| YouTube Channel

जॄष् (jRRS)

 
Shabdartha Kaustubha
Kannada
जॄष् - वयोहानौ (दिवा०पर० अक० से०) जीर्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಮುದಿಯಾಗು /ಮುದುಕನಾಗು /ವಯಸ್ಸನ್ನು ಕಳೆ /ಜೀವಿತಕಾಲವನ್ನು ಕಳೆದುಕೊ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जॄ
मूलधातुः:
जॄष्
धात्वर्थः:
वयोहानौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
जीर्यति
धातुप्रदीपः
Sanskrit
जॄष्
मानकरूपान्तरम् - झॄष्
झॄष् वयोहानौ
- जीर्य्यति जजार जजरतुः जेरतुः जरिता जरीता अजरत् अजारीत् जिजरिषति जिजरीषति जिजीर्षति जरा जीर्णम् जरित्वा जरीत्वा जर्जरः झीर्य्यति झरः निर्झरः झर्झरः झरा 24, 25
क्षीरतरङ्गिणी
Sanskrit
जॄष्
मानकरूपान्तरम् - झॄष्
झॄष् वयोहानौ
- इतश्चत्वारः सेटः जीर्यति जरा (द्र0 33104) वा जॄभ्रमुत्रसाम् (64124) इत्येत्वाभ्यासलोपौ वा-जजरु, जेरुः जॄस्तन्भु (तु0 3158) इति वाङ्-अजरत् अजारीत् वॄतो वा (7238) इतीटो दीर्घो वा-जरिता जरीता इट् सनि वा (7241)जिजीर्षति जिजरिषति जिजरीषति लिङ्सिचोरात्मनेपदेषु (7242) वेट्-जर्षीष्ट जरिषीष्ट, लिङि (7239) दीर्घः अजीर्ष्ट, अजरिष्ट, अजरीष्ट जनीजॄष् (1554) इति मित्-जरयति अजर्यं संगतम् (31105) कुमि जीर्यति-कुञ्जरः, अच् (द्र0 31134) गत्यर्थाकर्मक (3462) इति क्तः-अनुजीर्णो वृषलीं चैत्रः जीर्यतेरतृन् (32104)-जरन्, जरती दारजारौ कर्तरि णिलुक् (3320 वा0) घञ्-जारः जॄव्रश्च्योः क्त्वि (7255) इतीट्-जरित्वा जरीत्वा जर्जरः-यङ्लुक्यच् (द्र0 31134) जॄविशिभ्यां झच् (3126)-जरन्तो महिषः क्र्य्यादौ जॄ वयोहानौ (923)-जृणाति झीर्यति झर्झरः झरः, निर्झरः झर्झरीकः 22, 23
धातुवृत्तिः
Sanskrit
जॄष्
मानकरूपान्तरम् - झॄष्
झॄष् (अर्थः) वयोहानौ
( जीर्यति, जीर्यतः ) "ॠत इद्धातोः'' इतीत्वे रपरत्वे "हलि च'' इति दीर्घः (जजार, जजरतुः, जजरुः, जजरिथ, जजरथुः, जजार, जजर, जजरिव, ) "ऋच्छत्यॄताम्'' इति किति गुणः अकिति तु यथायोर्गे पूर्वविप्रतिषेधेन गुणवृद्धी अस्तु वा तत्रापि "ऋच्छति'' इति गुणः कृते तस्मिन् वृद्धिस्तु "अत उपधाया'' इति भविष्यति गुणे तु तेन वा सत्यनेन वापि विशेषः "वा जॄभ्रमुत्रसाम्'' इत्येत्वाभ्यासलोपपक्षे ( जेरतुः, जेरुः, जेरिथ, जेरथुः, जेर, जेरिव जरिता, जरीता जरिष्यति, जरीष्यति ) "वृतो वा'' इत्यलिटो वा दीर्घः ( जीर्यतु अजीर्यत्, जीर्येत्, जीर्यात् ) लिङौ ( अजारीत्, अजारिष्टां, ) "वॄत'' इत्यस्य "सिचि परस्मैपदेषु'' इति निषेधः ( अजरत्, अजरतां, ) "जॄस्तम्भव'' इति पक्षे च्लेर्वाऽङ् "ऋदृशोऽङि'' इति गुणः ( जिजीर्षति, जिजरिषति, जिजरीषति, ) "इट् सनि वा'' इति वेट् तस्य "वृत'' इति वा दीर्घः अनिटि मनः कित्वादित्वदीर्घयोर्द्विर्वचनम्, अन्यथा यङि जेजीर्यत इति स्यात् ( जरयति, अजीजरत्, )"जनिजॄष्'' इति मित्वाद् ह्रस्वः ( जीर्यन् जीर्यन्ती, ) "शप्श्यनोः'' इति नित्यं नुम् ( जरन्, जरती ) इत्येतत् "जीर्यतेरतृन्'' इति जीर्यतेरतृनि ( जरद्गवः ) "पूर्वकाल'' इति समासः "गोरतद्धितलुकि'' इति टच्, ( युवजरती ) "युवा खलती'' इत्यत्र लिङ्गविशिष्टग्रहणाद् युवतिशब्देन समासे पुंवद्भावः ( अजर्यम् ) "अजर्यं सङ्गतम्'' इति कर्तरि सङ्गते यद् निपात्यते, असङ्गते तु ( अजरिता ) कम्बलः ( जरा ) षित्वादङि "ऋदृश'' इति गुणः ( जरे, जरसौ, ) "जराया जरसन्यतरस्याम्'' इत्यादौ सुपि वा जरसादेशः जरामतिक्रान्तं ब्राह्मणकुलं अतिक्रान्तेः कुलैरिति विगृह्य "अत्यादयः क्रान्ताद्यर्थे द्वितीयया'' इति समस्य नपुंसकह्रस्वत्वे सोरम्भावे भिसश्चैसि सन्निपातपरिभाषाया अनित्यत्वाश्रयेणोस्याजादित्वमाश्रित्य जरसादेशो ऽतिजरसमतिजरसैरिति भाव्यम् तथा टाङस्योरपि जरसादेशात्पूर्वं इनादादेशयोः पश्चाज्जरसादेशे ऽतिजरसिना ऽतिजरसादिति केचित् तेषामतिजरसं ब्राह्मणकुलं पश्येत्यत्र अमो लुकं बाधित्वा ऽम्भावे प्राप्ते, ततः परत्वाज्जरसादेशे तदाश्रयस्य लुको प्रवृत्तिः, सन्निपातपरिभाषाया अनित्यत्वादिति वाच्यम् गोनर्दीयस्तु सर्वत्र परिभाषाप्रवृत्तेस्सोरमि भिसश्चैसि टाङ्स्योरिनादादेशयोश्च जरसादेशाभावाद् (अतिजरमतिजरैः, अतिजरेण, अतिजराद् ) इत्याह ( अतिजरांसि ) इत्यत्र जश्शसोश्शीभावे नुमः परत्वाज्जरसादेशे पश्चाज्झलन्तादेशाश्रयो नुम्, अन्यथाऽङ्गभक्तो नुम् तदवयवस्य जरशब्दस्य विभक्तेश्च आनन्तर्यं व्यवदध्यात् अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृषली देवदत्तेन "गत्यर्थाकर्मक'' इत्यादिना कर्तृकर्मणोः क्तः "श्र्युकः किति'' इति "यस्य विभाषा'' इति वा ऽनिट्त्वम् जरयतीति ( जारः ) "दारजारौ कर्तरि णिलुक्च'' इति कर्तरि घञि णिलुक् यद्यत्र णेर्घञि "णेरनिटि'' इति लोपस्स्यात्, तर्हि तस्य स्थानिवत्त्वाद् अनुपधात्वादकारस्य घञाश्रया वृद्धिर्न स्यात् मित्त्वाण्णिजपेक्षायास्तु वृद्धेर्ह्रस्वःस्यात् लुकि तु लुका लुप्तत्वात् [ लुका लुप्तं स्थानिवत् ] इति स्थानिवत्त्वनिषेधः अयमषित् क्र्यादौ युजादौ चेति मैत्रेयादयः अत्रात्रेयः किञ्चिदाह "जॄवृश्चयोः कित्वः'' इतीड्विधौ सानुबन्धकत्वादस्याग्रहणात् "श्र्युकः किति'' इति निषेधे जीर्त्वेति भवितव्यमिति स्वयमेव सानुबन्धकत्वेऽपि "जॄस्तम्भु'' इत्यङि ग्रहणं चाह एवं नियमे कारणं प्रष्टव्यः योऽसौ निरनुबन्धकस्स वृत्तितद्व्याख्यानकृतामनभिमतः यदि हि स्यादङादिविधौ निरनुबन्धकमेवोपाददीरन् अग्रहणे कारणं वा बूयुः किञ्च "दारजादौ कर्तरि णिलुक्च'' इति णिलुग्वचनं चानर्थकं स्यात् यतः षित्त्वेनामितोऽस्माण्णौ कर्तरि घञि णेश्च लोपे प्रत्ययलक्षणेन वृद्धिर्भविष्यति तथाच क्र्यादौ मैत्रेयो वक्ष्यति जृणातिं पठित्वा "धृ इत्येके' इति ( जरन्तः ) "जॄविशिभ्यां झच्'' इति झच् "झोऽन्तः'' ( झीर्यति ) इत्यादि जीर्यतिवत् च्लेरङेत्वाभ्यासलोपमित्वाद्यस्य भवति ( झरः, निर्झरः, ) अप्, ( झर्झरः ) औणादिक इत्यात्रेयः वाद्यविशेषः झर्झरवादनं शिल्पमस्य ( झार्झरः ) झार्झरिकः ) "मड्डुकझर्झरादणन्यतरस्याम्'' इत्यण्ठकौ दिवादयः परस्मैभाषा उदात्ताः क्षिपिवर्जम् 22 23
कृदन्तरूपमाला
Sanskrit
1 {@“जॄष् वयोहानौ”@} 2 ‘जृणाति, जीर्यति, जरत्येकार्थे जारयत्यपि।’ 3 इति देवः।
