्ञपयति गुरुम्, प्रज्ञपयति शस्त्रम् आज्ञप्तः, आज्ञपितः(द्र0 7227) विज्ञप्य गुरुम्, प्रज्ञाप्य धर्मम्, आज्ञाप्य भृत्यमिति यथाकथंचित् तोषणे एवं जिज्ञपयिषति ज्ञीप्सति बोधनेऽप्यनेकार्थत्वान् मित्वमित्यके, ज्ञप्तिज्ञानयोरेकार्थत्वात् 85
धातुवृत्तिः
Sanskrit
ज्ञपँ ज्ञप (अर्थः) मिच्च
ज्ञापने मारणादिषु चाभिधानमस्यैवेति मैत्रेयादयः अन्ये तु शाकटायनानुसाररिणो ज्ञप मारणतोषणनिशमनेषु मिच्चेति पठन्ति, तथा "इको झल्'' इत्यत्र न्यासे "ज्ञप मिच्च'' इति ( 1 ) ( 1 ) उक्त्वेति पाठान्तरम् पुस्तकान्तरे पठित्वा अन्येतु ज्ञपमारणतोषणनिशामनेष्विति पठन्तीति घटादिवदत्रापि केचिन्निशामनस्थाने निशानशब्दं पठन्ति घटादिषु मारणादिसूत्रस्य पाठादेव मित्त्वे सिद्धे पुनर्मारणादिषु मित्त्ववचनं ज्ञपयमादिवर्जमन्ये स्वार्थण्यन्ता मित इति ज्ञापनार्थमिति पुनः पाठफलं चाहुः काश्यपादयः ज्ञपादीननुक्रम्य "नान्ये मितोऽहेतौ'' इति ज्ञपादिब्यतिरिक्तानामेवाहेतुमण्णौ मित्त्वाभावस्य वक्ष्यमाणत्वान्नेदं फलम् किं चार्थविशेषपरिगणनमप्ययुक्तं, प्रच्छ ज्ञीप्सायां, ( ज्ञप्तिः ) "श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमान'' इत्यत्र ज्ञीप्स्यमानो ज्ञपयतुमिष्माणो बोधयितुमभिप्रेत इत्यादौ ज्ञानमात्रे ज्ञापने प्रयोगदर्शतात् चैवं शक्यते वक्तुं निशामनं ज्ञानमात्रं तदर्थादस्मादहेतुमण्णौ चुरादित्वेन प्रच्छ ज्ञीप्सायां ज्ञप्तिरिति भविष्यति, "स्थाशपां ज्ञीप्स्यमान'' इत्यादिस्तु हेतुमण्णौ घटादित्वेनेति एवं तर्हिघटादिर्ज्ञापनविषयो ऽयं तु ज्ञानविषय इत्यर्थभेदस्य विद्यमानत्वात् घटादित्वादेव मित्वे सिद्धे पुनर्मारणादिषु मित्त्ववचनं ज्ञापनार्थमिति स्वोक्तेन विरोधः स्यात् अथ मतं घटादित्वादेव मित्वे सिद्धे पुनर्मारणादिषु मित्त्ववचनं ज्ञापनार्थमिति स्वोक्तेन विरोधः स्यात् अथमतं घठादित्वादेव मित्वे सिद्धे पुनर्मारणादिषु मित्ववचनं ज्ञापनार्थं, निशामनस्य ग्रहणं विध्यर्थमितरयोस्तु नियमार्थमिति एवमपि मारणादिष्वतिवचनमयुक्तं, मारणतोषणयोरिति तु वक्तव्यम् किं चास्य ज्ञानमात्रार्थत्वे "श्लाघह्नुङ्'' इत्यत्र न्यासकारहरदत्तादिभिश्चौरादिकाद् व्युत्पादनं विरुद्ध्येत सर्वथा तज्जापयत्वाचार्यः, "विज्ञापना