| YouTube Channel

जैनः (jainaH)

 
Apte
English
जैनः [jainḥ],
a.
A Jaina, a follower of Jaina doctrines.
A Buddha.
Apte 1890
English
जैनः 1 A Jaina, a follower of Jaina doctrines.
2 A Buddha.
Apte Hindi
Hindi
जैनः
पुं*
- जिन्+अण्
"जैन सिद्धान्तों का अनुयायी, जैन मत को मानने वाला"
Wordnet
Sanskrit
Synonyms:
जैनः
noun
जिनोपासकः
"जिनधर्मः एव श्रेष्ठतमः इति जैनाः प्रवदन्ति"[श क]"
शब्दकल्पद्रुमः
Sanskrit
जैनः,
पुं,
(जिन एव यद्बा, जिन उपास्य-देवतास्येति जिन् + अण् ।) जिनोपासकः ।बौद्धः इति हलायुधः
(धर्म्मक्षेत्रे-ऽस्मिन् भारतवर्षे प्रचलितेषु विविधेषुधर्म्मेषु जिनधर्म्म एव श्रेष्ठतम इति जैनाः प्रव-दन्ति एषामुपास्यदेवता जिनः ते तु श्वेता-म्बरदिगम्बरभेदेन द्बिविधाः श्वेताम्बरास्तुप्रायश आश्रमिणः अधुना नानाशाखासुविभक्ताः समभवन् दिगम्बरास्तु प्रायशोनिर्ग्रन्थाः एतेषां यन्मतं तत् सर्व्वदर्शनसंग्र-हात् प्रदर्श्यते यथा, --“ननु कश्चित् पुरुषविशेषः सर्व्वज्ञपदवेद-नीयः प्रमाणपद्धतिमध्यास्ते सद्भावग्राहकस्यप्रमाणपञ्चकस्य तत्रानुपलम्भात् तथाचोक्तंतौतातितैः ।सर्व्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ।दृष्टो चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत्
चागमविधिः कश्चिन्नित्यसर्व्वज्ञबोधकः ।न तत्रार्थवादानां तात्पर्य्यमपि कल्प्यते
चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते ।न चानुवदितुं शक्यः पूर्व्वमन्यैरबोधितः
अनादेरागमस्यार्थो सर्व्वज्ञ आदिमान् ।कृत्रिमेन त्वसत्येन कथं प्रतिपाद्यते
अथ तद्वचनेनैव सर्व्वज्ञोऽनयैः प्रतीयते ।प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः
सर्व्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ।कथं तदुभयं सिध्येत् सिद्धमूलान्तरादृते
असर्व्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ।सर्व्वज्ञमवगच्छन्तस्तद्वाक्योक्तं जानते
सर्व्वज्ञसदृशं किञ्चिद्यदि पश्येम सम्प्रति ।उपमानेन सर्व्वज्ञं जानीयाम ततो वयम्
उपदेशोऽपि बुद्धस्य धर्म्माधर्म्मादिगोचरः ।अन्यथा नोपपद्येत सार्व्वज्ञ्यं यदि नाभवत्
इत्यादि
अत्र प्रतिविधीयते यदभ्यधायि सद्भांवग्राह-कस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तद-युक्तं तत्सद्भावादेकस्यानुमानादेः सद्भावात् ।तथाहि कश्चिदात्मा सकलपदार्थसाक्षात्कारीतद्गहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्यय-त्वात् यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रति-बन्धप्रत्ययं तत्तत्साक्षात्कारि यथा अपगत-तिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षा-त्कारि तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रति-बन्धप्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थ-साक्षात्कारीति तावदशेषार्थग्रहणस्वभा-वत्वमात्मनोऽसिद्धं चोदनाबलान्निखिलार्थज्ञा-नात् नोत्पत्त्यन्यथानुपपत्त्या सर्व्वमनैकान्तात्मकंसत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च चोदना हिभूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्ट-मित्येवं जातीयकमर्थमवगमयतीत्येवंजातीयकै-रध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणा-निबन्धनं सकलार्थविषयज्ञानं प्रतिपद्यमानैःसकलार्थग्रहणस्वभावकत्वमात्मनोऽभ्युपगतम् ।