| YouTube Channel

जृणन्-ती (jRNan-tI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जॄ वयोहानौ”@} 2 प्वादिः, ल्वादिश्च।
‘जृणाति जीर्यति जरत्येकार्थे जारयत्यपि।’ 3 इति देवः।
दिवादौ ‘जॄष् वयोहानौ’, क्र्यादौ चुरादौ ‘जॄ वयोहानौ’ इति समानार्थास्त्रयो धातवः पठ्यन्ते।
त्रयोऽप्येते प्रामाणिका इति प्रतिभाति।
अत एव, देवश्लोके 4 त्रयाणामनुवादः सङ्गच्छते।
मैत्रेयरक्षितक्षीर- स्वामिनावपि एवमभ्युपगमेऽनुकूलौ।
अत एव सिद्धान्तकौमुद्याम्, ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ 5 इत्यत्र, ‘षित्त्वनिर्देशाज्जीर्यते- र्ग्रहणम्, जृणातेस्तु जारयति’ इत्युक्तं सङ्गच्छते।
एवमभ्युपगमे ‘निरनु- बन्धकग्रहणे सानुबन्धकस्य’ 6 इति वचनेन, ‘जॄस्तम्भु--’ 7 इत्यादिषु जीर्यतेरग्रहणं स्यादिति तु शङ्क्यम्।
‘ज्ञापक- सिद्धं सर्वत्र’ 8 इति न्यायेन तस्यापि ग्रहणसिद्धेः।
षितो जीर्यतेः जरकः, जरयन्, जरा, जरीत्वा-जरित्वा, जरम् -जारम् २, इत्यादीनि रूपाणि भवन्ति।
जृणातेस्तु जारकः, जारयन्, जीर्णिः, जरीत्वा-जरित्वा, जारम् २, इत्यादीनि रूपाणि भवन्ति, इति विशेषः।
चौरादिकस्य जारयतेराधृषीयत्वेन, णिजभावपक्षे क्रैयादिकघातुवत् सर्वाण्यपि रूपाणि भवन्ति।
शतरि तु जरन् इति विशेषः।
माधवीयधातुवृत्तौ तु, भाष्यवार्तिकवृत्तिन्यासपदमञ्जर्यादिपर्यालोचनायां जृणातेः पाठोऽप्रामा- णिक इत्युक्तम्।
तदुपष्टम्भकवृत्तिन्यासादिग्रन्थस्यानुपलम्भेन सुधियस्तत्त्वमत्र निर्णयन्तु।
‘दारजारौ कर्तरि, णिलुक् च’ 9 इत्यत्रोद्योते ‘ननु जृणातिरपि क्र्यादौ पठ्यते
अत एव तद्व्यावृत्तये ‘जनीजॄष्--’ 10 इत्यत्र षकारोच्चारणम्।
एवञ्च तस्यामित्त्वेन तस्माद् घञि णिलोपे- नापि सिद्धे जारयतीति चेन्न--मितो जर इति रूपव्यावृत्त्यर्थत्वात्।’ इति नागेशोपाध्यायानामुक्तिः जृणातेरभ्युपगमेऽनुकूला दृश्यते।
11 जारकः-रिका, 12 जारकः-रिका, 13 जिजरीषकः-जिजरिषकः-जिजीर्षकः-र्षिका, 14 जेजिरकः-रिका
15 जरीता-जरिता-त्री, जारयिता-त्री, जिजरीषिता-जिजरिषिता-जिजीर्षिता-त्री, जेजिरिता-त्री
16 जृणन् 17 -ती, जारयन्-न्ती, जिजरीषन्-जिजरिषन्-जिजीर्षन्-न्ती
-- जरीष्यन्-जरिष्यन्-न्ती-ती, जारयिष्यन्-न्ती-ती, जिजरीषिष्यन्-जिजरि-षिष्यन्-जिजीर्षिष्यन्-न्ती-ती
-- -- जारयमाणः, जारयिष्यमाणः, -- 18 जेजीर्यमाणः
जेजिरिष्यमाणः
19 जीः-जिरौ-जिरः
-- -- -- 20 जीर्णम्-जीर्णः-जीर्णवान्, जारितः, जिजरीषितः-जिजरिषितः-जिजीर्षितः
जेजिरितः-तवान्
21 जरः, 22 जजीर्वान्-जेरिवान्, जारः, जिजरीषुः-जिजरिषुः-जिजीर्षुः, जेजिरः
जरीतव्यम्-जरितव्यम्, जारयितव्यम्, जिजरीषितव्यम्-जिजरिषितव्यम्-जिजीर्षितव्यम्, जेजिरितव्यम्
जरणीयम्, जारणीयम्, जिजरीषणीयम्-जिजरिषणीयम्-जिजीर्षणीयम्-जेजिरणीयम्
जार्यम्, जार्यम्, जिजरीष्यम्-जिजरिष्यम्-जिजीर्ष्यम्, जेजीर्यम्
ईषज्जरः-दुर्जरः-सुजरः
-- -- -- 23 जीर्यमाणः, जार्यमाणः, जिजरीष्यमाणः-जिजरिष्यमाणः-जिजीर्ष्यमाणः
जेजीर्यमाणः, जारः, जारः, जिजरीषः-जिजरिषः-जिजीर्षः, जेजिरः
