| YouTube Channel

जेगीया (jegIyA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गास्तुतौ”@} 2 छान्दसः।
‘जनने च’ इति क्षीरस्वामी।
3 गायकः-यिका, 4 गापकः-पिका, जिगासकः-सिका, 5 जेगीयकः-यिका
गाता-त्री, गापयिता-त्री, जिगासिता-त्री, जेगीयिता-त्री
6 जिगत्-जिगतौ-जिगतः, गापयन्-न्ती, जिगासन्-न्ती
-- गास्यन्-न्ती-ती, गापयिष्यन्-न्ती-ती, जिगासिष्यन्-न्ती-ती
-- -- गापयमानः, गापयिष्यमाणः, -- जेगीयमानः, जेगीयिष्यमाणः
सुगाः-सुगौ-सुगाः
-- -- -- 7 गीतम्-तः-तवान्, गापितः, जिगासितः, जेगीयितः-तवान्
8 गायः, 9 देवगः, 10 प्रगः, 11 सुगावा, सुगामा, गापः, जिगासुः, 12 जागः
गातव्यम्, गापयितव्यम्, जिगासितव्यम्, जेगीयितव्यम्
गानीयम्, गापनीयम्, जिगासनीयम्, जेगीयनीयम्
13 14 गेयम्, गाप्यम्, जिगास्यम्, जेगीय्यम्
15 ईषद्गानः-दुर्गानः-सुगानः
-- -- गीयमानः, गाप्यमानः, जिगास्यमानः, जेगीय्यमानः
गायः, गापः, जिगासः, जेगीयः
गातुम्, गापयितुम्, जिगासितुम्, जेगीयितुम्
गीतिः, 16 सङ्गीतिः, गापना, जिगासा, जेगीया
गानम्, गापनम्, जिगासनम्, जेगीयनम्
गीत्वा, गापयित्वा, जिगासित्वा, जेगीयित्वा
सङ्गीय, सङ्गाप्य, सञ्जिगास्य, सञ्जेगीय्य
गायम् २, गीत्वा २, गापम् २, गापयित्वा २, जिगासम् २, जिगासित्वा २, जेगीयम्
जेगीयित्वा २।
प्रासङ्गिक्यः
01
=>
(३९२)
02
=>
(३-जुहोत्यादिः-११०६। सक। अनि। पर।)
03
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इत्यङ्गस्य युगागमः। एवं गायः इत्यादिषु।]]
04
=>
[[२। णौ परतः ‘अर्तिह्री--’ (७-३-३६) इत्यादिना आदन्तलक्षणः पुक्।]]
05
=>
[[३। ‘घुमास्थागापा--’ (६-४-६६) इति ईत्त्वे, द्विर्वचने ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः।]]
06
=>
[[४। जुहोत्यादित्वात् ‘श्लौ’ (६-१-१०) इति द्वित्वे, उत्तरखण्डे ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, अभ्यासस्य ‘बहुलं छन्दसि’ (७-४-७८) इति इत्वम्।]]
07
=>
[[५। ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इति ईत्त्वम्। एवं हलादिक्ङिति प्रत्यये परतः--गीतिः-गीत्वा-सङ्गीय-गीयमानः इत्यादिषु ईत्त्वं ज्ञेयम्।]]
08
=>
[[६। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना आदन्तलक्षणः णः प्रत्ययः कर्तरि।]]
09
=>
[[७। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति, कप्रत्ययः कर्मण्युपपदे। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। देवान् जिगाति = स्वौति इत्यर्थः।]]
10
=>
[[८। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कः प्रत्ययः। आकारलोपः।]]
11
=>
[[९। ‘आतो मनिन्क्वनिब्वनिपश्च’ (३-२-७४) इति वनिन्-मनिनौ प्रत्ययौ।]]
12
=>
[[१०। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते’ (परिभाषा-५२) इति न्यायेन ईत्त्वे न। द्वित्वं, अभ्यासदीर्घः। ‘यङोऽचि च’ (२-४-७४) इति लुक्।]]
13
=>
[पृष्ठम्०३८४+ २६]
14
=>
[[१। ‘अचो यत्’ (३-१-९७) इति यति, ‘ईद् यति’ (६-४-६५) इति ईत्त्वे गुणः।]]
15
=>
[[२। ईषदाद्युपपदेषु ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्।]]
16
=>
[[३। सोपसर्गेऽपि ‘स्थागापापचो भावे’ (३-३-९५) इति स्त्रियां भावादौ क्तिन्।]]
1 {@“गाङ् गतौ”@} 2 3 ‘गाते गाङो गतावर्थे, कै गै शब्देऽस्य गायति।’ 4 इति देवः।
5 गायकः-यिका, 6 गापकः-पिका, जिगासकः-सिका, 7 जेगीयकः-यिका