न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिःसम्यग्-दर्शनादित्रयलक्षणस्यावरणप्रक्षयहेतु-भूतस्य सामग्रीविशेषस्य प्रतीतत्वात् अनयामुद्रयापि क्षुद्रोपद्रवा विद्राव्याः ।नन्वावरणप्रक्षयवशादशेषविषयं विज्ञानं विशदंमुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तं तस्य सर्व्वज्ञ-स्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्नअनादिमुक्तत्वस्यैवासिद्धेर्न सर्व्वज्ञोऽनादिमुक्तःमुक्तत्वादितरमुक्तवत् बद्धापेक्षया मुक्तव्यप-देशः तद्रहिते चास्याप्यभावः स्यादाकाशवत् ।नन्वनादेः क्षित्यादिकार्य्यपरम्परायाः कर्तृत्वेनतत्सिद्धिः तथाहि क्षित्यादिकं सकर्त्तृकं कार्य्य-त्वाद्घटवदिति तदप्यसमीचीनं कार्य्यत्वस्यैवा-सिद्धेः सावयवत्वेन तत्साधनमित्यभि-धातव्यं यस्मादिदं विकल्पजालमवतरति साव-यवत्वं किमवयवसंयोगित्वं अवयवसमवायित्वंअवयवजन्यत्वं समवेतद्रव्यत्वं सावयवबुद्धिविष-यत्वं वा प्रथमः आकाशादावनैकान्त्यात् ।न द्वितीयः सामान्यादौ व्यभिचारात् नतृतीयः साध्याविशिष्टत्वात् चतुर्थः विकल्प-युगलागलग्रहगलत्वात् समवायसम्बन्धमात्र-वद्द्रव्यत्वं समवेतद्रव्यत्वमन्यत्र समवेतद्रव्यत्वंवा विवक्षितं हेतूक्रियते आद्ये गगनादौव्यभिचारः तस्यापि गुणादिसमवायवत्त्वद्रव्य-त्वयोः सम्भवात् द्बितीये साध्याविशिष्टताअन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेयु सम-वायस्य साधनीयत्वात् अभ्युपगम्यैतदभाणिवस्तुतस्तु समवाय एव समस्ति प्रमाणाभा-वात् नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्यसावयवबुद्धिविषयत्वेऽपि कार्य्यत्वाभावात् नच निरवयवत्वेऽप्यस्य सावयवार्थसम्बन्धेन साव-यवबुद्धिविषयत्वमौपचारिकमित्येष्टव्यं निरवय-वत्वे व्यापित्वविरोधात् परमाणुवत् किञ्चकिमेकः कर्त्ता साध्यते किं वा स्वतन्त्रः प्रथमेप्रासादादौ व्यभिचारः स्थपत्यादीनां बहूनांपुरुषाणां तत्र कर्त्तृत्वोपलम्भादनेनैव सकलजग-ज्जननोत्पत्तावितरवैयर्थ्यञ्च तदुक्तं वीत-रागस्तुतौ ।कर्त्तास्ति नित्यो जगतः चैकःस सर्व्वगः सन् स्ववशः सत्यः ।इमाः कुहेयाः कुविडम्बनाः स्यु-स्तेषां येषामनुशासकस्त्वम्
इति
अन्यत्रापि ।कर्त्ता तावदिह कोऽपि यथेच्छया वादृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः ।कार्य्यं किमत्र भवतापि तक्षकाद्यै-राहत्य त्रिभुवनं पुरुषः करोतीति
तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षयेसार्व्वज्ञ्यं युक्तम् चास्योपदेष्ट्रन्तराभावात्सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयंपूर्व्वसर्व्वज्ञप्रणीतागमप्रभवत्वादमुष्याशेषार्थज्ञा-नस्य नचान्योन्याश्रयतादिदोषः आगमसर्व्वज्ञ-परम्पराया बीजाङ्कुरवदनादित्वाङ्गीकारादि-त्यलम् ।रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादि-त्रितयमर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररू-पितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गइति विवृतञ्च योगदेवेन येन रूपेण जीवा-द्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादितेतत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपर-पर्य्यायं श्रद्धानं सभ्यग्दर्शनं तथा तत्त्वार्थ-सूत्रं तत्त्वार्थं श्रद्धानं सम्यग्दर्शनमिति ।अन्यदपि ।रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते ।जायते तन्निसर्गेण गुरोरधिगमेन वेति
परोपदेशनिरपेक्षमात्मस्वरुपं निसर्गः व्याख्या-नादिरूपपरोपदेशजनितं ज्ञानमधिगमः येनस्वभावेन जीवादयः पदार्थाः व्यवस्थिताः तेनस्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्-ज्ञानम् यथोक्तम् ।यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा ।योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः
इति
तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्य्याय-केवलभेदेन तदुक्तम् मतिश्रुतावधिमनः पर्य्याय-केवलानि ज्ञानमिति अस्यार्थः ज्ञानावरण-क्षयोपशमे सति इन्द्रियमनसीपुरस्कृत्य व्यापृतःसन् ययार्थं मनुते सा मतिः ज्ञानावरण-क्षयोपशमे सतिं मतिजनितं स्पष्ठं ज्ञानं श्रुतम् ।असम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्त-मवच्छिन्नविषयं ज्ञानमवधिः ईर्ष्यान्तराय-ज्ञानावारणक्षयोपशमे सति परमनोगत-स्यार्थस्य स्फुटं परिच्छेदकं ज्ञानं मनःपर्य्यायः ।तपःक्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्-जानमन्यज्ञानसंस्पृष्टं केवलम् तत्राद्यं परोक्षंप्रत्यक्षमन्यत् तदुक्तम्षिजानं स्वपराभामि प्रमाणं वाधवर्ज्वितम ।प्रत्यक्षञ्च परोक्षञ्च द्बिधा मेयविनिश्चयादिति
अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवागमेऽव-गन्तव्यः संसरणकर्म्मोच्छित्तावुद्यतस्य श्रद्ध-धानस्य ज्ञानवतः पापगमनकारणक्रियानिवृत्तिःसम्यक्चारित्रम् तदेतत् सप्रपञ्चमुक्तमर्हता ।सर्व्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ।कीर्त्तितं तदहिंसादिव्रतभेदेन पञ्चधा
अहिंसासूनृतास्तेयब्रह्मचर्य्यापरिग्रहाः
यत्प्रमादयोगेन जीवितव्यपरोपणम् ।चराणां स्थावराणाञ्च तदहिंसाव्रतं मतम्
प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते ।तत्तथ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत्
अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।वाह्याः प्राणा नृणामर्थो हरता तं हता हि ते
दिव्यौदरिककामाणां कृतानुमतकारितैः ।मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम्
सर्व्वाभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः ।यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः
भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात् ।महाव्रतानि लोकस्य साधयन्त्यव्ययं पदमिति
भावनापञ्चकप्रपञ्चनञ्च प्ररूपितम् ।हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् ।आलोच्यभाषणेनापि भावयेत् सूनृतं व्रतम्
इत्यादिना
एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलि-तानि मोक्षकारणं प्रत्येकं यथा रसायन-ज्ञानं श्रद्धानावरणानि सम्भूय रसायनफलंसाधयन्ति प्रत्येकम् ।अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वेस्तः तत्र बोधात्मको जीवः अबोधात्मकस्त्व-जीवः तदुक्तं पद्मनन्दिना ।चिदचिद्द्वे परे तत्त्वे विवेकस्तद्बिवेचनम् ।उपादेयमुपादेयं हेयं हेयञ्च कुर्व्वतः
हेयं हि कर्त्तृरागादि तत्कार्य्यमविवेकिनः ।उपादेयं परं ज्योतिरुपयोगैकलक्षणमिति
सहजचिद्रूपपरिणतिं स्वीकुर्व्वाणे ज्ञानदर्शनेउपयोगः परस्परप्रदेशात्तु प्रदेशबन्धात्कर्म्मणैकीभूतस्य आत्मनोऽन्यत्वप्रतिपत्तिकारणंलक्षणं भवति सकलजीवसाधारणं चैतन्यमुप-शमक्षयक्षयोपशमवशादौपशमिकक्षयात्मक-क्षयौपशमिकभावेन कर्म्मोदयवशात् कलुषा-न्याकारेण परिणतजीवपर्य्यायजीवविवक्षायांस्वरूपं भवति यदवोचद्वाचकाचार्य्यः औप-शमिकक्षायिकौ भावौ मिश्रश्च जीवस्य सत्त्व-मौदयिकपारिणामिकौ चेति अनुदयप्राप्ति-रूपे कर्म्मण उपशमे सति जीवस्योत्पद्यमान-भावः औपशमिकः यथा पङ्के कलुषतांकुर्व्वति कतकादिद्रव्यसम्बन्धादधः पतिते जलस्यस्वच्छता कर्म्मणः क्षयोपशमे सति जायमानोभावः क्षायिकः यथा मोक्षः उभयात्माभावो मिश्रः यथा जलस्यार्द्धस्वच्छता कर्म्मो-दये सति भवन् भाव औदयिकः कर्म्मोपश-माद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारि-णामिकः तदेतत् सत्त्वं यथासम्भवं भव्यस्या-भव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः ।तदुक्तं स्वरूपसम्बोधने ।ज्ञानाद् भिन्नो चाभिन्नो भिन्नाभिन्नः कथञ्चन ।ज्ञानं पूर्व्वापरीभूतं सोऽयमात्मेति कीर्त्तितः
इति
ननु भेदाभेदयोः परस्परपरिहारेणावस्थाना-दन्यतरस्यैव वास्तवत्वादुभयात्मकत्वमयुक्तमितिचेत्तदयुक्तं वाधे प्रमाणाभावात् अनुपलम्भो हिबाधकं प्रमाणं सोऽस्ति समस्तेषु वस्तुष्वनेक-रसात्मकत्वस्य स्याद्बादिनो मते सुप्रसिद्धत्वा-दित्यलम् ।अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षतेजीवाकाश-धर्म्माधर्म्म-पुद्गलास्तिकायभेदात् ।एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया स्थिति-व्यपदेशः अनेकप्रदेशत्वेन शरीरवत् कायव्यप-देशः तत्र जोवा द्विविधाः संसारिणो मुक्ताश्चभवाद् भवान्तरप्राप्तिमन्तः संसारिणः ते चद्बिविधाः समनस्का अमनस्काश्च तत्र संज्ञिनःसमनस्काः शिक्षाक्रियालापग्रहणरूपा संज्ञातद्विधुरास्त्वमनस्काः ते चामनस्का द्विविधाःत्रसस्थावरभेदात् तत्र द्बीन्द्रियादयः शङ्खगण्डो-लकप्रभृतयश्चतुर्व्विधास्त्रसाः पृथिव्यप्तेजोवायुवन-स्पतयः स्थावराः तत्र मार्गगतधूलिः पृथिवीइष्टकादिः पृथिवीकायः पृथिवी कायत्वेन येनगृहीता पृथिवीकायकः पृथिवीं कायत्वेनयो ग्रहीष्यति पृथिवीजीवः एवमवरादि-ष्वपि भेदचतुष्टयं योज्यम् तत्र पृथिव्यादिकायत्वेन गृहीतवन्तो ग्रहीष्वन्तश्च स्थावरागृह्यन्ते पृथिव्यादिपृथिवीकायादयः तेषांजीवत्वात् ते स्थावराः स्पर्शनैकेन्द्रियाश्चभवान्तरप्राप्तिविधुरा मुक्ताः धर्म्माधर्म्माकाशा-स्तिकायास्ते एकत्वशालिनो निष्क्रियाश्च द्रव्यस्यदेशान्तरप्राप्तिहेतुः