| YouTube Channel

जीवितं (jIvitaM)

 
Wordnet
Sanskrit
Synonyms:
सजीवता, जीवितं, जीवितावस्था, प्रफुल्लता, प्रहर्षता।
noun
जीवकस्य भावः अवस्था वा।
"कलाकारानाम् अभिनयेन नाटकं सजीवताम् आपन्नम्"।"
शब्दकल्पद्रुमः
Sanskrit
जीवितं,
क्ली,
(जीव + भावे क्तः ।) जीवनम् ।इति हेमचन्द्रः
(यथा, उत्तररामचरिते अङ्के ।“त्वं जीवितं त्वमसि मे हृदयं द्वितीयंत्वं कौमुदी नयनयोरमृतं त्वमङ्के ।इत्यादिभिः प्रियशतैरनुरुद्ध्य मुग्धांतामेव, शान्तमथवा किमिहोत्तरेण
*
कर्त्तरि क्तः ।) जीवनयुक्ते, त्रि
(यथा, रघुः ।१२ ७५ ।“कामं जीवति मे नाथ इति सा विजहौशुचम् ।प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीतिलज्जिता
”)