जरीतुम्-जरितुम्, जारयितुम्, जिजरीषितुम्-जिजरिषितुम्-जिजीर्षितुम्, जेजिरितुम्
24 जीर्णिः, जारणा, जिजरीषा-जिजरिषा-जिजीर्षा, जेजिरा
जरणम्, जारणम्, जिजरीषणम्-जिजरिषणम्-जिजीर्षणम्, जेजिरणम्
25 जरीत्वा- 26 जरित्वा, जारयित्वा, जिजरीषित्वा-जिजरिषित्वा-जिजीर्षित्वा, जेजिरित्वा
प्रजीर्य, प्रजार्य, प्रजिजरीष्य-प्रजिजरिष्य-प्रजिजीर्ष्य, प्रजेजीर्य
जारम् जरीत्वा जरित्वा जारम् जारयित्वा जिजरीषम् जिजरिषम् जिजीर्षम् जिजरीषित्वा जिजरिषित्वा जिजीर्षित्वा जेजिरम्
जेजिरित्वा २। 27
प्रासङ्गिक्यः
01
=>
(६१८)
02
=>
(९-क्र्यादिः-१४९४। अक। सेट्। पर।)
03
=>
(श्लो। ३९)
04
=>
(३९)
05
=>
(ग। सू। भ्वादिः)
06
=>
(परिभाषा-८२)
07
=>
(३-१-५८)
08
=>
(परिभाषा-१२६)
09
=>
(वा। ३-३-२०)
10
=>
(ग। सू। भ्वादौ)
11
=>
[पृष्ठम्०५८३+ २२]
12
=>
[[१। ‘जनीजॄष्--’ (ग। सू। भ्वादौ) इत्यत्र षित्करणेनास्य मित्संज्ञाभावात् ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाह्रस्वो न। एवं ण्यन्ते सर्वत्र बोध्यम्।]]
13
=>
[[२। ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पः। इडभावपक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वेन गुणाभावे ‘ऋत इद्धातोः’ (७-१-१००) इतीत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे रूपम्। एवं सन्नन्ते सवर्त्र रूपत्रयं बोध्यम्।]]
14
=>
[[३। यङि ‘ॠत इद्धातोः’ (७-१-१००) इतीत्त्वे, द्वित्वे, अभ्यासगुणेच, यकाराकार- योर्लोपे रूपमेवं भवति। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
15
=>
[[४। ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पः।]]
16
=>
[[५। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति णत्वे, ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपम्।]]
17
=>
[[आ। ‘त्वामेष सम्प्रति मृणामि दृणामि नागं नो चेज्जृणत्तम नरानकृणन्नृणीहि।।’ धा। का। ३। ७।]]
18
=>
[[६। इत्वे रपरत्वे ‘हलि च’ (८-२-७७) इति दीर्घे रूपम्। एवम्, यकि, यति, ल्यपि दीर्घो बोध्यः।]]
19
=>
[[७। क्विपि, इत्वे रपरत्वे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः।]]
20
=>
[[८। ‘श्रयुकः क्किति’ (७-२-११) इति इण्णिषेधः। इत्वरपरत्वयोः, ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठानत्वे, णत्वे रूपम्।]]
21
=>
[पृष्ठम्०५८४+ १८]
22
=>
[[१। ‘छान्दसः क्वसुः क्वचिद् भाषायां भवति।’ इति न्यायेन लिटः क्वस्वादेशे द्वित्वे, ‘वा जॄभ्रमुत्रसाम्’ (६-४-१२४) इत्येत्वाभ्यासलोपविकल्पे रूपद्वयं भवति।]]
23
=>
[[२। भावे यकि इत्वरपरत्वयोः ‘हलि च’ (८-२-७७) इति दीर्घे णत्वे रूपम्।]]
24
=>
[[३। ‘ऋल्वादिभ्यः क्तिन् निष्ठावद्वाच्यः’ (वा। ८-२-४२) इति क्तिनस्तकारस्य नत्वे णत्वे रूपम्।]]
25
=>
[[४। ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधे प्राप्ते, ‘जॄव्रश्च्योः क्त्व’ (७-२-५५) इति नित्यमिट्। दीर्घविकल्पः।]]
26
=>
[[आ। ‘जरित्वेव जवेनान्ये निपेतुस्तस्य शाखिनः।’ भ। का। ९। ४१।]]
27
=>
[पृष्ठम्०५८५+ २६]