तत्र धर्म्माधर्म्मौ प्रसिद्धौआलोकेनाविच्छिन्ने नभसि लोकाकाशपदवे दनीये सर्व्वत्रावस्थितिगतिस्थित्युपग्रहो धर्म्माधर्म्म-योरुपकारः अतएव धर्म्मास्तिकायः प्रवृत्त्यनु-मेयः अधर्म्मास्तिकायः स्थित्यनुमेयः अन्यवस्तुप्र-देशमध्येऽन्यस्य वस्तुनः प्रवेशोऽवगाहः तदा-काशकृत्यम् स्पर्शरसवर्णवन्तः पुद्गलाः ते चद्बिविधाः अणवः स्कन्धाश्च भोक्तुमशक्या अणवःद्व्यणुकादयः स्कन्धाः तत्र द्व्यणुकादिस्कन्ध-भेदादण्वादिरुत्पद्यते अण्वादिसंघातात् द्ब्यणु-कादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिःअतएव पूरयन्ति गलन्तीति पुद्गलाः काल-स्यानेक-प्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपिद्रव्यत्वमस्ति तल्लक्षणयोगात् तदुक्तं गुणपर्य्याय-वद्द्रव्यमिति द्रव्याश्रया निर्गुणा गुणाः यथाजीवस्य ज्ञानत्वादिसामान्यरूपाः पुद्गलस्यरूपत्वादिसामान्यस्वभावाः धर्म्माधर्म्माकाश-कायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादि-सामान्यानि गुणाः तस्य द्रव्यस्योक्तरूपेणभवनमुत्पादः तद्भावः परिणामः पर्य्याय इतिपर्य्यायाः यथा जीवस्य घटादिज्ञानसुखक्लेशा-दयः पुद्गलस्य मृत्पिण्डघटादयः धर्म्मादीनांगत्यादिविशेषाः अतएव षट् द्रव्याणीतिप्रसिद्धिः ।केचन सप्त तत्त्वानीति वर्णयन्ति तदाह जीवा-जीवास्रव-बन्ध-संवर-निर्जर-मोक्षास्तत्त्वानीति ।तत्र जीवाजीवौ निरूपितौ आस्रवो निरूप्यते ।औदारिकादिकायादिवलनद्बारेणात्मनश्चलनंयोगपदवेदनीयमास्रवः यथा सलिलावगाहि-द्वारं नद्यास्रवणं कारणत्वादास्रव इति निग-द्यते तथा योगप्रणाडिकयाकर्म्मास्रवतीति सयोग आस्रवः यथा आर्द्रं वस्त्रं समन्ताद्बाता-नीतं रेणुजातमुपादत्ते तथा कषायजलार्द्रआत्मा योगानीतं कर्म्म सर्व्वप्रदेशैर्गृह्णाति यथावा निष्टप्तायःपिण्डे जले क्षिप्ते अम्भः समन्ताद्गृह्णाति तथा कषायोष्णो जीवो योगानीतंकर्म्म समन्तादादत्ते कषति हिनस्त्यात्मानंकुगतिप्रापणादिति कषायः क्रोधो मानो मायालोभश्च द्विविधः शुभाशुभभेदात् तत्रा-हिंसादिः शुभः काययोगः सत्यमितहितभाष-णादिः शुभो वाग्योगः तदेतदास्रवभेदप्रभेद-जातं कायवाङ्मनःकर्म्मयोगः आस्रवः शुभःपुण्यस्य अशुभः पापस्येत्यादिना सूत्रसन्दर्भेणससंरम्भमभाणि अपरे त्वेवं मेनिरे आस्रवयतिपुरुर्षविषयेष्विन्द्रियप्रवृत्तिरास्रव इन्द्रियद्बारा हिपौरुषं ज्योतिर्व्विषयान् स्पृशद्रूपादिज्ञानरूपेणपरिणमत इति ।मिथ्यादर्शनाविरतिप्रमादकषायवशाद्योग-वशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तान्त-प्रदेशानां पुद्गलानां कर्म्मबन्धयोग्यानामादान-मुपश्लेषणं यत् करोति बन्धः तदुक्तं सकषा-यत्वाज्जीवः कर्म्मभावयोग्यान् पुद्गलानादत्ते सबन्ध इति तत्र कषायग्रहणं सर्व्वबन्धहेतूपलक्ष-णार्थम् बन्धहेतून् पपाठ वाचकाचार्य्यः ।मिथ्यादर्शनाविरतिप्रमादकषाया बन्धहेतवइति मिथ्यादर्शनं द्विविधं मिथ्याकर्म्मोदयात्परोपदेशानपेक्षं तत्त्वाश्रद्धानं नैसर्गिकमेकम्अपरं परोपदेशजम् पृथिव्यादिषट्कापादा-नकं षडिन्द्रियासंयमनञ्च अविरतिः पञ्च-समितिगुप्तिष्वनुत्साहः प्रमादः कषायःक्रोधादिः तत्र कषायान्ताः स्थित्यनुभावबन्ध-हेतवः प्रकृतिप्रदेशबन्धहेतुर्योग इति विभागः ।