| YouTube Channel

जेघीयकः-यिका (jeghIyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“हि गतौ वृद्धौ च”@} 2 हायकः-यिका, हायकः-यिका, 3 जिघीषकः-षिका, 4 जेघीयकः-यिका
इत्यादीनि रूपाणि सर्वाणि पिधातुवत् 5 बोध्यानि।
6 प्रहिण्वन्-ती, 7 प्रजि- घाययिषन्-न्ती, 8 सहितम्-संहितम्, संहिता, 9 हयः-हयी, 10 हेतिः, 11 हेतुः, इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(२०००)
02
=>
(५-स्वादिः-१२५७। सक-अक। अनि। पर।)
03
=>
[[१। सनि ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘हेरचङि’ (७-३-५६) इति अभ्यासादुत्तरस्य कुत्वेन घकारः। एवं सन्नन्तेऽत्र धातौ सर्वत्र बोध्यम्।]]
04
=>
[[२। यङन्तेऽपि ‘हेरचङि’ (७-३-५६) इति कुत्वं बोध्यम्।]]
05
=>
(९९१)
06
=>
[[३। शतरि, स्वादित्वात् श्नुप्रत्ययः, गुणनिषेधः। ‘हिनुमीना’ (८-४-१५) इति णत्वम्।]]
07
=>
[[४। ण्यधिकस्यापि ‘हेरचङि’ (७-३-५६) इति कुत्वम्। अत्र णिजन्तात् सन्। तदन्तात् शता।]]
08
=>
[[५। सम्पूर्वकात् अस्मात् निष्ठायाम् ‘समो वा हिततयोः’ (वा। ६-१-१४४) इति समो मकारस्य लोपविकल्पः। ‘संहिता’ इति तु ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-७४) इति क्तान्तः वेदसंहितावाचिका।]]
09
=>
[[६। पचाद्यचि हयः = अश्वः। अतिशयेन गच्छतीत्यर्थः। हयी इति तु गौरादिङीषन्तः।]]
10
=>
[[७। ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ (३-३-९७) इति निपातनात् क्तिनि प्रकृतेर्गुणः। हेतिः = आयुधम्।]]
11
=>
[[८। औणादिके (द। उ। १-१२५) तुन्प्रत्यये रूपम्। हेतुः = कारणम्।]]