| YouTube Channel

जुघोषयिषा (jughoSayiSA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घुषिर् विशब्दने”@} 2 इत्यत्र अविशब्दनाल्लिङ्गात् णिचो वैकल्पि- कत्वं बोधितम्।
इरित्करणं प्रामाणिकं चेत् तत एव णिचो बैकल्पिकत्वं बोध्येत, तथा तु कृतम्।
एवं ‘घुषिः विशब्दने’ इति इका निर्देश एव उचितः।]] ‘घुषेर्विशब्दनादौ णौ घोषयत्यविशब्दने।।
घोषतीतीदितो घुंषेद् घुंषते कान्तिकर्मणि।’ 3 इति देवः।
अस्य धातोः णिच् वैकल्पिकः।
अत एव ‘घुषिरविशब्दने’ 4 इति सूत्रे अस्य धातोः निष्ठायां इण्णिषेधवारणाय क्रियमाणम् अविशब्दने इति पदं सार्थकम्, अस्य घातोः नित्यणिजन्तत्वे निष्ठायाः, धातोः अव्यवहितपरत्वाभावेन निषेधाभावे सिद्धे अविशब्दने इति पदं व्यर्थं भवेत्।
अतः णिच् वैकल्पिकः।
एवं णिजभावपक्षे इण्णिषेधवारणाय तत् सार्थकमिति स्वांशे चारितार्थ्यम्।
णिचो वैकल्पिकत्वेन शुद्वाद्धातोः, सन्नन्तात्-यङन्ताच्च पूर्वोक्तभौवादिक- ‘घुषि’ धातुवत् 5 सर्वाणि रूपाणि बोध्यानि।
निष्ठाप्रत्यये परं, संघुषितं वाक्यमित्येव साधु।
ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च इमानि रूपाणि लिख्यन्ते।
घोषकः-षिका, जुघोषयिषकः-षिका
घोषयिता-त्री, जुघोषयिषिता-त्री
घोषयन्-न्ती, जुघोषयिषन्-न्ती
घोषयिष्यन्-न्ती-ती, जुघोषयिषिष्यन्-न्ती-ती
घोषयमाणः, जुघोषयिषमाणः
घोषयिष्यमाणः, जुघोषयिषिष्यमाणः
सङ्घोट्-संघोड्-संघोषौ-संघोषः
-- संघोषितः-तम्, जुघोषयिषितः-तवान्
घोषः, जुघोषयिषुः
घोषयितव्यम्, जुघोषयिषितव्यम्
घोषणीयम्, जुघोषयिषणीयम्
घोष्यम्, जुघोषयिष्यम्
ईषद्घोषः-दुर्घोषः-सुघोषः
घोष्यमाणः, जुघोषयिष्यमाणः
घोषः, जुघोषयिषः
घोषयितुम्, जुघोषयिषितुम्
घोषणा, जुघोषयिषा
6 घोषणम्, जुघोषयिषणम्, घोषयित्वा, जुघोषयिषित्वा
संघोष्य, सञ्जुघोषयिष्य
घोषम् २, घोषयित्वा २, जुघोषयिषम्
जुघोषयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४७१)
02
=>
(१०-चुरादिः-१७२७। अक। सेट्। उभ। [[[अ] यद्यपि धातुपाठे ‘घुषिर् विशब्दने’ इति इरित्त्वेन निर्देशः क्रियते, तथापि पर्यालोच्यमाने इरित्करणं प्रामाणिकमिति प्रतिभाति। अत एव भाष्य- कृता--‘घुषिरविशब्दने’ (७-२-२३)
03
=>
(श्लो। १६९। १७०)
04
=>
(७-२-२३)
05
=>
(४७०)
06
=>
[पृष्ठम्०४६०+ २५]