जीवन्मुक्त (jIvanmukta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English जीवन्मुक्त jIvanmukta emancipated while still alive
जीवन्मुक्त jIvanmukta liberated before death
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiजीवन्मुक्त
वि* जीवत्-मुक्त -
"जीवन्मुक्त, जिसने परमात्मा के सत्यज्ञान से पवित्र होकर भावी जीवन से मुक्ति पा ली है, सांसारिक बंधनों से मुक्त"
Shabdartha Kaustubha
Kannadaजीवन्मुक्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ವಿರಕ್ತ /ಜೀವಿಸಿರುವಾಗಲೇ ಬ್ರಹ್ಮಜ್ಞಾನ ಪಡೆದು ಸಂಸಾರದಿಂದ ಬಿಡುಗಡೆ ಹೊಂದಿದವನು
व्युत्पत्तिः - > जीवन्नेव मुक्तः
L R Vaidya
EnglishWordnet
Sanskrit जीवन्मुक्त
जीवन् एव मायाबन्धरहितः।
"जीवन्मुक्तः पुरुषः कदापि न शोचति।"
शब्दकल्पद्रुमः
Sanskritजीवन्मुक्तः, त्रि, (जीवन्नेव मुक्तः आत्मज्ञानेनमायाबन्धरहितः ।) जीवद्दशायां मायाबन्ध-रहितः । (यथा, देवीभागवते । १ । १६ । ४८ ।“जीवन्मुक्तः स राजर्षिर्ब्रह्मज्ञानमतिः शुचिः ।तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा ॥
”)तल्लक्षणं यथा । “स्वस्वरूपाखण्डशुद्धब्रह्मज्ञानेनतदज्ञानबाधनद्बारा स्वस्वरूपाखण्डे ब्रह्मणिसाक्षात्कृते सति अज्ञानतत्कार्य्यसञ्चितकर्म्म-संशयविपर्य्ययादीनामपि बाधितत्वादखिलबन्ध-रहितो ब्रह्मनिष्ठः ।‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ।क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे ॥
’इत्यादिश्रुतेः ।अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादि-भाजनेन शरीरेण आन्ध्यमान्द्यापटुत्वादिभाज-नेनेन्द्रियग्रामेण अशनायापिपासाशोकमोहादि-भाजनेनान्तःकरणेन च तत्तत्पूर्व्वपूर्व्ववासनयाक्रियमाणानि कर्म्माणि भुज्यमानानि ज्ञाना-विरुद्धान्यारब्धफलानि च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यति । यथा इदमिन्द्रजाल-मिति ज्ञानवान् तदिन्द्रजालं पश्यन्नपि परमार्थ-मिदमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णो-ऽकर्ण इव समना अमना इव सप्राणोऽप्राणइव इत्यादिश्रुतेः । उक्तञ्च ।‘सुषुप्तवज्जाग्रति यो न पश्यतिद्वयञ्च पश्यन्नपि चाद्वयत्वतः ।तथापि कुर्व्वन्नपि निष्क्रियश्च यःस आत्मविन्नान्य इतीह निश्चयः ॥
’ इति ।अस्य ज्ञानात् पूर्व्वं विद्यमानानामेवाहार-विहारादीनां अनुवृत्तिवच्छुभवासनानामेवानु-वृत्तिर्भवति । शुभाशुभयोरौदासीन्यं वा । तदु-क्तम् ।‘बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि ।शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे ॥
ब्रह्मवित्त्वं तथामुक्त्रा स आत्मज्ञो न चेतरः’ इति ।तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टृत्वा-दयः सद्गुणाश्चालङ्कारवदनुवर्त्तन्ते । तदुक्तम् ।‘उत्पन्नात्मावबोधस्य ह्यद्बेष्टृत्वादयो गुणाः ।अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥
’ इति ।किं बहुना अयं देहयात्रामात्रार्थमिच्छानिच्छा-परेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्ध-फलान्यनुभवन्नन्तःकरणाभासादीनामवभासकःसन् तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणेलीने सति अज्ञानतत्कार्य्यसंस्काराणामपिविनाशात् परमकैबल्यमानन्दैकरसमखिलभेद-प्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते । न तस्यप्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते विमुक्तश्चविमुच्यते । इत्येवमादिश्रुतेः ।” इति वेदान्त-सारः ॥
वाचस्पत्यम्
