| YouTube Channel

जुषी (juSI)

 
Shabdartha Kaustubha
Kannada
जुषी - प्रीतिसेवनयोः (तुदा० आत्म० हर्षे अक० सेवायां सक० से०) जुषते
पदविभागः - > धातुः
कन्नडार्थः - > ಸಂತೋಷಪಡು /ತೃಪ್ತಿ ಹೊಂದು /ಪ್ರೀತಿಸು
जुषी - प्रीतिसेवनयोः (तुदा० आत्म० हर्षे अक० सेवायां सक० से०) जुषते
पदविभागः - > धातुः
कन्नडार्थः - > ಸೇವಿಸು /ಆರಾಧಿಸು
जुषी - प्रीतिसेवनयोः (तुदा० आत्म० हर्षे अक० सेवायां सक० से०) जुषते
पदविभागः - > धातुः
कन्नडार्थः - > ಅನುಭವಿಸು /ಈಡಾಗು /ಒಳಗಾಗು
प्रयोगाः - > "पश्यन् जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम्"
उल्लेखाः - > भाग० २-२-७
जुषी - प्रीतिसेवनयोः (तुदा० आत्म० हर्षे अक० सेवायां सक० से०) जुषते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಂದು /ಪಡೆ
प्रयोगाः - > "उष्णीषं मुमुचे चारु रथं जुजुषे शुभम्"
उल्लेखाः - > भट्टि० १४-९५
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जुष्
मूलधातुः:
जुषी
धात्वर्थः:
प्रीतिसेवनयोः
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
जुषते
धातुप्रदीपः
Sanskrit
जुषीँ जुषी प्रीति, सेवनयोः
- जुषते जुजुषे जोषिता जोजुष्यते जुजुषिषते जुजोषिषते जुष्टः जुष्यः सजूः सजुषौ सजुषः 8
क्षीरतरङ्गिणी
Sanskrit
जुषीँ जुषी प्रीति, सेवनयोः
- इतश्चत्वारः सेट आत्मनेपदिनश्च जुषते जोषिता जोषित्वा जुषित्वा (द्र0 1226) ईदित्वात् (द्र0 7214) जुष्टः एतिस्तुशास्वृ (31109) इति क्यप्-जुष्यः सह जुषत इति सजूः 8
धातुवृत्तिः
Sanskrit
जुषीँ जुषी (अर्थः) प्रीति, सेवनयोः
जुषते जुजुषे जुजुषिषे जोषिता जोषिष्यते जुषताम् अजुषत जुषेत जोषिषीष्ट अजोषिष्ट अजोषिषाताम् जुजुषिषते जुजोषिषते जुषित्वा जोषित्वा ) "रलोव्युपधात्'' इति कित्त्वविकल्पः (जोजुष्यते जोजोष्टि जोषयति अजूजुषत् जुष्यः ) "एतिस्तु''इत्यादिना क्यप् ( जुष्टः जुष्टवान् ) ईदित्त्वादनिट्त्वम् ( सजूः सजुषौ सजुषः ) सम्पदादित्वात् क्विप् क्विबन्तस्य सहशब्देन बहुव्रीहौ "वोपसर्जनस्य'' इति सभावः "ससजुषोः'' इति रुत्वे "र्वोरुपधायाः'' इति दीर्घः विद्यमानप्रीतिरित्यर्थः यस्तु सहार्थे रूढः सजूःशब्दस्तस्य "सजूः सहार्थे'' इत्यूर्यादिपाठाद्गतित्वनिपातत्वयोः "कुगतिप्रादयः'' इति समासे ल्यपि (सजूःकृत्य) इति भवति सजूरित्येकवचनान्तस्य पाठात् द्विवचनबहुवचनान्तयोर्न गतित्वं नापि निपातत्वमित्यात्रेयः द्विवचनबहुवचनान्तयोः सहार्थे वृत्त्यभावादेव गतित्वं निपातत्वं भविष्यतीति यत्किंचिदेतत् रूढत्वादेव ह्यमोघान्यासे सजूःकृत्य सहकृत्येत्यर्थ इत्युक्त्वा जुषतेर्जरतेर्वा क्विपि समानास्य सभाव इति व्युत्पत्तेरनियमो दर्शितः ( जोषम् ) इति स्वरादिपाठाद् घञि मान्तत्वं, स्वभावात्क्रियाविषयः 8
कृदन्तरूपमाला
Sanskrit
1 {@“जुषी प्रीतिसेवनयोः”@} 2 ‘जोषयेज्जोषतीत्येते युजादेः परितर्कणे।।
प्रीतिसेवनयोरिष्टं तुदादेर्जुषते पदम्।’ 3 इति देवः।
जोषकः-षिका, जोषकः-षिका, जुजोषिषकः-जुजुषिषकः जोजुषकः-षिका
जोषिता-त्री, जोषयिता-त्री, जुजोषिषिता-जुजुषिषिता-त्री, जोजुषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि शुद्धधातौ ण्यन्त-सन्नन्त-यङन्तेषु च, अव्यवहित- पूर्वलिखितजुषधातुवत् 4 बोध्यानि।
अस्य ईदित्त्वात् ‘श्वीदितो निष्ठा- याम्’ 5 इति इण्णिषेधे जुष्टम्-ष्टः-जुष्टवान्, इति रूपाणि भवन्ति।
अस्य आत्मनेपदित्वात् शानचि--जुषमाणः-जोषिष्यमाणः, सन्नन्तात्-जुजोषिष- माणः-जुजुषिषमाणः, जुजोषिषिष्यमाणः-जुजुषिषिष्यमाणः, इत्यादीनि रूपाणि 6 भवन्तीति विशेषः।
घञन्तस्य जोषशब्दस्य मान्तत्वेन स्वरादिषु पाठादव्य- यत्वं बोध्यम्।
7 जुष्यः इति ‘एतिस्तुशास्व्र्दृजुषः क्यप्’ 8 इति क्यपि रूपम्।
क्विपि, सह जुषते इति सजूः-सजुषौ-सजुषः।
‘ससजुषो रुः’ 9 इति रुत्वे, ‘र्वोरुपधाया दीर्घ इकः’ 10 इति दीर्घे विसर्गः।
प्रासङ्गिक्यः
01
=>
(६१४)
02
=>
(६-तुदादिः-१२८८। सक। सेट्। आत्म।)
03
=>
(श्लो। १८०-१८१)
04
=>
(६१३)
05
=>
(७-२-१४)
06
=>
[पृष्ठम्०५८१+ २५]
07
=>
[[आ। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः।’ भ। का ६। ५६।]]
08
=>
(३-१-१०९)
09
=>
(८-२-६६)
10
=>
(८-२-७६)