बन्धश्चतुर्व्विध इत्युक्तं प्रकृतिस्थित्यनुभावप्रदे-शास्तु तद्बिधय इति यथा निम्बगुडादेस्तिक्तत्व-मधुरत्वादिस्वभावः एवमावरनीयस्य ज्ञान-दर्शनावरणत्वमादित्यप्रभोच्छेदकाम्भोधरवत् प्र-दीपप्रभातिरोधायककुम्भवच्च सदसद्वेदनीयस्यसुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्दर्शन-मोहनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्ज्जनसङ्ग-वच्चारित्रे मोहनीयस्यासंयमहेतुत्वं मद्यमद-वदायुषो देहबन्धकर्तृत्वं जलवत् नाम्नीविचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्चनीच-कारित्वं कुम्भकारवद्दानादीनां विघ्ननिदानत्व-मन्तरायस्य स्वभावः कोशाध्यक्षवत् सोऽयंप्रकृतिबन्धोऽष्टविधः द्रव्यकर्म्मावान्तरभेदमूल-प्रकृतिवेदनीयः तथावोचदुमास्वातिवाचका-चार्य्यः आद्यो ज्ञानदर्शनावरणवेदनीयमोह-नीयायुर्नामगोत्रान्तराया इति तद्भेदञ्च सम-गृह्णात् पञ्चनवाष्टाविंशतिचतुर्द्विचत्वारिंशद्-द्बिपञ्चदशभेदा यथाक्रममिति एतच्च सर्व्वंविद्यानन्दादिभिर्व्विवृतमिति विस्तरभयान्न प्रस्तू-यते यथा अजागोमहिष्यादिक्षीराणामेता-वन्तमनेहसं माधुर्य्यस्वभावादप्रच्युतिस्थितिःतथा ज्ञानावरणादीनां मूलप्रकृतीनामादित-स्तिसृणामन्तरायस्य त्रिंशत्सागरोपम-कोटिकोट्यः परास्थितिरित्याद्युक्तं कालदुर्द्धान-वत् स्वीयस्वभावादप्रच्युतिस्थितिः यथा अजा-गोमोहिष्यादिक्षीराणां तीव्रमन्दादिभावेन स्व-कार्य्यकारणे सामर्थ्यविशेषोऽनुभावः तथा कर्म्म-पुद्गलानां स्वकार्य्यकरणे सामर्थ्यविशेषोऽनुभावः ।कर्म्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदे-शानामात्मप्रदेशानुप्रवेशः प्रदेशबन्धः आस्रव-निरोधः संवरः येनात्मनि प्रविशत् कर्म्म प्रति-षिध्यते गुप्तिसमित्यादिः संवरः संसार-कारणाद्योगादात्मनो गोपनं गुप्तिः सा त्रिविधाकायवाङ्मनोनिग्रहभेदात् प्राणिपीडापरि-हारेण सम्यगयनं समितिः सा ईर्ष्याभाषादि-भेदात् पञ्चधा प्रपञ्चितञ्च हेमचन्द्राचार्य्यैः ।लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः ।जन्तुरक्षार्थमालोक्य गतिरीर्ष्या मता सताम्
आपद्य रागतः सर्व्वजनीनं मितभाषणम् ।प्रिया वाचंयमानां सा भाषा समितिरुच्यते
द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् ।मुनिर्य्यदन्नमादत्ते सेषणासमितिर्म्मता
आसनादीनि संवीक्ष्य प्रतिलङ्घ्य यत्नतः ।गृह्णीयान्निक्षिपेद्ध्यायेत् सादानसमितिः स्मृता
कफमूत्रमलप्रायैर्निर्ज्जन्तु जगतीतले ।यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत्
अत एवास्रवः स्रोतसो द्बारं संवृणोतीति संवरइति निराहुः तदुक्तमभियुक्तैः ।आस्रवो भवहेतुः स्यात् संवरो मोहकारणम् ।इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम्
अर्ज्जितस्य कर्म्मणस्तपःप्रभृतिभिर्निर्ज्जरणं निर्ज्ज-राख्यं तत्त्वं चिरकालप्रवृत्तकषायकलापं पुण्यंसुखदुःखे देहेन जरयति नाशयति केशो-ल्लुञ्चनादिकं तप उच्यते सा निर्ज्जरा द्विविधायथाकालौपक्रमिकभेदात् तत्र प्रथमा यस्मिन्काले यत् कर्म्म फलप्रदत्त्वेनाभिमतं तस्मिन्नेवकाले फलदानाद्भवन्ती निर्ज्जरा कामादिपाक-जेति जेगीयते यत् कर्म्म तपोबलात्स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत् कर्म्मनिर्ज्जरा यदाह