Sanskritजीवन्मुक्त जीवन्ने व सुक्तः जीवन्येवात्जज्ञानेन बन्धरहिते“जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाघनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते अज्ञानकार्यसञ्चितकर्मसंशयविपर्दयादीनाचपि बाधितत्वादणिल-बन्धरहितो ब्रह्ममिष्ट” इति वेदालला० । नञ्च जीवन्मुक्तोव्यवहरतिंन वा । आद्ये तस्य बद्धान्न विलक्षणता, द्वितीयेदेहस्यानुपयोगात् सद्यः पातप्रसङ्ग इत्यत आह ।“अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेनशरीरेण आन्ध्यमान्द्यपटुत्वादिभाजनेनेन्द्रियग्रामेणअशनायापिपासाशोकमोहादिभाजनेन चान्तःकरणेनपूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानिज्ञानाविरुद्धान्यारब्धफलानि च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यतीति” वे० सा० । दृष्टान्ते नोक्तमर्थं स्पष्ट-यति । “यथेन्द्रजालमिति ज्ञानवान् तदिदमिन्द्रजालंपश्यन्नपि परमार्थमिदमिति” न पश्यति । उक्तञ्च “सुषुप्ति-वज्जाग्रति यो न पश्यति द्वयन्तु पश्यन्नपि चाऽद्वयत्वतः ।तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीहनिश्चयः” इति वेदन्तासा० । “वेदविद्याकृतं ज्ञानं देशिकस्कमुखात् स्वयम् । गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजो-त्तमाः । प्रारब्धक्षयपर्य्यन्तं जीवन्मुक्ता भवन्ति ते”तन्त्रम् । अष्टोत्तरशतमुपनिषदाम् । २ कौलिके च “धन्या-माहेश्वराः स्वार्थप्रत्यभिज्ञानशालिनः । स्वपरिज्ञानमा-त्रेण जीवन्मुक्ता भवन्ति हि । महामन्त्रप्रभावेणकुलाचारप्रभावतः । स्वेच्छाचारा निर्विकल्पा जीवन्मुक्ता-हि कौलिकाः” तन्त्रशास्त्रम् “योऽन्तर्व्योमवदत्यच्छःजीवन्मुक्त० उच्यते” कुलार्णवे ।वेदान्तपरिभाषायां विशेष सुक्तो यथा ।“निर्गुणब्रह्मसात्कारवतस्तु न लोकान्तरगमनं “न तस्यप्राणा उत्क्रामन्तीतिश्रुतेः किन्तु यावत्प्रारब्धकर्मक्षयंसुखदुःखे अनुमूय पश्चादपवृज्यते । ननु “क्षीयन्ते चास्यकर्माणि तस्मिन् दृष्टे परावरे” इत्यादिश्रुत्या “ज्ञानाग्निःसर्वकर्म्माणि भस्मसात् कुरुतेऽर्जु नेत्यादि” स्मृत्या चज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्म्मावस्था-नमनुपपन्ननिति चेन्न तस्य “तावदेव चिरं यावन्न विमो-क्ष्येऽथ सग्पत्स्ये कैवल्येनेत्यादि” श्रुत्या “नाभुक्तं क्षीयतेकर्मकल्पकोटिशतैरपीत्यादि” स्मृत्या च उत्पादितकार्य्यक-कर्मव्यतिरिक्तानां सञ्चितकर्म्मणामेव ज्ञानयिनाश्यत्वाव-गमात् । सञ्चितं द्विविघं सुकृतं दुष्कृतञ्च । तथाचश्रुतिः “तस्य पुत्रादायमुपयन्ति सुहृदः साघुकृत्यां द्विषन्तःपापकृत्यामिति” । ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्-कार्य्यप्रारव्यकर्म्म ओऽपि निवृत्तेः कथं ज्ञानिनां देह-धारणमुपपद्यत इति चेन्न अपतिबद्धज्ञानस्यैवाज्ञाननिव-र्त्तकतया प्रारव्वकर्म्मरूपप्रतिवन्धकदशायामज्ञाननिवृश्वे-रनङ्गीकारात् । “नन्वेवमपि तत्त्वज्ञानादेकमुक्तौ सर्व्व-मुक्तिः स्यात् अविद्याया एकत्वेनैतन्निवृत्तौ क्वचिदपि-संसारायोगादिति चेन्न इष्टापत्तेरित्येके । अपरे त्वेत-द्दोषपरीहारायैव “इन्द्रोमायाभिरिति” वहुवचनश्रुत्यनुगृहीतमविद्यानानात्वप्रङ्गीकर्त्तव्यमित्याहुः । अन्ये त्वेकै-वाविध्या तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरण-शक्तयो नाना तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपा-वरणशक्तिविशिष्टाविद्यानाशः नत्वन्यं प्रति व्रह्मस्वरूपा-वरणशक्तिविशिष्टाविद्यानाश इत्यभ्यु पगमान्नैकमुक्तौ सर्व-सुक्तिः । अतएव “यावदधिकारमवस्थितिराधिकारिकाणाम्इत्यस्मिन्नधिकरणे अधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञाना-नामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्य अधिकारा-षाटकप्रारब्धकर्म्म समाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धा-न्तितम् । तदुक्तमाचार्य्यवाचस्पतिमिश्रैः “उपासनादिसं-सिद्धितोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रवि-शन्ति परम्पदमिति” । एतच्चैकमुक्तौ सर्व्वमुक्तिरिति पक्षेनोपपद्यते । तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभे-दोपगमेन व्यवस्थोपपादनीया” ।