| YouTube Channel

जेन्ताक (jentAka)

 
शब्दसागरः
English
जेन्ताक
m.
(-कः) A dry hot bath, or heated chamber for inducing per-
spiration in rheumatism, &c.
Yates
English
जेन्ताक (कः) 1.
m.
Dry hot bath.
Wilson
English
जेन्ताक
m.
(-कः) A dry hot bath, or heated chamber for inducing
perspiration in rheumatism, &c.
Apte
English
जेन्ताकः [jēntākḥ], A heated chamber for inducing perspiration, a dry hot bath.
Apte 1890
English
जेंताकः A heated chamber for inducing perspiration, a dry hot bath.
Monier Williams Cologne
English
जेन्ताक
m.
a dry hot bath,
Car.
Monier Williams 1872
English
जेन्ताक जेन्ताक, अस्, m. a dry hot bath or
heated chamber for inducing perspiration in rheuma-
tism, &c.
Apte Hindi
Hindi
जेन्ताकः
पुं*
- -
"गरम कमरा जिसमें बैठने पर शरीर से पसीना बहे, शुष्क उष्ण स्नान"
Shabdartha Kaustubha
Kannada
जेन्ताक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸ್ವೇದೋತ್ದಾನಕ್ಕಾಗಿ ಏರ್ಪಟ್ಟಿರುವ ಶಾಖವಾಗಿರುವ ಕೊಠಡಿ /ಮೈಯಲ್ಲಿ ಚೆನ್ನಾಗಿ ಬೆವರಲು ನಿರ್ಮಿತವಾದ ಬಹಳ ಉಷ್ಣವಾದ ಕೋಣೆ
L R Vaidya
English
jeMtAka {% m. %} A heated chamber for inducing perspiration.
शब्दकल्पद्रुमः
Sanskrit
जेन्ताकः,
पुं,
स्वेदविशेषः यथा, “अथजेन्ताकं चिकीर्षुर्भूमिं परीक्षेत पूर्व्वस्या-न्दिशि उत्तरस्यां वा गुणवति प्रशस्तभूमिभागेदेशे कृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वानदीपरीवापपुष्करिण्यादीनां जलाशयानामन्य-तमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे सम-सुविभक्तभागे देशे सप्ताष्टौ वा अरत्नीः प्रक्रम्यउदकात् प्राङ्मुखमुदङ्मुखं वा अभिमुखतीर्थंकूटागारं कारयेत् उत्सेधविस्तारतः परम-रत्नीः षोडशासमन्तात् संवृतं मृत्कर्म्मसम्पन्न-मनेकवातायनम् अस्य कूटागारस्यान्तः सम-न्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकांकारयेत् आकवाटान्मध्ये चास्य कूटागारस्यचतुष्किष्कुमात्रं द्बिपुरुषप्रमाणं मृण्मयं कन्दु-संस्थानं बहुसूक्ष्मच्छिद्रं अङ्गारकोष्ठकस्तम्भंसपिधानं कारयेत् तञ्च खादिराणामाश्व-कर्णिकानां वा मेध्येन काष्ठेनापूरयित्वा प्रदी-पयेत् यदा जानीयात् साधु दग्धानिकाष्ठानि गतधूमानि अथ तप्तं केवलमग्निनातदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति ।तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नंप्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात् सौम्य ! प्रविशकल्याणायारोग्याय चेति प्रविश्य चैनां पिण्डिका-मधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः ।न त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डि-कैषा मोक्तव्या आप्राणोच्छ्वासात् भ्रस्यमानोह्यतः पिण्डिकावकाशात् द्वारमधिगच्छन् स्वेद-र्मूच्छापरीततया सद्यः प्राणान् जह्याः तस्मात्पिण्डिकां कथञ्चन मुञ्चेथाः यदाजानीयाद्विगताभिष्यन्दमात्मानं सम्यक् प्रसृत-स्वेदपिच्छं सर्व्वस्रोतोविमुक्तं लघुभूतमपगत-विबन्धस्तम्भसुप्तिगौरववेदनमिति ततस्तां पिण्डिकामनुवसन् द्वारं प्रपद्येत निष्क्रम्य सहसाचक्षुषोः परिपालनार्थं शीतमुदकं स्पृशेत् अप-गतक्लमसन्तापस्तु मुहूर्त्तात् सुखोष्णेन वारिणायथान्यायं परिषिक्तोऽश्नीयात् ।” इति चरकः
वाचस्पत्यम्
Sanskrit
जेन्ताक
न०
स्वेदसेवनार्थं गृहभेदे (भापरालशोयार घर)तन्निर्मितिप्रकारोऽभिहितश्चरके यथा“अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षैत तत्र पूर्वस्यांदिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमृत्तिकेसुवर्णमृत्तिके वा परीवापपुष्रिण्यादीनां जलाशयाना-मन्यतमस्य कूले दक्षिने पश्चिमे वा सूपतीर्ये समसुविभक्तभूमिभागे सप्ताष्टौ वा अरत्नीनुपक्रम्योदकात् प्राङ्मुख-मुदङमुखं वाभिमुखतीर्थं कूटागारं कारयेत् उत्से-धविस्तारतः परमरत्नीः षोडश ससन्तात् सुवृत्तं मृत्-कर्म्मसम्प्रन्नमनेकवातायनम् अस्य कूटागारस्यान्तः सम-न्ततो भित्तिमरत्नीविस्तारोत्सेधां पिण्डिकां कारयेत्कपाटवर्जम् मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्र-पुरुषप्रमाणं मृण्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रम-ङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत् तञ्च खादिरा-णामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् सयदा जानीयात् साधुदग्धानि काष्ठानि गतभूतानि अव-तप्तञ्च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चाष्मणायुक्तमिति तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नंप्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात् सौम्य! प्रविश कल्या-णायारोग्याव चेति प्रावश्य चैनां पिण्डिकासविरुह्यपार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः त्वया स्वेदमू-र्च्छापरीतेनापि सता पिण्डिकैषाविमोक्तव्या प्राणो-च्छ्वासात् भ्रश्यमाने ह्यतः पिण्डिकावकाशात् द्वार-मनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणान् जह्याःतस्मात् पिण्डिकामेनां कथञ्चन मुञ्चेथाः त्वं यदाजानीया विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेद-पिच्छं सर्वस्रोतोविमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्ति-वेदनागौरवमिति ततस्तां पिण्डिकामनुसरन् द्वारंप्रपद्येथाः निष्क्रम्य सहसा चक्षुषोः परिपाल-नार्थं शीतोदकमुपस्पृशेथाः अपगतसन्तापक्लमस्तु मुहू-र्त्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीथाः”अस्य स्वेदार्थकता शब्दकल्पद्रुमे उक्ता चिन्त्या “भूगृहेषुच जेन्ताके कृष्णगर्भगृहेषु विधूमाङ्गारतप्तेष्वभ्यक्तःस्विद्यति ना सुखम्” इति आधाररूपगृहादिसाह-चर्य्यात् गृहमेदस्यैवोपक्रमात् उपसंहारे इतिजेन्ताकस्वेद इति कीर्त्तनं सप्तमीतत्पुरुषपरम् इतिजेन्ताकः स्वेद इति संविसर्गपाठोऽनाकरः