| YouTube Channel

जीवोत्पत्तिवाद (jIvotpattivAda)

 
वाचस्पत्यम्
Sanskrit
जीवोत्पत्तिवाद
पु०
जीवस्य सङ्कर्षणाभिघस्योत्पत्तिवादः ।पाञ्चरात्रवैष्णवसिद्धान्ते जीव्यास्योद्भवसाधने वादे तत्र हि“ब्रह्मणो वासुदेवाख्याज्जोवः सङ्कर्षणाभिधः जायते चमनस्तस्मात् प्रद्युम्नाख्यं ततः पुनः अहङ्कारोऽनिरुद्धा-स्यश्चत्वारो विश्वरूपकाः वासुदेवाराधनाद्यैर्जायते बन्ध-मोक्षणमिति” तदेतन्मतं शा० सू० भा० निराकृतं यथा“उत्पत्त्यसम्भवात्” सू० ।“येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणम् ईश्वरोऽभि-मतस्तेषां पक्षः प्रत्याख्यातः, येषां पुनः प्रकृतिश्चाधिष्ठाताचोभयात्मकं कारणमीश्वरोऽभमतस्तेषां पक्षः पत्याख्या-यते श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राक् नि-र्द्धारितः प्रकृतिश्चाधिष्ठाता चेति, श्रुत्यनुसारिणी चस्मृतिः प्रमाणमिति स्थितिः, तत् कस्थ हेतोरेष पक्षःप्रत्याचिख्यासित इति उच्यते यद्यप्येवंजातीयको-ऽंशः समानत्वान्नविसंवादगोचरो भवत्यस्ति त्वंशान्तरंविसंवादस्थानमिति, अतस्तत्प्रत्याख्यानायारम्भः तत्रभागवता मन्यन्ते भगवानेवैको वासुदेवः निरञ्जन-ज्ञानस्वरूपः परमार्थतत्त्वं, चतुर्धाऽऽत्मानं प्रविभज्यप्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्कर्षणव्यूहरूपेण प्रद्यु-म्नव्यूहरूपेण अनिरुद्धव्यूहरूपेण वासुदेवो नामपरमात्मोच्यते, सङ्कर्षणो नाम जीव, प्रद्युम्नो नाममनः, अनिरुद्धो नामाहङ्कारः, तेषां वासुदेवः पराप्रकृतिः, इतरे सङ्कर्षणादयः कार्य्यं, तमित्थम्भूतं भग-वन्तमभिगमनोपाद्रानेज्यास्वाध्याययोनैर्बर्षशतमिष्ट्रा क्षीण-क्लेशो भगवन्तमेव प्रतिपद्यत इति तत्र यत्तावदुच्यतेयोऽश्चौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मसर्वात्मा आत्मनाऽऽत्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, “स एकधा भवति त्रिधा भवति”इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधा भवस्याधिगतत्वात् ।यद्यपि भगवतोऽभिगमनादिलक्षणमाराधनम् अजस्रमन-न्यचित्ततयाऽभिप्रेयते तदपि प्रतिषिध्यते श्रुतिस्मृत्यो-रीश्वरप्रणिधानस्य प्रसिद्धत्वात् यत् पुनरिदमुच्यतेवासुदेवात् सङ्कर्षण उत्पद्यते सङ्कर्षणाच्च प्रद्युम्नः, प्रद्युम्ना-च्चानिरुद्ध इति अत्र ब्रूमः, वासुदेवसंज्ञकात् पर-मात्मनः सङ्कर्षणसंज्ञस्य जीवस्योत्पत्तिः सम्भवति, अनि-त्यत्वादिदोषप्रसङ्गात् उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वा-दयो दोषाः प्रसजेरन, ततश्च नैबास्य भगवत्प्राप्तिमोक्षःस्यात् कारणाप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् प्रतिषेधि-ष्यति चाचार्य्यो जीवम्योग्पतिं “नात्माश्रुतेर्नित्यत्वाच्च”तस्मादसङ्गतैषा कल्पना” भा० ।“न कर्त्तुः करणम्” सू० ।