गाता-त्री, गापयिता-त्री, जिगासिता-त्री, जेगीयिता-त्री
-- गापयन्-न्ती, गापयिष्यन्-न्ती-ती
-- 8 गानः, गापयमानः, जिगासमानः, जेगीयमानः
गास्यमानः, गापयिष्यमाणः, जिगासिष्यमाणः, जेगीयिष्यमाणः
सुगाः-सुर्गौ-सुगाः
-- -- -- गीतम्-तः-तवान्, गापितः, जिगासितः, जेगीयितः-तवान्
9 गायः, सुगः, ग्रामगः, 10 सिंहगायी, गापः, जिगासुः, 11 जागाः
गातव्यम्, गापयितव्यम्, जिगासितव्यम्, जेगीयितव्यम्
गानीयम्, गापनीयम्, जिगासनीयम्, जेगीयनीयम्
गेयम्, गाप्यम्, जिगास्यम्, जेगीय्यम्
12 ईषद्गानः-दुर्गानः-सुगानः
-- -- गीयमानः, गाप्यमानः, जिगास्यमानः, जेगीय्यमानः
गायः, गापः, जिगासः, जेगीयः
गातुम्, गापयितुम्, जिगासितुम्, जेगीयितुम्
गीतिः- 13 सङ्गीतिः, गापना, जिगासा, जेगीया
गानम्, गापनम्, जिगासनम्, जेगीयनम्
गीत्वा, गापयित्वा, जिगासित्वा, जेगीयित्वा
प्रगीय, प्रगाप्य, प्रजिगास्य, प्रजेगीय्य
गायम् २, गीत्वा २, गापम् २, गापयित्वा २, जिगासम् २, जिगासित्वा २, जेगीयम्
जेगीयित्वा २।
प्रासङ्गिक्यः
01
=>
(३९३)
02
=>
(१-भ्वादिः-९५०। सक। अनि। आत्म।)
03
=>
[[* “-- ‘गापोष्टक्’ (३-२-८) इत्यत्र न्यास-पदमञ्जर्योः-- ‘अयं धातुरादादिकः।’ इति स्थितम्। शपि पाठे चास्य प्रयोजनं नास्ति। अस्माभिस्तु क्वापि पठितव्य इति मैत्रेयाद्यनुसारेण इह (भ्वादौ) पठितः।” इति माधवधातुवृत्तिः।]]
04
=>
(श्लो। ५)
05
=>
[[४। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्णमुलोरपि युक्।]]
06
=>
[[५। णौ, आदन्तलक्षणः पुगागमःसर्वत्र।]]
07
=>
[[६। ‘घुमास्थागापा--’ (६-४-६६) इतीत्त्वम्। एवं गीतम्-गीतिः--इत्यादौ ईत्वं ज्ञेयम्।]]
08
=>
[[७। शानचि शपि प्रत्यये सवर्णदीर्घे रूपपमेवम्। अदन्ताङ्गाभावान्मुगागमो न।]]
09
=>
[पृष्ठम्०३८५+ २७]
10
=>
[[१। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः।]]
11
=>
[[२। यङन्तादचि, द्वित्वे, अभ्यासस्य दीर्घे सति, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि रूपमेवं भवति।]]
12
=>
[[३। ईषदाद्युपपदेषु ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्।]]
13
=>
[[४। सोपसर्गेऽपि ‘स्थागापापचो भावे’ (३-३-९५) इति भावे क्तिन्।]]
1 {@“गै शब्दे”@} 2 ‘शब्दविशेषे’ इति क्षीरस्वामी।
“गाते गाङो गतावर्थे, कै गै शब्देऽस्य गायति।” 3 इति देवः।
4 गायकः-यिका, 5 गापकः-पिका, 6 जिगासकः-सिका, 7 जेगीयकः-यिका
गाता-त्री, गापयिता-त्री, जिगासिता-त्री, जेगीयिता-त्री
8 गायन्-न्ती, गापयन्-न्ती, जिगासन्-न्ती
-- गास्यन्-न्ती-ती, गापयिष्यन्-न्ती-ती, जिगासिष्यन्-न्ती-ती
-- गापयमानः, गापयिष्यमाणः, जेगीयमानः, जेगीयिष्यमाणः
सुगाः-सुगौ-सुगाः
-- -- -- 9 गीतम्-तः, उपगीतम्, गापितः, जिगासितः, जेगीयितः-तवान्
10 गायः, 11 गाथकः 12 -गाथिका, 13 गायनः 14 -गायनी, 15 गेयः, 16 सामसङ्गायः, 17 18 सामगः-सामगी, 19 सामगायी, 20 देवगायी, 21 छन्दोगः, 22 सुगः, गापः, जिगासुः, 23 जेग्यः
गातव्यम्, गापयितव्यम्, जिगासितव्यम्, जेगीयितव्यम्
24 प्रगानीयम्-प्रगाणीयम्, गापनीयम्, जिगासनीयम्, जेगीयनीयम्
गेयम्, गाप्यम्, जिगास्यम्, जेगीय्यम्
25 ईषद्गानः-दुर्गानः-सुगानः
-- -- -- गीयमानः, गाप्यमानः, जिगास्यमानः, जेगीय्यमानः
गायः, गापः, जिगासः, जेगीयः
गातुम्, गापयितुम्, जिगासितुम्, जेगीयितुम्
गीतिः, 26 प्रगीतिः, गापना, जिगासा, जेगीया
गानम्, गापनम्, जिगासनम्, जेगीयनम्