संसारबीजभूतानां कर्म्मणां जरणादिह ।निर्ज्जरा संस्मृता द्वेधा सकामा कामनिर्ज्जरा
स्मृता सकामा यमिनामकामा त्वन्यदेहिना-मिति
मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभि-नवकर्म्माभावात् निर्ज्जराहेतुसन्निधानेनार्ज्जि-तस्य कर्म्मणो निरसनादात्यन्तिककर्म्ममोक्षणंमोक्षः बन्धहेतुभवहेतुनिर्ज्जराभ्यां कृत्स्नकर्म्म-विप्रमोक्षनं मोक्ष इति तदनन्तरमूर्द्ध्वं गच्छत्या-लोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितंकुलालचक्रमुपरतेऽपि तस्मिन् तद्बलादेवा-संस्कारक्षयं भ्रमति तथा भवस्थेनात्मना अप-वर्गप्राप्तये बहुशो यत् कृतं प्रणिधानं मुक्तस्यतदभावेऽपि पूर्व्वसंस्कारादालोकान्तं गमनमुप-पद्यते यथा वा मृत्तिकालेपकृतमलावुद्रव्यं जले-ऽधःपतति पुनरपेतमृत्तिकाबन्धमूर्द्ध्वं गच्छतितथा कर्म्मरहित आत्मा असङ्गत्वादूर्द्ध्वं गच्छतिबन्धच्छेदादेरण्डबीजवच्चोर्द्ध्वगतिस्वभावाच्चाग्नि-शिखावत् अन्योन्यं प्रदेशानुप्रवेशे सत्यविभा-गेनावस्तानं बन्धः परस्परप्राप्तिमात्रं सङ्गः ।तदुक्तं पूर्व्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गति-परिणामाच्चाविरुद्धं कुलालचक्रवद्व्यपगतलेपा-लावुवदेरण्डबीजवदग्निशिखावच्चेति अतएवपठन्ति ।गत्वा गत्वा निवर्त्तन्ते चन्द्रसूर्य्यादयो ग्रहाः ।अद्यापि निवर्त्तन्ते त्वालोकाकाशमागता-इति ।अन्ये तु गतसमस्तक्लेशतद्बासनस्यानावरण-ज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानंमुक्तिरित्वास्थिषत एवमुक्तानि सुखदुःखसाध-नाभ्यां पुण्यपापाभ्यां सहितानि नव पदार्थान्केचनाङ्गीचक्रुः तदुक्तं सिद्धान्ते जीवाजीवौपुण्यपापयुतावास्रवः संवरो निर्ज्जरणं बन्धोमोक्षश्च नव तत्त्वानीति संग्रहे प्रवृत्ता वय-मुपरताः स्म ।अत्र सर्व्वत्र सप्तभङ्गिनयाख्यं न्यायमवतार-यन्ति जैनाः स्यादस्ति स्यान्नास्ति स्यादस्ति चनास्ति स्यादवक्तव्यः स्यादस्ति चावक्तव्यःस्यान्नास्ति चावक्तव्यः स्यादस्ति नास्ति चाव-क्तव्य इति तत्सर्व्वमनन्तबीर्य्यः प्रत्वपीपदत् ।तद्विधानविवक्षायां स्यादस्तीति गतिभवेत् ।स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते
क्रमेणोभयवाञ्छायां प्रयोगः समुदायभाक् ।युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः
समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यत इति ।स्याच्छब्दः खल्वयं निपातः तिङन्तप्रतिरूपको-ऽनेकान्तद्योतकः यथोक्तम् ।वाक्येष्वनेकान्तद्योतिगम्यं प्रति विशेषणम् ।स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपक इति
यदि पुनरेकान्तद्योतकः स्याच्छब्दोऽयं स्यात्तदास्यादस्तीति वाक्ये स्यात्पदमनर्थकं स्यात् अने-कान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीतिस्यात्पदात् कथञ्चिदिति अयमर्थो लभ्यत इतिनानर्थकम् तदाह ।स्याद्वादः सर्व्वथैकान्तत्यागात् किं वृततद्बिधेः ।सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृदिति
यदि वस्त्वस्त्येकान्ततः सर्व्वथा सर्व्वदा सर्व्वत्रसर्व्वात्मनास्तीति उपादित्साजिहासाभ्यांक्वचित् कदा केनचित् प्रवर्त्तेत निवर्त्तेत वा प्राप्त-प्रापणीयत्वहेयहानानुपपत्तेश्च अनेकान्त-पक्षे तु कथञ्चित् क्वचित् केनचित् सत्त्वेनहानोपादाने प्रेक्षवतामुपपद्येते किश्च वस्तुनःसत्त्वं स्वभावः असत्त्वं वेत्यादि प्रष्टव्यं ताव-दस्तित्वं वस्तुनः स्वभाव इति समस्ति घटो-ऽस्तीत्यनयोः पर्य्यायतया युगपत्प्रयोगायोगात्नास्तीति प्रयोगविरोधाच्च एवमन्यत्रापियोज्यम् यथोक्तम् ।घटोऽस्तीति वक्तव्यं सन्नेव हि यतो घटः ।नास्तीत्यपि वक्तव्यं विरोधात् सदसत्त्वयोः
इत्यादि
तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्व्वचनीय-वादभेदेन प्रतिवादिनश्चतुर्व्विधाः पुनरप्य-निर्व्वचनीयमतेनामिश्रितानि सदसदादिमता-नीति त्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादि-पर्य्यनुयोगे कथञ्चिदस्तीत्यादिप्रतिवचनसम्भवेनते वादिनः सर्व्वे निर्व्विन्नाः सन्तः तूष्णीमासतइति सम्पूर्णार्थविनिश्चायिनः स्याद्बादमङ्गी-कुर्व्वतस्तत्र तत्र विजय इति सर्व्वमुपपन्नम् ।यदवोचदाचार्य्यः स्याद्वादमञ्जर्य्याम् ।अनेकान्तात्मकं वस्तु गोचरः सर्व्वसंविदाम् ।एकदेशविशिष्टोऽर्थो यस्य विषयो मतः
न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि ।सम्पूर्णार्थविनिश्चायि स्याद्बस्तु श्रुतमुच्यत इति
अन्योन्यपक्षप्रतिपक्षभावाद्-यथापरे मत्सरिणः प्रवादाः ।नयानशेषानविशेषमिच्छ-न्नपक्षपाती समयस्तथार्हत इति
जिनदत्तसूरिणा जैनं मतमित्थमुक्तम् ।बलभोगोपभोगानामुभयोर्द्दानलाभयोः ।अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम्
हिंसा रत्यरती रागद्वेषौ रतिरतिस्मरः ।शोको मिथ्यात्वमेतेऽष्टादश दोषा नयस्य सः
जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः ।ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्त्तिनि
स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमापि ।नित्यानित्यात्मकं सर्व्वं नव तत्त्वानि सप्त वा
जीवाजीवौ पुण्यपापे चास्रवः संवरोऽपि ।बन्धो निर्ज्जरणं मुक्तिरेषां व्याख्याधुनोच्यते
चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः ।सत्कर्म्मपुद्गलाः पुण्यं पापं तस्य विपर्य्ययः
आस्रवः कर्म्मणां बन्धो निर्ज्जरस्तद्बियोजनम् ।अष्टकर्म्मक्षयान्मोक्षोऽथान्तर्भावश्च कैश्चन
पुण्यस्य संस्रवे पापस्यास्रवे क्रियते पुनः ।लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः ।क्षीणाष्टकर्म्मणो मुक्तिर्निर्व्यावृत्तिर्ज्जिनोदिता
सरजोहरणा भैक्षभुजो लुञ्चितमूर्द्धजाः ।श्वेताम्बराः क्षमाशीलाः निःसङ्गा जैनसाधवः
लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिग-म्बराः ।ऊर्द्ध्वशिनो गृहे दातुर्द्बितीयाः स्युज्जिनर्षयः
भुङ्क्ते केवलं स्त्रीं भोक्षमेति दिगम्बरः ।प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सहेति
”इति सर्व्वदर्शनसंग्रहे आर्हतदर्शनम्
)