भर्तृषु सिद्धिमेति' ज्ञापकं स्यात्तदन्तत्व, इत्यादिस्तु सिघ्यति अथ मारणतोषणनिशामनेष्विति घटादाविह पाठाज्ज्ञापयत्यादि सिध्यति, ज्ञीप्स्यमानो ज्ञप्तिरिति सिध्यति यदि तु मतं घटादौ निशामनमिति पाठ, इह तु निशामनमिति घटादेर्ज्ञापयति, अस्माजापयतीति भविष्यतीति, एवमपि "स्थाशपां ज्ञीप्स्यमान'' इत्यादि सङ्गच्छते अत्र हि बोधनार्थो धातुस्तत्र तु बोधनं निशामनशब्दार्थो तु बोधनेति अथ तत्रापि बोधनार्थः, प्रच्छ ज्ञीप्सायां, ज्ञीप्स्यमानः ज्ञप्तिर्न सिध्यति तस्माज्ज्ञप मिच्चेत्येव युक्तः पाठः अत एव "इको झल्'' इत्यादौ "ज्ञप मिच्च'' इति न्यासकारहरदत्तादयः पठन्ति तेनास्य यथाप्रयोगमर्थ इति ज्ञापने ज्ञानमात्रे वृत्तिरिति प्रच्छ ज्ञीप्सायां, ज्ञीप्स्यमानः, ज्ञपयितुमिष्यमाण, इत्यादि सर्वमुपपद्यते ज्ञापयत्यादिप्रयोगस्तु ज्ञानमात्रवचनाज्जानातेः घटादिमित्वं तु चाक्षुषाज्ञानार्थकनिशामनार्थस्य चेतीह भवति, निशामनं चाक्षुषज्ञानमित्यवोचाम पुरुषकारेऽप्यस्मदुक्तरीत्या "ज्ञप मिच्च'' इत्येव पाठो युक्त इति सिद्धान्तितम् एवं चुरादिणिचो "णिचश्च'' इति कर्त्रभिप्राये तङ् नास्तीति दर्शनाश्रयणेनोक्तस्योक्तिः, "णिचश्च'' इत्युदितं विहितं यदिति कर्त्रभिप्रायेऽपि मारणादौ परस्मैपदसिद्धिः पुनः पाठफलमिति यद्देवेनोक्तं तदपि मतं, जानातीति ज्ञःसिध्येत्, ज्ञपयति तु पुनर्मारणादौ घटादेश्च मित्वेऽपीदमेव ज्ञपमिदिति पदं ज्ञापने मारणादौ, तेनार्थात् ज्ञापनार्थे ज्ञपयतिपदवत् ज्ञापयेदित्यपि स्यादिति स्वेनैव ज्ञपमिदित्यर्थविशेषोपादानरहितं पाठमङ्गीकृत्य तस्य प्रयोजनं मारणादिव्यतिरिक्ते ज्ञपयत्यर्थे ज्ञपयतीति सिद्धिरित्युक्तत्वादुक्तस्योक्त्यसंभवान्निराकृतम् ( ज्ञपयति संज्ञपयति निज्ञपयति, प्रज्ञपयति ) स्वभावान्मारणादावप्यस्य वृत्तिरित्युक्तं, तत्र कौमारमतेन सोपसर्गः प्रदर्शितः ( जिज्ञपयिषति ज्ञीप्सति ) "सनीवन्त'' इत्यादिना पक्षे इडभावः "आप्ज्ञप्यृधाम्'' इति झलादौ सन्यच ईकारः "अत्र लोप'' इत्यभ्यासलोपः "णेरनिटि'' इति णिलोपः "वा दान्त'' इत्यत्र ज्ञप्त इति निपातनं ज्ञपेरिति "निष्ठायां सेटि'' इत्यत्र कैयटपदमञ्जर्योरुक्तत्वादिह ज्ञप्तः ज्ञपित इति मैत्रेयेणोदाहरणस्य प्रदर्शनमयुक्तम् 90