गीत्वा, गापयित्वा, जिगासित्वा, जेगीयित्वा
27 विगाय, विगाप्य, सञ्जिगास्य, सञ्जेगीय्य
गायम् २, गीत्वा २, गापम् २, गापयित्वा २, जिगासम् २, जिगासित्वा २, जेगीयम्
जेगीयित्वा
28 गातुः, 29 गाथा, 30 उद्गीथः।
31
प्रासङ्गिक्यः
01
=>
(४३२)
02
=>
(१-भ्वादिः-९१७। अक। अनि। पर।)
03
=>
(श्लो। ५)
04
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुलि ज्ञेयम्।]]
05
=>
[[२। आत्वे, ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इत्यादन्तलक्षणः पुगागमः। एवं सर्वत्र ण्यन्ते बोध्यम्।]]
06
=>
[[३। अनैमित्तिके आत्वे, द्वित्वे, अभ्यासस्य, ‘सन्यतः’ (७-४-७९) इतीत्वम्। एवं सर्वत्र सन्नन्ते बोध्यम्।]]
07
=>
[[४। ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इतीत्वे, अभ्यासस्य ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[[५। शतरि शित्परकत्वात् आत्वाभावे, आयादेशः।]]
09
=>
[[६। ‘घुमास्थागापा--’ (६-४-६६) इतीत्वम्। एवं क्त्वायां, क्तिनि, यकि ज्ञेयम्।]]
10
=>
[[७। ‘श्याद्व्यथाश्रु--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्ययः। वाऽसरूपन्यायेन णप्रत्ययोऽपि भवत्येव।]]
11
=>
[[८। ‘गस्थकन्’ (३-१-१४६) इति थकन्प्रत्ययः। स्त्रियां टापि, ‘प्रत्ययस्थात्--’ (७-३-४४) इतीत्वम्।]]
12
=>
[[आ। ‘वाताहतिचलच्छाखा नर्तका इव शाखिनः। दुःसहा ही परिक्षिप्ताः क्वणद्भिरलिगाथकैः।।’ भ। का। ६-८४।]]
13
=>
[[९। ‘ण्युट् च’ (३-१-१४७) इति ण्युट्। णित्त्वात् युगागमः। स्त्रियां टित्त्वात् ङीप्।]]
14
=>
[[B। ‘प्रादिदृक्षत नो नृत्यं नाशुश्रूषत गायनान्। रामं सुस्मूर्षमाणोऽसौ कपिर्विरहदुःखितम्।।’ भ। का। ८-३४।]]
15
=>
[[१०। ‘भव्यगेय--’ (३-४-६८) इत्यादिना कर्तरि यत्प्रत्ययः। ‘ईद्यति’ (६-४-६५) इतीत्वे गुणः। गेयो माणवकः साम्नाम्।]]
16
=>
[[११। ‘गापोष्टक्’ (३-२-८) इत्यत्र ‘अनुपसर्गे’ इत्युक्त्या, उपसर्गसमभिव्याहारे ‘कर्मण्यण्’ (३-२-१) इत्यणेव भवति।]]
17
=>
[पृष्ठम्०४२५+ २५]
18
=>
[[१। ‘गापोष्टक्’ (३-२-८) इति कर्मण्युपपदे टकूप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। स्त्रियाम्, ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्।]]
19
=>
[[२। ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिः। असकृत् साम गायन् एवमुच्यते।]]
20
=>
[[३। ‘साधुकारिण्युपसङ्ख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
21
=>
[[आ। ‘स्नसमाननाम्न्यवयवे नटद्गुणात् धनुषश्च्युतैः युधि देवगायिनाम्।’ चम्पूभारते ५-५२।]]
22
=>
[[४। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
23
=>
[[५। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि ‘एरनेकाचः--’ (६-४-८२) इति यण्।]]
24
=>
[[६। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
25
=>
[[७। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
26
=>
[[८। सोपसर्गेऽपि ‘स्थागापापचो भावे’ (३-३-९५) इति अङपवादः क्तिन् प्रत्ययः।]]
27
=>
[[९। ‘न ल्यपि’ (६-४-६९) इतीत्वनिषेधः।]]
28
=>
[[१०। ‘कमिमनिजनिगा--’ (द। उ। १-१२५) इति तुप्रत्यय। गातुः = गायकः।]]
29
=>
[[११। ‘उषिकुषिगर्त्तिभ्यः--’ (द। उ। ६-२९।) इति कर्मणि थन्प्रत्ययः। गाथा = वृत्तविशेषः।]]
30
=>
[[१२। ‘गश्चोदि’ (द। उ। ६-३५।) इति थक्प्रत्ययः। उद्गीयते इति उद्गीथः = साम।]]
31
=>
[पृष्ठम्०४२६+ २५]