| YouTube Channel

जेग्रीयम् (jegrIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गृ सेचने”@} 2 ‘ज्ञाने गारयते, गिरेन्निगरणे, शब्दे गृणाति, त्रयं युक्तं, ग्रो गरतीति सेकविषये ह्रस्वान्तधातोः शपि।’ 3 इति देवः।
गारकः-रिका, गारकः-रिका, 4 जिगीर्षकः-र्षिका, 5 जेग्रीयकः-यिका
गर्ता-गर्त्री, गारयिता-त्री, जिगीर्षिता-त्री, जेग्रीयिता-त्री
गरन्-न्ती, गारयन्-न्ती, जिगीर्षन्-न्ती
-- 6 गरिष्यन्-न्ती-ती, गारयिष्यन्-न्ती-ती, जिगीर्षिष्यन्-न्ती-ती
-- -- गारयमाणः, गारयिष्यमाणः, जेग्रीयमाणः, जेग्रीयिष्यमाणः
7 सुगृत्-सुगृतौ-सुगृतः
-- -- -- गृतम्-गृतः-गृतवान्, गारितः, जिगीर्षितः, जेग्रीयितः-तवान्
गरः, गारः, जिगीर्षुः, 8 जेग्रियः
गर्तव्यम्, गारयितव्यम्, जिगीर्षितव्यम्, जेग्रीयितव्यम्
गरणीयम्, गारणीयम्, जिगीर्षणीयम्, जेग्रीयणीयम्
9 गार्यम्, गार्यम्, जिगीर्ष्यम्, जेग्रीय्यम्
ईषद्गरः-दुर्गरः-सुगरः
-- -- 10 ग्रियमाणः, गार्यमाणः, जिगीर्ष्यमाणः, जेग्रीय्यमाणः
गारः, गारः, जिगीर्षः, जेग्रीयः
गर्तुम्, गारयितुम्, जिगीर्षितुम्, जेग्रीयितुम्
गृतिः, गारणा, जिगीर्षा, जेग्रीया
11 गरणम्, गारणम्, जिगीर्षणम्, जेग्रीयणम्
गृत्वा, गारयित्वा, जिगीर्षित्वा, जेग्रीयित्वा
प्रगृत्य, सङ्गार्य, सञ्जिगीर्ष्य, सञ्जेग्रीय्य
गारम् २, गृत्वा २, गारम् २, गारयित्वा २, जिगीर्षम् २, जिगीर्षित्वा २, जेग्रीयम्
जेग्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(४२०)
02
=>
(१-भ्वादिः-९३७। सक। अनि। पर।)
03
=>
(श्लो। ३३)
04
=>
[[१। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘ॠत इद्धातोः’ (७-१-१००) इतीत्त्वम्, रपरत्वम्। ‘एकाच उपदेशे--’ (७-२-१०) इतीण्णिषेधः।]]
05
=>
[[२। ‘रीङृतः’ (७-४-२७) इति रीङादेशे, द्वित्वे, अभ्यासे ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः।]]
06
=>
[[३। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः।]]
07
=>
[[४। क्विपि ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। एवं ल्यप्यपि ज्ञेयम्।]]
08
=>
[[५। यङो लुकि, संयोगपूर्वकत्वादीकारस्य, ‘अचि श्नुधातु--’ (६-४-७७) इतीयङ्।]]
09
=>
[[६। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
10
=>
[[७। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङ्।]]
11
=>
[पृष्ठम्०४११+ २४]