कृदन्तरूपमाला
Sanskrit
1 {@“ज्ञप मारणतोषणनिशामनेषु”@} 2 ‘जानातीति श्नि सिद्ध्येत्, ज्ञपयति तु पुनर्मारणादौ घटादेः णौ3 मित्त्वेऽपीदमेव ‘ज्ञप मिद्’ 4 इति पदं ज्ञापने मारणादौ।
तेनार्थाज् ज्ञापनेऽर्थे ज्ञपयतिपदवज् ज्ञापयेदित्यपि स्याद् उक्तस्योक्तिः ‘णिचश्चे’ 5 त्युदितविहतये
ज्ञापयेज् ‘ज्ञा नियोगे।।’ 6 इति देवः।
अत्र क्षीरस्वामी घटादौ ‘मारणतोषणनिशानेषु ज्ञा’ इति, चुरा- दौ ‘ज्ञप मारणतोषणनिशानेषु मिच्च’ इति चापठत्।
पशुं संज्ञपयति, विष्णुं विज्ञपयति, शस्त्रं प्रज्ञपयति, इति क्रमेणोदाजहार च।
मारणाद्यर्थेषु ज्ञपघातोः पुनर्मित्त्वविधानं व्यर्थमित्याशङ्क्य, स्वार्थे णिचि, एष्वर्थेषु मित्त्वसिद्धिः फलमिति, चुरादिण्यन्तेभ्यः कर्तृगामिन्यपि क्रियाफले परस्मैपदमेव भवतीति चाभिहितवान्।
एवञ्च सति, ‘प्रच्छ ज्ञीप्सायाम्’, ‘श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ 7 इत्यादिषु क्रमेण ज्ञानज्ञापनार्थयोः प्रतीयमानत्वात्, वृत्तिन्यासपदमञ्जर्यादिभिस्तथैवाभ्युपगतत्वात् तत्र मित्त्वप्रयुक्तकार्याणां दर्शनाच्च, क्षीरस्वामिमते तयोः प्रयोगयोरसङ्ग्रहः स्यात्।
तदर्थं माधवीयधातुवृत्त्यादिबहुग्रन्थानुरोधेनात्र ‘ज्ञप मिच्च’ इत्येव पाठः प्रामाणिकः।
यथाप्रयोगं ज्ञाने, ज्ञापने ज्ञपधातुर्मिद् भवतीति सूत्रार्थः।
अत एव सिद्धान्तकौमुद्याम् ‘अयं धातुर्ज्ञाने, ज्ञापने च’ इत्येवोक्तम्।
घटादौ ‘निशामनेषु’ इति पाठेन चाक्षुषज्ञानव्यतिरिक्तेऽर्थे मित्त्वाभावः प्रतीयते।
अत्र बोधने मित्त्वं बोध्यते।
एवञ्च, विज्ञापयति, विज्ञपयति इति रूपद्वयस्यापि साधुत्वं बोध्यम्।
‘तज्ज्ञापयत्याचार्यः’ 8, ‘विज्ञापना भर्तृषु सिद्धिमेति।’ इत्यादिप्रयोगेषु काऽप्यनुपपत्तिः।
अत एव पुरुषकारे 9 ‘एवञ्च, ‘ज्ञप मिच्च’ इत्येव पाठो युक्ततमः।’ इत्युक्तं सङ्गच्छते।।
10 ज्ञपकः-पिका, जिज्ञपयिषकः-षिका, -- 11 12 ज्ञीप्सकः-प्सिका
ज्ञपयिता-त्री, जिज्ञपयिषिता-त्री, ज्ञीप्सिता-त्री
ज्ञपयन्-न्ती, 13 विज्ञपयन्, जिज्ञपयिषन्-न्ती, ज्ञीप्सन्-न्ती
ज्ञपयिष्यन्-न्ती-ती, जिज्ञपयिषिष्यन्-न्ती-ती, ज्ञीप्सिष्यन्-न्ती-ती
ज्ञपयमानः, जिज्ञपयिषमाणः, ज्ञीप्समानः
ज्ञपयिष्यमाणः, जिज्ञपयिषिष्यमाणः, ज्ञीप्सिष्यमाणः