“इतश्चासङ्गतैषा कल्पना, कस्मान्न हि लोके कर्त्तुर्देव-दत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते वर्णयन्ति चभागवताः “कर्त्त्रर्जीवात् सङ्कर्षणसंज्ञकात् करणं मनःप्रद्युम्नसंज्ञकमुत्पद्यते कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽह-ङ्कार उत्पद्यते” इति चैतद्दृष्टान्तमन्तरेणाध्यवसातुंशक्नुमः चैवम्भूतां श्रुतिमुपलमामहे” भा० ।“विज्ञानादिभावे वा तदप्रतिषेधः” सू० ।“अथापि स्यान्न चैते सङ्कर्षणादयो जीवादिभावेनाभि-प्रेयन्ते किं तर्हि ईश्वरा एवैते सर्वे ज्ञानैश्वर्य्यशक्तिबल-वीर्य्यतेजोऽभिरैश्वर्य्यधर्मैरन्विता अभ्युपगम्यन्ते वासुदेवाएवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति, तस्मा-न्नायं यथावणितं उत्पत्त्यसम्भवो दोषः प्राप्नोतीति अ-त्रोच्यते, एवमपि तदप्रतिषेध उत्पत्त्यसम्भवस्याप्रतिषेधःप्राप्नोत्येव, अयमुत्पत्त्यसम्भवो दोषः प्रकारान्तरेणेत्यभि-प्रायः, कथं यदि तावदयंमभिप्रायः परस्परभिन्ना एवैतेवासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति, ततोऽनेकेश्वररुल्पनानर्थक्यम्, एकेनैवेश्वरेणेश्वर-कार्य्यसिद्धेः सिद्धान्तहानिश्च भगवानेको वासुदेवःपरमार्थतत्त्वमित्यभ्युपगमात् अथायमभिप्रायः एक-स्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसम्भवः हि वासुदेवात्सङ्कर्षणस्योत्पत्तिः सम्भबति सङ्कषेणाच्च प्रद्युम्नस्य, प्रद्यु-म्नाच्चानिरुद्धस्य, अतिशयाभावात् भवितव्यं हिकार्य्यकारणयोरतिशयेन यथा मृद्घटयोः ह्यसत्यति-शये कार्य्यं कारणमित्यवकल्पते पञ्चरात्रसिद्धान्ति-भिर्वासुदेवादिषु एकैकस्मिन् सर्वेषु वा ज्ञानैश्वर्य्यादितारत-म्यकृतः कश्चिद्भेदोऽभ्यु पगम्यते, वासुदेवा एव हि सर्वेव्यूहा निर्विशेषा इष्यन्ते चैते भगवद्व्यूहाश्चतुः-सङ्ख्या, ब्रह्नादिस्तम्बपर्य्यन्तस्य समस्तस्यैव जगतो भगवद्-व्यूहत्वावगमात्” भा० ।“विप्रतिषेधाच्च” सू० ।“विप्रतिषेधश्चास्मिन् शास्त्रे बहुविध उपलभ्यते गुण-गुणित्वकल्पनादिलक्षणः ज्ञानैश्वर्य्यशक्तिबलववीर्यते-जांसि गुणाः आत्मान ऐवैते भगवन्तो वासुदेवा इत्यादि-दर्शनात् वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषुपरं श्रेयो-ऽलब्द्ध्वा शाण्डिल्य इदं शास्त्रम् अधिगतवान् इत्यादि-वेदनिन्दादर्शनात्, तस्मादसङ्गतषा कल्पनेति सिद्धम्” भा०जीवस्य वास्तविकोत्पत्तिनिराकरणेन तस्य भाक्तोत्पत्ति-मत्त्वं तत्रैव अ० पादे समर्थितं यथा“चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भाव-भावित्वात्” सू०“स्तो जीवस्याप्युत्पत्तिप्रलयौ जातो देवदत्तो मृतोदेवदत्त इत्येवं जातीयकाल्लौकिकव्यपदेशाज्जातकर्मादि-संस्कारविधांनाच्चेति स्यात् कस्यचिद्भ्रान्तिः, तामपनु-दामः, जीवस्योत्पत्तिप्रलयौ स्तः शास्त्रफलसम्बन्धोप-पत्तेः शरीरानुविनाशिनि हि जीवे शरीरान्तर-गतेष्टानिष्टाप्राप्तिपरिहारार्थौ विधिप्रतिषेधावक्नर्थकौस्याताम् श्रूयते “जीवापेतं वाव किलेदम्रियते जीवो म्रियते” इति ननु लौकिक-जन्ममरणव्यपदेशो जीवस्य दर्शितः सत्यं दर्शितं, भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः, किमाश्रयःपुनरयं मुख्यो यदपेक्षया भाक्त इति, उच्यते चरा-चरव्यपाश्रयः स्थावरजङ्गमशरीरविषयौ जन्ममर-णशब्दौ, स्थावरजङ्गमानि हि भूतानि जायन्तेच म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौसन्तौ तत्स्थे जीवात्मन्युपचर्येते तद्भावभावित्वात् ।शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौभवतः नासतोः नहि शरीरसम्बन्धादन्यत्र जीवोजातो मृतो वा केनचिदुपलक्ष्यते “स वा अयपुरुषो जायमानः शरीरमभिसम्पद्यमानः उत्क्रा-मन् म्रियमाण” इति शरीरसंयोगवियोगनिमित्तावेवजन्ममरणशब्दौ दर्शयति जातकर्मादिविधानमपिदेहप्रादुर्भावापेक्षमेव द्रष्टव्यम्, अभावाज्जीवप्रादुर्भावस्य ।जीवस्य परस्मादात्मनः उत्पत्तिर्वियदादीनामिवास्तिनास्ति येत्येतदुत्तरेण सूत्रेण वक्ष्यति देहाश्रयौ ताव-ज्जीवस्य स्थूलावुत्पत्तिप्रलयौ स्तः इत्येतदनेनसूत्रेणावोच्यते” भा० ।“नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः” सू० ।“अस्त्यात्मा जिवाख्यः शरोरेन्द्रियपञ्जराध्यक्षः कर्मफल-सम्बन्धी, किं व्योमादिवदेवोत्पद्यते ब्रह्मण आहो-स्विदुब्रह्मवदेव नोत्पद्यते इति श्रुतिविप्रतिपत्तेर्विशयःकासुचिच्छ्रुतिष्वग्निविष्फुलिङ्गादिनिदर्शनैर्जीवात्मनः पर-स्मात् ब्रह्मण उत्पत्तिराम्नायते कासुचित्त्वविकृतस्यैवपरस्य ब्रह्मणः कार्यप्रबेशेन जीवभावो विज्ञायते नचोत्पत्तिराम्नायत इति तत्र प्राप्नं तायदुत्पद्यतेजीव इति कुतः प्रतिज्ञानुपरोधात् (एकस्मिन्विदिते सर्बमिदं विदितम्) इतीयं प्रतिज्ञा सर्वस्य वस्तु-जातस्य ब्रह्मप्रवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वेतु जीवस्य प्रतिज्ञेयमुपरुध्येत चाविकृतः परमा-त्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् अपह-तपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हिजीवः, विभागाच्चास्य विकारात्मसिद्धिः यावान् हिआकाशादिः प्रविभक्तः सर्वो विकारः, तस्य चाकाशादे-रुत्पत्तिः समधिगता जीवात्मापि पुण्यापुण्यकर्मा सुख-ुःखभाक् प्रतिशरीरं विभक्त इति तस्यापि प्रपञ्चोत्-पत्त्यवसरे उत्पत्तिर्भवितुमर्हति” भा०अपि “यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्ये-वमेवास्मादात्मनः सर्वे प्राणाः” इति प्राणादेर्भोग्य-जातस्य सृष्टिं शिष्ट्वा सर्वे एते आत्मानो व्युच्चरन्तीतिभोक्तॄणामात्मनां पृथक् सृष्टिं शास्ति “यथासुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्तिस्यरूपास्तथाक्षराद्विविधाः सोम्य! भावाः प्रजायन्ते तत्रचैवापियन्ति” इति जीवात्मनामुत्पत्तिप्रलयाबुच्येतेसरूपवचनात् जीवात्मानो हि परमात्मना