| YouTube Channel

जोगुध्यम् (jogudhyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गुध परिवेष्टने”@} 2 “गुधेर्गुध्नाति रोषेऽर्थे, गुध्येत् तु परिवेष्टने।” 3 इति देवः।
गोधकः-धिका, गोधकः-धिका, 4 जुगुधिषकः-जुगोधिषकः, जोगुधकः-धिका
गोधिता-त्री, गोधयिता-त्री, जुगुधिषिता-जुगोधिषिता-त्री, जोगुधिता-त्री
5 गुध्यन्-न्ती, गोधयन्-न्ती, जुगुधिषन्-जुगोधिषन्-न्ती
-- गोधिष्यन्-न्ती-ती, गोधयिष्यन्-न्ती-ती, जुगुधिषिष्यन्-जुगोधिषिष्यन्-न्ती-ती, -- गोधयमानः, गोधयिष्यमाणः, जोगुध्यमानः-जोगुधिष्यमाणः
6 सुघुत्-सुघुद्-सुगुधौ-सुगुधः
-- -- -- 7 8 विगुधितम्-तः, 9 गोधितः, जुगुधिषितः-जुगोधिषितः, जोगुधितः-तवान्
10 गुधः, 11 सुगोधी, गोधः, जुगुधिषुः-जुगोधिषुः, जोगुधः
गोधितव्यम्, गोधयितव्यम्, जुगुधिषितव्यम्-जुगोधिषितव्यम्, जोगुधितव्यम्
गोधनीयम्, गोधनीयम्, जुगुधिषणीयम्-जुगोधिषणीयम्, जोगुधनीयम्
गोध्यम्, गोध्यम्, जुगुधिष्यम्-जुगोधिष्यम्, जोगुध्यम्
ईषद्गोधः-दुर्गोधः-सुगोधः
-- -- गुध्यमानः, गोध्यमानः, जुगुधिष्यमाणः, जोगुध्यमानः
गोधः, गोधः, जुगुधिषः-जुगोधिषः, जोगुधः
गोधितुम्, गोधयितुम्, जुगुधिषितुम्-जुगोधिषितुम्, जोगुधितुम्
12 गोधा, गोधना, जुगुधिषा-जुगोधिषा, जोगुधा
गोधनम्, गोधनम्, जुगुधिषणम्-जुगोधिषणम्, जोगुधनम्
13 गुधित्वा, गोधयित्वा, जुगुधिषित्वा-जुगोधिषित्वा, जोगुधित्वा
प्रगुध्य, प्रगोध्य, सञ्जुगुधिष्य-सञ्जोगुधिष्य, प्रजोगुध्य
गोधम् २, गुधित्वा २, गोधम् २, गोधयित्वा २, जुगुधिषम् २-जुगोधिषम् २, जुगुधिषित्वा २-जुगोधिषित्वा २, जोगुधम्
जोगुधित्वा
14 इति ऊमप्रत्ययः।
त्वगादिभिः गुध्यते = आवेष्ट्यते इति गोधूमः।]] गोधूमः।
15
प्रासङ्गिक्यः
01
=>
(४०५)
02
=>
(४-दिवादिः-११२०। अक। सेट्। पर।)
03
=>
(श्लो। १२१।)
04
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पनान् रूपद्वयम्।]]
05
=>
[[२। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। श्यनस्सार्वधातुकत्वात् ङिद्वद्भावेनाङ्गस्य गुणो न।]]
06
=>
[[३। भष्भावो झषन्तत्वेन।]]
07
=>
[पृष्ठम्०३९३+ २२]
08
=>
[[१। ‘शब्विकरणेभ्य एवेष्यते’ (भाष्येष्टिः १-२-२१) इति इष्टेः, ‘उदुपधात्--’ (१-२-२१) इति कित्त्वविकल्पः।]]
09
=>
[[आ। ‘तं प्लुष्यद्दृष्टिनृत्यद्रुषमपि गतत्रासमुत्कुथ्यदङ्गं पोथ्यं प्रोचे स्वरेण स्वजनविगुधितं क्षिप्यता पुष्पमाध्वीम्।।’ धा। का। २-५६।]]
10
=>
[[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
11
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
12
=>
[[४। गोधा = तलत्राणम्। भिदादौ (३-३-१०४) गुणविशिष्टपाठात्, ‘गोधाया ढ्रक्’ (४-१-१२९) इति निर्देशाच्च अङि गुणः।]]
13
=>
[[५। ‘मृडमृदगुध--’ (१-२-७) इति नित्यं कित्त्वम्। ‘न क्त्वा सेट्’ (१-२-१८) इत्यस्यापवादः।]]
14
=>
[[६। ‘गुधेरूमः’ [द। उ। ७-४२।]
15
=>
[पृष्ठम्०३९४+ २७]