14 प्रज्ञप्-प्रज्ञब्-प्रज्ञपौ-प्रज्ञपः
-- -- 15 ज्ञपितः-ज्ञप्तः-ज्ञप्तवान्, जिज्ञपयिषितः-ज्ञीप्सितः-तवान्
ज्ञपः, जिज्ञपयिषुः-ज्ञीप्सुः
ज्ञपयितव्यम्, जिज्ञपयिषितव्यम्-ज्ञीप्सितव्यम्
ज्ञपनीयम्, जिज्ञपयिषणीयम्-ज्ञीप्सनीयम्
ज्ञप्यम्, जिज्ञपयिष्यम्-ज्ञीप्स्यम्
ईषज्ज्ञपः-दुर्ज्ञपः-सुज्ञपः
-- -- ज्ञप्यमानः, जिज्ञपयिष्यमाणः-ज्ञीप्स्यमानः
ज्ञपः, जिज्ञपयिषः-ज्ञीप्सः
ज्ञपयितुम्, जिज्ञपयिषितुम्-ज्ञीप्सितुम्
ज्ञपना, 16 ज्ञप्ति, जिज्ञपयिषा-ज्ञीप्सा
ज्ञपनम्, जिज्ञपयिषणम्-ज्ञीप्सनम्
ज्ञपयित्वा, जिज्ञपयिषित्वा-ज्ञीप्सित्वा
17 विज्ञपय्य, प्रजिज्ञपयिष्य-प्रज्ञीप्स्य
18 ज्ञपम् -ज्ञापम् २, ज्ञपयित्वा २, जिज्ञपयिषम् -ज्ञीप्सम्
जिज्ञपयिषित्वा -ज्ञीप्सित्वा २। 19
प्रासङ्गिक्यः
01
=>
(६२४)
02
=>
(१०-चुरादिः-१६२५। सक। सेट्। उभ। मित्।)
03
=>
(चौ)
04
=>
[ज्ञपनम्]
05
=>
(१-३-७४)
06
=>
(श्लो। ८)
07
=>
(१-४-३४)
08
=>
(महाभाष्यम्)
09
=>
(श्लो। ८)
10
=>
[[१। मित्संज्ञकत्वादस्य धातोर्णौ परत उपधाया वृद्धौ, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः। एवं सर्वत्र ज्ञेयम्।]]
11
=>
[पृष्ठम्०५९०+ २२]
12
=>
[[१। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति सूत्रेण सन इड्वि- कल्पः। इडभावपक्षे, ‘आप्ज्ञपृधामीत्’ (७-४-५५) इतीत्त्वे, ‘सन्यङोः’ (६-१-९) इति द्वित्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे रूप- मेवम्। एवं सन्नन्ते सर्वत्रेडभावपक्षे रूपम्, इट्पक्षे तु जिज्ञपयिषकः इत्यादीनि रूपाणीति ज्ञेयम्।]]
13
=>
[[आ। ‘चाणूर एनमथ विज्ञपयन् नूपाज्ञां चण्डातकं सुयमयंश्चहको बभाषे।’ धा। का। ३। २५]]
14
=>
[[२। क्विपि, क्विब्लोपे, णिलोपे चत्वविकल्पे रूपम्।]]
15
=>
[[३। ‘वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तः’ (७-२-२७) इति सूत्रेण इण्णिषेधो विकल्पेन भवति। तेन रूपद्वयम्।]]
16
=>
[[४। बाहुलकात् क्तिन्। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधः।]]
17
=>
[[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
18
=>
[[६। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
19
=>
[पृष्ठम्०५९१+ २७]