| YouTube Channel

जीवातुः (jIvAtuH)

 
शब्दकल्पद्रुमः
Sanskrit
जीवातुः,
पुं,
क्ली,
(जीवत्यनेनेति जीव + “जीवे-रातुः ।” उणां ८० इति करणे आतुः ।)भक्तम् जीवनौषधम् (यथा, काशीखण्डे ।२९ ६५ ।“जीवजीवातुलतिका जन्मिजन्मनिवर्हिणी
”“जीवानां प्राणिनां जीवनौषधरूपा ।” इतितट्टीका
*
(जीव + भावे आतुः ।) जीवितम् ।इति मेदिनी ते, ११२
(यथा, उत्तरराम-चरिते अङ्के ।“रे हस्त दक्षिण ! मृतस्य शिशोर्द्विजस्यजीवातवे विसृज शूद्रमुनौ कृपाणम् ।रामस्य गात्रमसि दुर्व्वहगर्भखिन्न-सीताविवासनपटोः करुणा कुतस्ते
”)