| YouTube Channel

जोगुपनीयम् (jogupanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गुप व्याकुलत्वे”@} 2 “णौ गोपयति भाषार्थे, निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।” 3 इति देवः।
गोपकः-पिका, गोपकः-पिका, 4 जुगोपिषकः-जुगुपिषकः, 5 जोगुपकः-पिका
गोपिता-त्री, गोपयिता-त्री, जुगोपिषिता-जुगुपिषिता-त्री, जोगुपिता-त्री
6 गुप्यन्-न्ती, गोपयन्-न्ती, जुगोपिषन्-जुगुपिषन्-न्ती
-- गोपिष्यन्-न्ती-ती, गोपयिष्यन्-न्ती-ती, जुगोपिषिष्यन्-जुगुपिषिष्यन्-न्ती-ती
-- गोपयमानः, गोपयिष्यमाणः, जोगुप्यमानः, जोगुपिष्यमाणः
गुब्-गुप्-गुपौ-गुपः
-- -- -- गुपितम्-तः-तवान्, गोपितः, जुगोपिषितः-जुगुपिषितः, जोगुपितः-तवान्
7 गुपः, 8 प्रगोपी, गोपः जुगोपिषुः-जुगुपिषुः, जोगुपः
गोपितव्यम्, गोपयितव्यम्, जुगोपिषितव्यम्-जुगुपिषितव्यम्, जोगुपितव्यम्
गोपनीयम्, गोपनीयम्, जुगोपिषणीयम्-जुगुपिषणीयम्, जोगुपनीयम्
गोप्यम्, गोप्यम्, जुगोपिष्यम्-जुगुपिष्यम्, जोगुप्यम्
ईषद्गोपः-दुर्गोपः-सुगोपः
-- -- गुप्यमानः, गोप्यमानः, जुगोपिष्यमाणः-जुगुपिष्यमाणः, जोगुप्यमानः
गोपः, गोपः, जुगोपिषः-जुगुपिषः, जोगुपः
गोपितुम्, गोपयितुम्, जुगोपिषितुम्-जुगुपिषितुम्, जोगुपितुम्
गुप्तिः, गोपना, जुगोपिषा-जुगुपिषा, जोगुपा
9 गोपनम्, गोपनम्, जुगोपिषणम्-जुगुपिषणम्, जोगुपनम्, 10 गोपित्वा-गुपित्वा, गोपयित्वा, जुगोपिषित्वा-जुगुपिषित्वा, जोगुपित्वा
सङ्गुप्य, सङ्गोप्य, सञ्जुगोपिष्य-सञ्जुगुपिष्य, सञ्जोगुप्य
गोपम् २, गोपित्वा २, गुपित्वा २, गोपम् २, गोपयित्वा २, जुगोपिषम् -जुगुपिषम् २, जुगोपिषित्वा -जुगुपिषित्वा २, जोगुपम्
जोगुपित्वा २।
प्रासङ्गिक्यः
01
=>
(४०९)
02
=>
(४-दिवादिः-१२३४। सक। सेट्। पर।)
03
=>
(श्लो। १२९)
04
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इत्यनेन सेटः सनः कित्त्वविकल्पः। तेन गुणतदभावयोः रूपद्वयम्। एवं सर्वत्र सन्नन्ते बोद्ध्यम्।]]
05
=>
[[२। यङन्ते, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, ‘अतो लोपः’ (६-४-४८) इत्यलोपे, अल्लोपस्य स्थानिवद्भावात् लघूपधगुणो न। एवं सर्वत्र यङन्ते बोध्यम्।]]
06
=>
[[३। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावान्नाङ्गस्य गुणः। ‘शप्- श्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुम्।]]
07
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
08
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
09
=>
[पृष्ठम्०३९८+ २२]
10
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति क्त्वायाः वैकल्पिकं कित्त्वम्। तेन रूपद्वयम्।]]
1 {@“गुपू रक्षणे”@} 2 ‘णौ गोपयति भाषा3थें निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।’ 4 इति देवः।