धातोरस्य सन्नन्तात्, यङन्ताच्च सर्वाणि रूपाणि जृणातिवत् 4 बोध्यानि।
शुद्धधातौ जायमानानां कार्याणां प्रमाणमपि तत्रैव प्रतिपादितमिति तत एव ज्ञेयम्।
जारकः-रिका, 5 जरकः-रिका
जरीता-जरिता-त्री जरयिता-त्री
6 जीर्यन्-न्ती, जरयन्-न्ती
जरीष्यन्-जरिष्यन्-न्ती-ती, जरयिष्यन्-न्ती-ती
7 -- जरयमाणः, जरीष्यमाणः
जीः-जिरौ-जिरः
-- 8 अनुजीर्णः, जीर्णः-जीर्णम् 9 -जीर्णवान्, जरितः-तवान्
जरः, 10 जरन् 11, जरः
जरीतव्यम्-जरितव्यम्, जरयितव्यम्
जरणीयम्, जरणियम्
12 अजर्यम् 13 14 जार्यम्, जर्यम्
ईषज्जरः-दुर्जरः-सुजरः
-- जीर्यमाणः, जर्यमाणः
जारः, 15 जारः
जरीतुम्-जरितुम्, जरयितुम्
16 जरा, 17 जरणा
जरणम्, जरणम्
जरीत्वा-जरित्वा, जरयित्वा
प्रजीर्य, 18 प्रजरय्य
जारम् जरीत्वा -जरित्वा 19 जरम् -जारम्
जरयित्वा २। 20
प्रासङ्गिक्यः
01
=>
(६२०)
02
=>
(४-दिवादिः-११३०। अक। सेट्। पर।)
03
=>
(श्लो। ३९)
04
=>
(६१८)
05
=>
[[१। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादौ) इति मित्त्वम्। तेन, ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाया ह्रस्वो भवति। एवं सर्वत्र ण्यन्ते बोध्यम्।]]
06
=>
[[२। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। इत्वे रपरत्वे च, ‘हलि च’ (८-२-७७) इति दीर्घः। स्त्रियां ‘शपूश्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुमागमः।]]
07
=>
[पृष्ठम्०५८६+ २५]
08
=>
[[१। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च’ (३-४-७२) इत्यनेन ‘अनुजीर्णो वृषलीं देवदत्तः’ इत्यत्र कर्तरि क्तप्रत्ययो भवति।]]
09
=>
[[आ। ‘देहि प्रभोः प्रेष्य सुसोहनाय मे जीर्णांशुकायः त्वमझीर्णमंशुकम्।।’ धा। का। २। ५७।]]
10
=>
[[२। ‘जीर्यतेरतृन्’ (३-२-१०४) इति ताच्छीलिक अतृन् प्रत्ययः।]]
11
=>
[[B। ‘यज्वभिः सुत्वभिः पूर्वैर्जरद्भिश्च कपीश्वर।।’ भ। का। ६। १३४।]]
12
=>
[[३। ‘अजर्यं सङ्गतम्’ (३-१-१०५) इति सूत्रेण नञुपसृष्टादस्माद्धातोः सङ्गतं चोद्विशेष्यं, कर्तरि यत् प्रत्ययो निपात्यते। अन्यत्र ‘ऋहलोः--’ (३-१-१२४) इति ण्यति जार्यम् इत्यपि भवति।]]
13
=>
[[C। ‘तेन सङ्गतमार्येण रामाजर्यं कुरुद्रुतम्।’ भ। का। ६। ५४।]]
14
=>
(सङ्गतम्)
15
=>
[[४। ‘दारजारौ कर्तरि, णिलुक् च, (वा। ३-३-२०) इति ण्यन्तात् कर्तरि घञि णिलुकि, घञ्निमित्तिकोपधावृद्धिः। ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वस्तु नात्र प्रवर्तते
\n\n णेर्लुका लुप्तत्वेन स्थानिवत्त्वाभावात्। ‘जरयति = सुरतैः ग्लपयति इति जारः = उपपतिः।’ इति प्रक्रियासर्वस्वे।]]
16
=>
[[५। षित्त्वेन, ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इत्याङि, ‘ऋदृशोऽङि गुणः’ (७-४-१६) इति गुणः।]]
17
=>
[[ड्। ‘तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना।।’ रघुबंशे--१। २३।]]
18
=>
[[६। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
19
=>
[[७। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ उपधायाः दीर्घविकल्पः।]]
20
=>
[पृष्ठम्०५८७+ २५]