| YouTube Channel

जेन्ताकः (jentAkaH)

 
Apte
English
जेन्ताकः [jēntākḥ], A heated chamber for inducing perspiration, a dry hot bath.
Apte Hindi
Hindi
जेन्ताकः
पुं*
- -
"गरम कमरा जिसमें बैठने पर शरीर से पसीना बहे, शुष्क उष्ण स्नान"
शब्दकल्पद्रुमः
Sanskrit
जेन्ताकः,
पुं,
स्वेदविशेषः यथा, “अथजेन्ताकं चिकीर्षुर्भूमिं परीक्षेत पूर्व्वस्या-न्दिशि उत्तरस्यां वा गुणवति प्रशस्तभूमिभागेदेशे कृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वानदीपरीवापपुष्करिण्यादीनां जलाशयानामन्य-तमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे सम-सुविभक्तभागे देशे सप्ताष्टौ वा अरत्नीः प्रक्रम्यउदकात् प्राङ्मुखमुदङ्मुखं वा अभिमुखतीर्थंकूटागारं कारयेत् उत्सेधविस्तारतः परम-रत्नीः षोडशासमन्तात् संवृतं मृत्कर्म्मसम्पन्न-मनेकवातायनम् अस्य कूटागारस्यान्तः सम-न्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकांकारयेत् आकवाटान्मध्ये चास्य कूटागारस्यचतुष्किष्कुमात्रं द्बिपुरुषप्रमाणं मृण्मयं कन्दु-संस्थानं बहुसूक्ष्मच्छिद्रं अङ्गारकोष्ठकस्तम्भंसपिधानं कारयेत् तञ्च खादिराणामाश्व-कर्णिकानां वा मेध्येन काष्ठेनापूरयित्वा प्रदी-पयेत् यदा जानीयात् साधु दग्धानिकाष्ठानि गतधूमानि अथ तप्तं केवलमग्निनातदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति ।तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नंप्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात् सौम्य ! प्रविशकल्याणायारोग्याय चेति प्रविश्य चैनां पिण्डिका-मधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः ।न त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डि-कैषा मोक्तव्या आप्राणोच्छ्वासात् भ्रस्यमानोह्यतः पिण्डिकावकाशात् द्वारमधिगच्छन् स्वेद-र्मूच्छापरीततया सद्यः प्राणान् जह्याः तस्मात्पिण्डिकां कथञ्चन मुञ्चेथाः यदाजानीयाद्विगताभिष्यन्दमात्मानं सम्यक् प्रसृत-स्वेदपिच्छं सर्व्वस्रोतोविमुक्तं लघुभूतमपगत-विबन्धस्तम्भसुप्तिगौरववेदनमिति ततस्तां पिण्डिकामनुवसन् द्वारं प्रपद्येत निष्क्रम्य सहसाचक्षुषोः परिपालनार्थं शीतमुदकं स्पृशेत् अप-गतक्लमसन्तापस्तु मुहूर्त्तात् सुखोष्णेन वारिणायथान्यायं परिषिक्तोऽश्नीयात् ।” इति चरकः