| YouTube Channel

जुगूषकः-षिका (jugUSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गु पुरीषोत्सर्गे”@} 2 कुटादिः।
3 गावकः-विका, गावकः-विका, 4 जुगूषकः-षिका, 5 जोगूयकः-यिका
6 गुता-त्री, गावयिता-त्री, जुगूषिता-त्री, जोगूयिता-त्री
7 गुवन् 8 -न्ती, गावयन्-न्ती, जुगूषन्-न्ती
-- 9 गुष्यन्-न्ती-ती, गावयिष्यन्-न्ती-ती, जुगूषिष्यन्-न्ती-ती
-- -- गावयमानः
गावयिष्यमाणः, -- जोगूयमानः-जोगूयिष्यमाणः
प्रगुत्-प्रगुतौ-प्रगुतः
-- -- -- 10 गूनम्-नः-नवान्
गावितः, जुगूषितः, जोगूयितः-तवान्
गुवः, गावः, जुगूषुः, 11 जोगुवः
गुतव्यम्, गावयितव्यम्, जुगूषितव्यम्, जोगूयितव्यम्
गुवनीयम्, गावनीयम्, जुगूषणीयम्, जोगूयनीयम्
12 गुयम्, 13 अवश्यगाव्यम्, गाव्यम्, जुगूष्यम्, जोगूय्यम्
ईषद्गुवः-दुर्गुवः-सुगुवः
-- -- 14 गूयमानः, गाव्यमानः, जुगूष्यमाणः, जोगूय्यमानः
15 गुवः, गावः, जुगूषः, जोगूयः
गुतुम्, गावयितुम्, जुगूषितुम्, जोगूयितुम्
गुतिः, गावना, जुगूषा, जोगूया
गुवनम्, गावनम्, जुगूषणम्, जोगूयनम्
गुत्वा, गावयित्वा, जुगूषित्वा, जोगूयित्वा
सङ्गुत्य, सङ्गाव्य, सञ्जुगूष्य, सञ्जोगूय्य
गावम् २, गुत्वा २, गावम् २, गावयित्वा २, जुगूषम् २, जुगूषित्वा २, जोगूयम्
जोगूयित्वा २।
प्रासङ्गिक्यः
01
=>
(३९६)
02
=>
(६-तुदादिः-१३९९। अक। अनि। पर।)
03
=>
[[४। अस्य कुटादित्वेऽपि, ण्वुलो णित्त्वात्, णिद्भिन्नस्यैव ङित्त्वविधानात् ‘गाङ्कुटा- दिभ्यः--’ (१-२-१) इति ङित्त्वं न।]]
04
=>
[[५। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
05
=>
[[६। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। अभ्यासस्य गुणः।]]
06
=>
[[७। तृचो ङिद्वद्भावाद् गुणो न। एवं ञ्णिद्भिन्ने सर्वत्र गुणवृद्धिनिषेधो बोध्यः।]]
07
=>
[[८। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः विकरणप्रत्ययः। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङादेशः।]]
08
=>
[[आ। ‘नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्धुवत्- कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत्।।’ धा। का। ८। ८२।]]
09
=>
[पृष्ठम्०३८९+ २५]
10
=>
[[१। ‘दुग्वोर्दीर्घश्च’ (वा। ८-२-४४) इति निष्ठानत्वम् दीर्घश्च।]]
11
=>
[[२। यङो लुकि उवङादेशः।]]
12
=>
[[३। ङिद्वद्भावादङ्गस्य गुणो न।]]
13
=>
[[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
14
=>
[[५। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
15
=>
[[६। ‘ॠदोरप्’ (३-३-५७) इति अप्। उवङ्।]]
1 {@“गुङ् अव्यक्ते शब्दे”@} 2 गावकः-विका, गावकः-विका, जुगूषकः-षिका, जोगूयकः-यिका
3 गवमानः, 4 गुतः, इत्यादीनि सर्वाण्यपि रूपाणि कवतिवत् 5 ज्ञेयानि।
6 ‘न कवतेर्यङि’ 7 इति निषेधस्तु नात्र प्रवर्तते--इति विशेषः।
प्रासङ्गिक्यः
01
=>
(३९७)
02
=>
(१-भ्वादिः-९४९। सक। अनि। आत्म।)
03
=>
[[आ। ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्। स्मितार्द्रवक्त्रं गवमानभूषं गै त्वां घुताशं कुतशङ्खघोषैः।।’ धा। का। २। ३५।]]
04
=>
[[७। ‘दुग्वोर्दीर्घश्च’ (वा। ८-२-४४) इति निष्ठानत्वदीर्घे नास्य धातोर्भवतः--निरनुबन्ध- कपरिभाषया तौदादिकस्यैव तत्र ग्रहणात्।]]
05
=>
(१९८)
06
=>
[पृष्ठम्०३९०+ २७]
07
=>
(७-४-६३)