| YouTube Channel

जोगूर्यमाणः (jogUryamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गुरी उद्यमने”@} 2 “गुरते 3 गुरयेतेति शे णौ उद्यमने तङि।
श्यनि गूर्यत इत्येवं गतिहिंसनयोस्तङि।।” 4 इति देवः।
उद्यमनम् = उद्धरणमिति धा।
का।
व्याख्या 5।
6 7 गोरकः-रिका, गोरकः-रिका, जुगुरिषकः-षिका, जोगुरकः-रिका
गुरिता-त्री, गोरयिता-त्री, जुगुरिषिता-त्री, जोगुरिता-त्री
-- गोरयन्-न्ती, गोरयिष्यन्-न्ती-ती
-- गुरमाणः, गोरयमाणः, जुगुरिषमाणः, 8 जोगूर्यमाणः
गुरिष्यमाणः, गोरयिष्यमाणः, जुगुरिषिष्यमाणः, जोगुरिष्यमाणः
9 सङ्गूः-सङ्गूरौ-सङ्गुरः
-- -- -- -- 10 गूर्णम्-गूर्णः-गूर्णवान्, गोरितः, जुगुरिषितः, जोगुरितः-तवान्
गुरः, 11 गुरणः, 12 अपगोरी, गोरः, जुगुरिषुः, जोगुरः
गुरितव्यम्, गोरयितव्यम्, जुगुरिषितव्यम्, जोगुरितव्यम्
गुरणीयम्, गोरणीयम्, जुगुरिषणीयम्, जोगुरणीयम्
13 गोर्यम्, गोर्यम्, जुगुरिष्यम्, जोगुर्यम्
ईषद्गुरः-दुर्गुरः-सुगुरः
-- -- -- गूर्यमाणः, गोर्यमाणः, जुगुरिष्यमाणः, जोगूर्यमाणः
गोरः, गोरः, जुगुरिषः, जोगुरः
गुरितुम्, गोरयितुम्, जुगुरिषितुम्, जोगुरितुम्
गूर्त्तिः, गोरणा, जुगुरिषा, जोगुरा
गुरणम्, गोरणम्, जुगुरिषणम्, जोगुरणम्
गुरित्वा, गोरयित्वा, जुगुरिषित्वा, जोगुरित्वा
सङ्गूर्य, सङ्गोर्य, सञ्जुगुरिष्य, सञ्जोगूर्य
14 15 अस्यपगारं-अस्यपगोरम् 16 शस्त्रापगोरं-शस्त्रापगारं 17।
गोरम् २, गुरित्वा २, गोरम् २, गोरयित्वा २, जुगुरिषम् २, जुगुरिषित्वा २, जोगुरम्
जोगुरित्वा २।
प्रासङ्गिक्यः
01
=>
(४१३)
02
=>
(६-तुदादिः-१३९६। अक। सेट्। आत्म। कुटादिः।)
03
=>
[गू]
04
=>
(श्लो। १५२)
05
=>
(२-८२)
06
=>
[पृष्ठम्०४०३+ २५]
07
=>
[[१। अस्य धातोः कुटादिपाठात् ‘गाङ्कुटादिभ्यः’ (१-२-१) इति ञ्णिद्भिन्नस्य प्रत्ययस्य ङिद्वद्भावः। तेन सर्वत्र गुणाभावः। सनोऽपि ङिद्वद्भावातिदेशान्न गुणः।]]
08
=>
[[२। ‘हलि च’ (८-२-७७) इति दीर्घः।]]
09
=>
[[३। ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति उपधादीर्घे विसर्गः।]]
10
=>
[[४। धातोरीदित्त्वात् ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति इण्णिषेधः। ‘हलि च’ (८-२-७७) इति दीर्घे, ‘रदाभ्यां--’ (८-२-४२) इति निष्ठानत्वे, णत्वम्।]]
11
=>
[[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिकः युच्।]]
12
=>
[[६। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
13
=>
[[७। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्। णित्त्वाद्गुणः।]]
