| YouTube Channel

जुष्टिः (juSTiH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जुष परितर्कणे”@} 2 आधृषीयः।
‘परितर्कणम् = ऊहो हिंसा वा’ इति।
सि।
कौमुदी।
परितर्पणे इति क्षीरस्वामी।
परितर्पणम् = तृप्तिक्रिया।
‘जोषयेज्जोषतीत्येते युजादेः परितर्कणे।।
प्रीतिसेवनयोरिष्टं तुदादेर्जुषते पदम्’।
3 इति देवः।
4 जोषकः-षिका, जुजोषयिषकः-षिका, 5 जोषकः-षिका, 6 जुजोषिषकः-जुजुषिषकः-षिका, जोजुषकः-षिका
-- जोषयिता-त्री, जुजोषयिषिता-त्री, जोषिता-त्री, जुजोषिषिता-जुजुषिषिता-त्री, जोजुषिता-त्री
जोषयन्-न्ती, जुजोषयिषन्-न्ती, 7 जोषन्-न्ती, जुजोषिषन्-जुजुषिषन्-न्ती
जोषयिष्यन्-न्ती-ती, जुजोषयिषिष्यन्-न्ती-ती, जोषिष्यन्-न्ती-ती, जुजोषि-षिष्यन्-जुजुषिषिष्यन्-न्ती-ती
-- जोषयमाणः, जुजोषयिषमाणः, -- जोजुष्यमाणः
जोषयिष्यमाणः, जुजोषयिषिष्यमाणः-जोजुषिष्यमाणः
8 जोट्-जोड्-जोषौ-जोषः
-- -- जोषितः, जुजोषयिषितः, जुषितः- 9 जुषितवान्, जुजोषिषितः-जुजुषिषितः, जोजुषितः-तवान्
जोषः, जुजोषयिषुः, जोषः, जुजोषिषुः-जुजुषिषुः, जोजुषः
जोषयितव्यम्, जुजोषयिषितव्यम्, जोषितव्यम्, जुजोषिषितव्यम्-जुजुषिषितव्यम्, जोजुषितव्यम्
जोषणीयम्, जुजोषयिषणीयम्, जोषणीयम्, जुजोषिषणीयम्-जुजुषिषणीयम्, जोजुषणीयम्
जोष्यम्, जुजोषयिष्यम्, जोष्यम्, जुजोषिष्यम्-जुजुषिष्यम्, जोजुष्यम्
ईषज्जोषः-दुर्जोषः-सुजोषः
-- -- 10 जोष्यमाणः, जुजोषयिष्यमाणः, जुष्यमाणः, जुजोषिष्यमाणः-जुजुषिष्य-माणः, जोजुष्यमाणः
जोषः, जुजोषयिषः, जोषः, जुजोषिषः-जुजुषिषः, जोजुषः
जोषयितुम्, जुजोषयिषितुम्, जोषितुम्, जुजोषिषितुम्-जुजुषिषितुम्-जुजुषिषितुम्-जोजुषितुम्
जोषणा, जुजोषयिषा, जुष्टिः, जुजोषिषा-जुजुषिषा, जोजुषा
जोषणम्, जुजोषयिषणम्, जोषणम्, जुजोषिषणम्-जुजुषिषणम्, जोजुषणम्
जोषयित्वा, जुजोषयिषित्वा, जोषित्वा-जुषित्वा, जुजोषिषित्वा-जुजुषि-षित्वा, जोजुषित्वा
सञ्जोष्य, सञ्जुजोषयिष्य, सञ्जुष्य, सञ्जुजोषिष्य-सञ्जुजुषिष्य, सञ्जोजुष्य
जोषम् २, जोषयित्वा २, जुजोषयिषम् २, जुजोषयिषित्वा २, जोषम२, जोषित्वा २, जुषित्वा २, जुजोषिषम् २, जुजोषिषित्वा २, जुजुषिषि २, जुजुषिषित्वा जोजुषम्
जोजुषित्वा २।
प्रासङ्गिक्यः
01
=>
(६१३)
02
=>
(१०-चुरादिः-१८३५। सक। सेट्। उभ।)
03
=>
(श्लो। १८०-१८१)
04
=>
[पृष्ठम्०५७९+ २२]
05
=>
[[१। ‘आधृषाद्वा’ (ग। सू। चुरादौ) इति णिज्विकल्पः। तेन णिजभावपक्षे क्रमेण शुद्धात्, शुद्धप्रकृतिकसन्नन्तात् यङन्ताच्च रूपाणि प्रदर्शितानि।]]
06
=>
[[२। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपद्वयम्। एवं क्त्वाप्रत्ययेऽपि बोध्यम्।]]
07
=>
[[३। णिजभावपक्षे ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदमेव। तेन शुद्धाद्धातोः शानज् न।]]
08
=>
[[४। क्विपि णिज्निमित्तक उपधागुणे कृते, ‘झलां जशोऽन्ते’ (८-२-३९) इति जश्त्वे चर्त्वविकल्पः।]]
09
=>
[[आ। ‘मल्लोऽर्द्यः हिंसितः पदमुपासात्सीद्धरेः शुन्धितः तावत् स्वं बलमच्छदन् जुषितवान् मुष्ट्या हली मुष्टिकम्।।’ धा। का। ३। ५०।]]
10
=>
[पृष्ठम्०५८०+ १८]