सरूपाभवन्ति चैतन्ययोगात् क्वचिदश्रवणमन्यत्र श्रुतंवारयितुमर्हति, श्रुत्यन्तरगतस्यापि अविरुद्धस्याधिकस्या-र्थस्य सर्वत्रोपसहर्त्तंव्यत्वात् प्रवेशश्रतिरम्येवं सतिविकारभावापत्त्यैव व्याख्यातव्या “तदात्मानं स्वयम-कृरुत” इत्यादिवत् तस्मादुत्पद्यते जिव इत्येवं प्राप्तेब्रूमः, नात्मा जीव उत्पद्यत इति कस्मादश्रुतेः, ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयस्सु प्रदेशेषु ।ननु क्वचिदश्रवणमन्यत्र श्रुतं वारयतीत्युक्तं, सत्य-मुक्तं उत्पत्तिरेव त्वस्य सम्भवतीति वदामः कस्मात्नित्यस्वाच्च ताभ्यः चशब्दादजत्वादिभ्यश्च नित्यत्वह्यस्य श्रतिभ्योऽधिगम्यते, तथाजत्वमविकारित्वमविकृत-स्यैव ब्रह्मणो जीवात्मनावस्थान ब्रह्मात्मता चेति नचैवंरूपस्यात्पात्तरुपपद्यते, ताः काः श्रुतयः “न जीवोम्रियते” “स वा एष महानजः” “आत्माऽजरोऽमृतोऽभयोब्रह्म” “न जायते म्रियाते वा विपश्चित्” अजो नित्यःशाश्वतोऽयं पुराणः” “तत् सृष्ट्वा तदेवानुप्राविशत्”“अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणि“स एष इह प्रविष्ट आनखाग्रेभ्य” “तत्त्वमसि” “अहंब्रह्मास्मि” “अयमात्मा ब्रह्म सर्वानुभूः” इत्येबमाद्यानित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिवध्मन्ति ।ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यते इत्युक्तअत्रोच्यते, नास्य प्रबिभागः स्वतोऽस्ति, “एको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” इति श्रुतेः, बुद्ध्याद्युपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येवघटादिसम्बन्धनिमित्तम् तथा शास्त्रम् “स वाअयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षु-र्मयः श्रोत्रमयः” इत्येवमादि ब्रह्मण एवाविकृतस्यसतोऽस्यैकानेकबुद्ध्यादिमयत्वं दर्शयति तन्मयत्वञ्चास्यतद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयोजाल्म इत्यादिवदुद्रष्टव्यम् यदपि क्वचिदस्योत्पत्ति-प्रलयश्रवणं तदप्यत एवोपाधिसम्बन्धान्ने तव्यम्, उपाध्यु-त्प्रत्तौ चास्योत्पत्तिस्तत्प्रलये प्रलय इति तथाच दर्शयति “प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायतान्येवानुविनश्यति प्रेत्य संज्ञास्ति” इति तथो-पाधिप्रलय एवायं नात्मप्रलय इत्य तदपि, अत्रैव “माभगवान्मोहमापीपदन्न वा अहमिमं विजानामि नप्रेत्य संज्ञास्ति” इति प्रश्नपुर्वकंप्रतिपादयति, “न वा अरेअह ब्रवीम्यविनाशी वा अरऽयमात्मानुच्छित्तिधर्मा मा-त्मासंसर्गस्त्वस्य भवति” इति प्रतिज्ञानुपरोधोऽप्यविकृ-तस्यैव ब्रह्मणो जीवभावाभ्युपगमात् लक्षणभेदोऽप्यन-योरुपाधिनिमित्त एव अत ऊर्द्ध्वं विमोक्षायैव ब्रूहीतिच प्रकृतस्य विज्ञानमयस्यात्मनः सर्वसं सारधर्मप्रत्याख्या-नेन परमात्मभावप्रतिपादनात् यस्मान्नैवोत्पद्यते प्रवि-लीयते वेति” शारीरकसूत्रभाष्ये शङ्कराचार्य्यः