| YouTube Channel

जीवात्मा (jIvAtmA)

 
Hindi
Hindi
व्यक्ति की आत्मा
शब्दकल्पद्रुमः
Sanskrit
जीवात्मा, [न्]
पुं,
(जीवस्य जीवनस्य आत्माअधिष्ठाता यद्बा, जीवश्चासौ आत्मा चेतिकर्म्मधारयः ।) देही तत्पर्य्यायः पुनर्भवी २जीवः असुमान् सत्त्वम् देहभृत् ६जन्तुः जन्युः इति हेमचन्द्रः
प्राणी ९चेतनः १० जन्मी ११ शरीरी १२ इत्यमरः ।१ ३०
(यथा, भागवते २२ २५ ।“यदा कदाचित् जीवात्मा संसरन्निजकर्म्मभिः ।नानायोनिष्वनीशोऽयं पौरुर्षां गतिमाव्रजेत्
”“एवं चतुर्व्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे ।जीवात्मा नियतो नित्यं वसति स्वात्मदूतवान्
देही कथ्यते पापपुण्यदुःखसुखादिभिः ।व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्म्मबन्धनैः
कामक्रोधौ लोभमोहावहङ्कारश्च पञ्चमः ।दशेन्द्रियाणि बुद्धिश्च तस्य बन्धाय देहिनः
आप्नोति बन्धमज्ञानादात्मज्ञानाच्च मुच्यते
”इति पूर्व्वखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम्
)