5 गोपायकः 6 -यिका-गोपकः-गोपिका, 7 गोपायकः-पिका-गोपकः-पिका, 8 जुगोपायिषकः-जुगोपिषकः-जुगुपिषकः-षिका-जुगुप्सकः-प्सिका, 9 जोगुपकः-पिका
गोपायिता- 10 गोपिता-गोप्ता-त्री, गोपाययिता-गोपयिता-त्री, जुगोपायिषिता- जुगोपिषिता-जुगुपिषिता-जुगुप्सिता-त्री, जोगुपिता-त्री
11 गोपायन् 12 -न्ती, गोपायन्-गोपयन्-न्ती, जुगोपायिषन्-जुगोपिषन्-जुगुपिषन्-जुगुप्सन्-न्ती
-- गोपायिष्यन्-गोपिष्यन्-न्ती-ती, गोपाययिष्यन्-गोपयिष्यन्-न्ती-ती, जुगोपायिषिष्यन्-जुगोपिषिष्यन्-जुगुपिषिष्यन्-जुगुप्सिष्यन्-न्ती-ती
-- -- गोपाययमानः-गोपयमानः, -- जोगुप्यमानः
-- गोपाययिष्यमाणः, गोपयिष्यमाणः, जोगुपिष्यमाणः
13 गोपाः-गोपौ-गौपाः, -- गुप्-गुब्-गुपौ-गुपः
-- 14 गोपायितम्-तः 15 गुप्तम्-गुप्तः-गुप्तवान्, 16 मनसागुप्ता, गोपायितः-गोपितः, जुगोपायिषितः-जुगोपिषितः-जुगुपिषितः-जुगुप्सितः, जोगुपितः-तवान्
गोपायः-गुपः, 17 शालिगोपः- 18 शालिगोपी, गोपायः-गोपः, जुगोपायिषुः-जुगोपिषुः-जुगुपिषुः-जुगुप्सुः, जोगुपः
गोपायितव्यम्-गोपितव्यम्-गोप्तव्यम्, गोपाययितव्यम्-गोपयितव्यम्, जुगोपायिषितव्यम्-जुगोपिषितव्यम्-जुगुपिषितव्यम्-जुगुप्सितव्यम्, जोगुपितव्यम्
गोपायनीयम्-गोपनीयम्, गोपायनीयम्-गोपनीयम्, जुगोपायिष- णीयम्-जुगोपिषणीयम्-जुगुपिषणीयम्-जुगुप्सनीयम्, जोगुपनीयम्
गोपाय्यम्-गोप्यम्- 19 कुप्यम् 20, गोपाय्यम्-गोप्यम्, जुगोपायिष्यम्-जुगो- पिष्यम्-जुगुप्स्यम्, जोगुप्यम्
ईषद्गोपायः-दुर्गोपायः-सुगोपायः, ईषद्गोपः-दुर्गोपः-सुगोपः
-- गोपाय्यमानः-गुप्यमानः, गोपाय्यमानः-गोप्यमानः, जुगोपायिष्य- माणः-जुगोपिष्यमाणः-जुगुपिष्यमाणः-जुगुप्स्यमानः, जोगुप्यमानः
गोपायः-गोपः, गोपायः-गोपः, जुगोपायिषः-जुगोपिषः-जुगुपिषः-जुगुप्सः, जोगुपः
गोपायितुम्-गोपितुम्-गोप्तुम्, गोपाययितुम्-गोपयितुम्, जुगोपायिषितुम्- जुगोपिषितुम्-जुगुपिषितुम्-जुगुप्सितुम्-जोगुपितुम्
21 गोपाया- 22 गुप्तिः, गोपायना-गोपना, जुगोपायिषा-जुगोपिषा-जुगुपिषा-जुगुप्सा-जोगुपा
गोपायनम्- 23 प्रगोपणम् 24 -प्रगोपनम्, गोपायनम्-गोपनम्, जुगोपायिषणम्- जुगोपिषणम्-जुगुपिषणम्-जुगुप्सनम्, जोगुपनम्
प्रगोपायित्वा- 25 गोपित्वा-गुप्त्वा, गोपाययित्वा-गोपयित्वा, जुगोपायिषित्वा- जुगोपिषित्वा-जुगुपिषित्वा-जुगुप्सित्वा, जोगुपित्वा
प्रगोपाय्य-प्रगुप्य, प्रगोपाय्य-प्रगोप्य, प्रजुगोपायिष्य-प्रजुगोपिष्य-प्रजुगुपिष्य- प्रजुगुप्स्य, प्रजोगुप्य
गोपायम् -गोपम् २, गोपायित्वा -गोपित्वा-गुप्त्वा २, गोपायम् -गोपम् २, गोपाययित्वा -गोपयित्वा २, जुगोपायिषम् -जुगोपिषम् २, -जुगुपिषम् -जुगुप्सम् -२, जोगुपम्
जुगोपायिषित्वा २-जुगोपिषित्वा २, -जुगुपिषित्वा -जुगुप्सित्वा- २, जोगुपित्वा २।
प्रासङ्गिक्यः
01
=>
(४११)
02
=>
(१-भ्वादिः-३९५। सक। वेट्। पर।)
03
=>
(सा)
04
=>
(श्लो। १२९)
05
=>
