| YouTube Channel

जेषृ (jeSR)

 
Shabdartha Kaustubha
Kannada
जेषृ - गतौ (भ्वा० आत्म० सक० से०) जेषते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಂದು /ಹೋಗಿ ಸೇರು /ತಲುಪು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जेष्
मूलधातुः:
जेषृ
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
जेषते
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
जेषृँ जेषृ
मानकरूपान्तरम् - णेसृँ
णेसृ
मानकरूपान्तरम् - एषृँ
एषृ
मानकरूपान्तरम् - ह्रेषृँ
ह्रेषृ गतौ
- जेषते अजिजेषत् ।नेषते ।प्रणेषते प्रनिनेषते एषते ।अध्येषते। अन्वेषते मा भवानेषिषत् ।ह्रेषते ''ह्रेषा वाजिध्वनौ स्त्रियाम्'' ।। 618-621।।
क्षीरतरङ्गिणी
Sanskrit
जेषृँ जेषृ
मानकरूपान्तरम् - णेषृँ
णेषृ
मानकरूपान्तरम् - एषृँ
एषृ
मानकरूपान्तरम् - ह्रेषृँ
ह्रेषृ गतौ
- जेषते नेषते नप्तृनेष्टृ (उ0 294) इत्यत्र नेष्टा अन्वेषते अन्वेषितः इषेः (957) अन्विष्टः मा भवानन्वेषिषत दिवादौ इष गतौ (417) अन्विष्यति तुदादौ इषु इच्छायाम् (658) अन्विच्छति क्र्य्यादौ इष आभीक्ष्ण्ये (957) अन्विष्णाति चुरादौअन्वेषयति अन्वेष्टीति तु भ्रान्तिप्रयोगः 610- 613
धातुवृत्तिः
Sanskrit
जेषृँ जेषृ
मानकरूपान्तरम् - णेषृँ
णेषृ
मानकरूपान्तरम् - एषृँ
एषृ
मानकरूपान्तरम् - प्रेषृँ
प्रेषृ (अर्थः) गतौ
( जेषते नेषते प्रणेषते एषते एषां चक्रे एषिता एषि प्यते एषयति भवानेषिषत् प्रेषते ) 611
कृदन्तरूपमाला
Sanskrit
1 {@“जेषृ गतौ”@} 2 जेषकः-षिका, जेषकः-षिका, जिजेषिषकः-षिका, जेजेषकः-षिका
जेषिता-त्री, जेषयिता-त्री, जिजेषिषिता-त्री, जेजेषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 3 ज्ञेयानि।
क्विपि-जेट्-जेड्-जेषौ-जेषः, इति रूपाणि इति विशेषः।
^आ जेषः।
प्रासङ्गिक्यः
01
=>
(६२१)
02
=>
(१-भ्वादिः-६१६। सक। सेट्। आत्म।)
03
=>
(२६१)