| YouTube Channel

जीवन्मुक्तः (jIvanmuktaH)

 
Tamil
Tamil
ஜீவன்முக்த: : பரம் பொருளை அறிந்து கொண்டதால் இப்பிறவிலேயே விடுதலை அடைந்தவன்.
शब्दकल्पद्रुमः
Sanskrit
जीवन्मुक्तः, त्रि, (जीवन्नेव मुक्तः आत्मज्ञानेनमायाबन्धरहितः ।) जीवद्दशायां मायाबन्ध-रहितः (यथा, देवीभागवते १६ ४८ ।“जीवन्मुक्तः राजर्षिर्ब्रह्मज्ञानमतिः शुचिः ।तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा
”)तल्लक्षणं यथा “स्वस्वरूपाखण्डशुद्धब्रह्मज्ञानेनतदज्ञानबाधनद्बारा स्वस्वरूपाखण्डे ब्रह्मणिसाक्षात्कृते सति अज्ञानतत्कार्य्यसञ्चितकर्म्म-संशयविपर्य्ययादीनामपि बाधितत्वादखिलबन्ध-रहितो ब्रह्मनिष्ठः ।‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ।क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे
’इत्यादिश्रुतेः ।अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादि-भाजनेन शरीरेण आन्ध्यमान्द्यापटुत्वादिभाज-नेनेन्द्रियग्रामेण अशनायापिपासाशोकमोहादि-भाजनेनान्तःकरणेन तत्तत्पूर्व्वपूर्व्ववासनयाक्रियमाणानि कर्म्माणि भुज्यमानानि ज्ञाना-विरुद्धान्यारब्धफलानि पश्यन्नपि बाधितत्वात्परमार्थतो पश्यति यथा इदमिन्द्रजाल-मिति ज्ञानवान् तदिन्द्रजालं पश्यन्नपि परमार्थ-मिदमिति पश्यति सचक्षुरचक्षुरिव सकर्णो-ऽकर्ण इव समना अमना इव सप्राणोऽप्राणइव इत्यादिश्रुतेः उक्तञ्च ।‘सुषुप्तवज्जाग्रति यो पश्यतिद्वयञ्च पश्यन्नपि चाद्वयत्वतः ।तथापि कुर्व्वन्नपि निष्क्रियश्च यःस आत्मविन्नान्य इतीह निश्चयः
इति ।अस्य ज्ञानात् पूर्व्वं विद्यमानानामेवाहार-विहारादीनां अनुवृत्तिवच्छुभवासनानामेवानु-वृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा तदु-क्तम् ।‘बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि ।शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे
ब्रह्मवित्त्वं तथामुक्त्रा आत्मज्ञो चेतरः’ इति ।तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टृत्वा-दयः सद्गुणाश्चालङ्कारवदनुवर्त्तन्ते तदुक्तम् ।‘उत्पन्नात्मावबोधस्य ह्यद्बेष्टृत्वादयो गुणाः ।अयत्नतो भवन्त्यस्य तु साधनरूपिणः
इति ।किं बहुना अयं देहयात्रामात्रार्थमिच्छानिच्छा-परेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्ध-फलान्यनुभवन्नन्तःकरणाभासादीनामवभासकःसन् तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणेलीने सति अज्ञानतत्कार्य्यसंस्काराणामपिविनाशात् परमकैबल्यमानन्दैकरसमखिलभेद-प्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते तस्यप्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते विमुक्तश्चविमुच्यते इत्येवमादिश्रुतेः ।” इति वेदान्त-सारः