14
=>
[पृष्ठम्०४०४+ २६]
15
=>
[[१। ‘द्वितीयायां च’ (३-४-५३) इति णमुल्। ‘अपगुरो णमुलि’ (६-१-५३) इति उपधाया आत्वं विकल्पेन भवति। त्वरया असिमुद्यम्य युध्यन्ते--इत्यर्थः।]]
16
=>
[[आ। ‘शस्त्रापगोरं (गारं) चलतां पदोद्धतं रजो भटानामदधत् प्रभां रवेः। क्ष्वेला वादित्रनिनादमांसला घनाघनानां निनदं निरास्थत।।’ वा। वि। १-३६।]]
17
=>
[वा युद्ध्यन्ते]
1 {@“गूरी हिंसागत्योः”@} 2 गुरते गूर 3 येतेति शे णावुद्यमने तङि।
श्यनि गूर्यत इत्येवं गतिहिंसनयोस्तङि।।’ 4 इति देवः।
‘--हिंसावयोहान्योः’ इति क्वचित् पाठः।
गूरकः-रिका, गूरकः-रिका, जुगूरिषकः-षिका, जोगूरकः-रिका
गूरिता-त्री, गूरयिता-त्री, जुगूरिषिता-त्री, जोगूरिता-त्री
-- गूरयन्-न्ती, गूरयिष्यन्-न्ती-ती
-- 5 गूर्यमाणः, गूरयमाणः, जुगूरिषमाणः, जोगूर्यमाणः
गूरिष्यमाणः, गूरयिष्यमाणः, जुगूरिषिष्यमाणः, जोगूरिष्यमाणः
सुगूः-सुगूरौ सुगूरः
-- -- -- 6 गूर्णम्- 7 गूर्णः-गूर्णवान्, गूरितः, जुगूरिषितः, जोगूरितः-तवान्
गूरः, सुगूरी, 8 गूरणः, गूरः, जुगूरिषुः, जोगूरः
गूरितव्यम्, गूरयितव्यम्, जुगूरिषितव्यम्, जोगूरितव्यम्
गूरणीयम्, गूरणीयम्, जुगूरिषणीयम्, जोगूरणीयम्
ईषद्गूरः-दुर्गूरः-सुगूरः
-- -- गूर्यमाणः, गूर्यमाणः, जुगूरिष्यमाणः, जोगूर्यमाणः
गूरः, गूरः, जुगूरिषः, जोगूरः
गूरितुम्, गूरयितुम्, जुगूरिषितुम्, जोगूरितुम्, 9 गूरा, गूरणा, जुगूरिषा, जोगूरा
गूरणम्, गूरणम्, जुगूरिषणम्, जोगूरणम्
गूरित्वा, गूरयित्वा, जुगूरिषित्वा, जोगूरित्वा
निगूर्य, सङूगूर्य, सञ्जुगूरिष्य, सञ्जोगूर्य
10 गूरम् २, गूरित्वा २, गूरम् २, गूरयित्वा २, जुगूरिषम् २, उगूरिषित्वा २, जोगूरम्
जोगूरित्वा २।
प्रासङ्गिक्यः
01
=>
(४१९)
02
=>
(४-दिवादिः-११५४। सक। सेट्। आत्म।)
03
=>
(गुर)
04
=>
(श्लो। १५२)
05
=>
[[१। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्विकरणप्रत्ययः। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ इति न्यायात् ‘हलि च’ (८-२-७७) इति दीर्घः।]]
06
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति इण्णिषेधः। ‘रदाभ्याम्--’ (८-२-४२) इति निष्ठानत्वे णत्वम्।]]
07
=>
[[आ। ‘गूर्णेऽस्मिन् बहुजन्तुघूरिणि खले जूर्णैः शशंसे नृभिः शौरिः शूरकपर्वचूरणपरः सन्तप्यमानः सताम्।’ धा। का। २-६०।]]
08
=>
[[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः।]]
09
=>
[[४। स्त्रियाम् ‘गुरोश्च हलः’ (३-३-१०३) इति अकारप्रत्ययः। अदन्तत्वात् टाप्।]]
10
=>
[पृष्ठम्०४१०+ २५]