[[१। ‘गुप्धूपविच्छिपणिपनिभ्य आयः’ (३-१-२८) इति विहित आयप्रत्ययः, ‘आयादय आर्धधातुके वा’ (३-१-३१) इत्यनेन, आर्धधातुके विकल्पितः। अतो रूपद्वयम्। एवमार्धधातुके सर्वत्र ज्ञेयम्।]]
06
=>
[[आ। ‘आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य। रोचिष्णुरत्नावलिभिर्विंमानैर्द्यौराचिता तारकितेव रेजे।।’ किरातार्जुनीये १८-१८।]]
07
=>
[[२। ण्यन्ताण्ण्वुलि, ‘णेरनिटि’ (६-४-५१) इति णिलोपे रूपम्। णिजन्ते सर्वत्र आय- प्रत्ययविकल्पः।]]
08
=>
[[३। आयप्रत्ययान्तात् सनि इदं रूपम्। आयप्रत्ययाभावे ऊदित्त्वादिड्विकल्पे, ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पे रूपत्रयम्। एवं सन्नन्ते सर्वत्र।]]
09
=>
[[४। आर्धधातुकविवक्षायामायप्रत्ययस्य वैकल्पिकत्वात्, आयप्रत्ययान्तस्यानेकाच्त्वान्न यङ्। आयाभावे तु--‘जोगुपकः’ इत्यादिरूपाणि यङन्ताल्लिखितानि।]]
10
=>
[[५। ऊदित्त्वात् ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना इङ्विकल्पः। आयप्रत्ययाभावपक्षे एवं तव्यदादिषु ज्ञेयम्।]]
11
=>
[[६। शतुः सार्वधातुकत्वान्नित्यमायादेशः।]]
12
=>
[[B। ‘वल्भप्रगल्भाः पथिकाश्च तत्क्षणं सुश्रम्भणस्तोभयुतात् अगुर्गृहान्। गोपायतां धर्ममधूपितात्मनां ज्पान् विमुच्याभवदुद्यमो जपे।।’ धा। का। १-५१।]]
13
=>
[[७। क्विपि, अल्लोपयलोपयोः सोः रुत्वविसर्गौ। आयाभावे ‘गुप्’ इति रूपम्।]]
14
=>
[पृष्ठम्०४००+ २६]
15
=>
[[१। आयाभावपक्षे--ऊदित्त्वात् विकल्पितेट्कत्वेन निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति निषेधादिडागमो न।]]
16
=>
[[२। ‘मनसः संज्ञायाम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
17
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि शालिगोप इति रूपम्। स्त्रियां टित्त्वेन ङीपि शालिगोपी।]]
18
=>
[[आ। ‘इक्षुच्छायनिषादिन्यस्तस्य गोष्तुर्गुणोदयम्। आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः।।’ रघुवंशे ४-२०।]]
19
=>
[[४। ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इति सूत्रेण सुवर्ण- रजतादिभिन्ने धने बोध्ये क्यपि, गुपेरादेः ककारादेशश्च निपातितः।]]
20
=>
[[B। ‘अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः। रत्नान्नपानकुप्यानामाटतुर्नष्टसंस्मृती।।’ भ। का। ६-५८।]]
21
=>
[पृष्ठम्०४०१+ २४]
22
=>
[[१। स्त्रियां भावादौ ‘अ प्रत्ययात्’ (३-३-१०२) इति आयप्रत्ययान्तादकार प्रत्ययः। आयाभावपक्षे-‘तितुत्र--’ (७-२-९) इतीण्णिषेधे रूपम्।]]
23
=>
[[२। ‘हलश्चेजुपधात्’ (८-४-३१) इति वा णत्वम्।]]
24
=>
[[आ। ‘कः कृत्वा रावणामर्षप्रकोपणमवद्यधीः। शक्तो जगति शक्रोऽपि कर्तुमायुःप्रगोपणम्।।’ भ। का। ९-१०५।]]
25
=>
[[३। आयप्रत्ययाभावपक्षे ऊदित्त्वेनेड्विकल्पात्, इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]