शा० सू० भाष्ययोश्च जाततत्त्वज्ञानानामपि यावत्प्रारब्धकर्मसमाप्तिस्तावद्देहादिसम्बन्धः समर्थितो यथा“यावदधिकारमवस्थितिराधिकारिकाणाम्” ३ । ३ । ३२ सू० ।“विदुपो वर्त्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते नवेति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौकैवल्यनिर्वृत्तिः स्यान्न वेति नेयं चिन्तोपपद्यते । न हिपाकसाधनसम्पत्तावोदनो भवेत् न येति चिन्ता सम्भ-वति, नापि भुञ्जानस्तृप्येत् न वेति चिन्त्यते । उपपन्नात्वियं चिन्ता, ब्रह्मविदामपि केपाञ्चित् इतिहासपुराण-योर्देहास्तरोत्तिदर्शनात् । तथा ह्यपान्तरतमानामवेदाचार्थः पुराणर्षिर्विष्णुनियोगात् कलिद्वापरयोःसन्धो कृणद्वैपायतः सम्बभूवेति स्मरणं, वसिष्ठश्चब्रह्मणो मानसं पुत्त्रः सन्निमिशापादपगतपूर्वदेहः पुन-ब्रह्मादेशात् मित्रावरुणाभ्यां सम्वभूवेति । भृग्वादीना-मपि ब्रह्मण एव मानसानां पुत्त्राणां वरुणे यज्ञे पुन-रुत्पत्तिः स्मर्यते । सनत्कुमारोऽपि ब्रह्मण एव मानसःपुत्त्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव ।एवमेव दक्षनारदप्रभृतीनाभपि भूयसी देहान्तरो-त्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ श्रुतावपिमन्त्रार्थवादयाः प्रायेणोपलक्ष्यते । ते च केचित् पतितेपूर्वदेहे देहान्तरमाददते केचित्तु स्थित एव तस्मिन् योगै-श्वर्यवशादनेकदेहागमन्यायेन, सर्वे चैते समधिगतसकल-वेदार्थाः स्मर्यन्ते । तदेतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तंब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेत्यतउत्तरसुच्यते । न, तेषामपान्तरमःप्रभृतीनां वेदप्रव-र्त्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानां अधि-कारतन्त्रत्वात् स्थितेः । यथासौ भगवान् सविता सह-स्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदया-स्तमयवर्जितं कैवल्यमनुभवति, “अथ ततऊर्द्ध, उदेत्यनैवोदेता नास्तमेतैकल एव मध्ये स्थाता” इति श्रुतेः ।यथा च वर्त्तमाना ब्रह्मविदः प्रारब्धमोगक्षये कैवल्यमनु-भवन्ति “तस्य तावदेव चिरं यावत् न विमोक्ष्येऽथ सम्प-त्स्ये” इति श्रुतेः । एवमपान्तरतगःप्रभृतयोऽपीश्वराःपरमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपिसम्यग्दर्शने कैवल्यहेतावक्षीणकर्णो यावदधिकारम-वदिष्ठन्ते तदवसाने चापवृज्यन्त इत्यविरुद्धम् । सकृत्-प्रवृत्तमेव हि तेऽधिकारफलदानाय कर्माशयमतिवाह-यन्तः ख्वातन्त्र्येण गृहादिब गृहान्तरमन्यमन्यं देह्रंसञ्चरन्तः स्वाथिकारनिर्वर्तनायापरिमुषितस्मृतय एवदेहेन्द्रियप्रकृतिवशित्वात् निर्म्माय देहान् युगपत्क्रमेणवाधितिष्ठन्ति । न चैते जातिस्मरा इत्युच्यते, तएव ते, इति स्मृतिप्रसिद्धेः । यथा “सुलभा ब्रह्मवादिनी जन-केन विवदितुकामा व्युदस्य स्वं देहं जानकं देहमाविश्यव्युद्य तेन पश्चात्तं स्वमाविवेश” इति स्मर्यते । यदि ह्युप-युक्ते सकृत्प्रवृत्ते कर्मणि कर्म्मान्तरं देहान्तरारम्भकार-णमाविर्भवेत् ततोऽन्यदप्यदग्धवीजं कर्म्मान्तरं तद्वदेवप्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वंवा शङ्क्येत, न त्वियमाशङ्का युक्ता ज्ञानात् कर्मवीज-दाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् । तथा च श्रुतिः--“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्तेचास्य कर्म्माणि तस्मिन् दृष्टे परावरे” इति “स्मृति-लम्भे सर्वग्रन्थीनां विप्रमोक्षः । इति चैवमाद्या । स्मृति-रपि “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन! ।ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुते तथा” । इति-“वीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञान-दग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः” इति--चैव-माद्या । न चाविद्यादिक्लेशदाहे सति क्लेशवीजस्यकर्म्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते, नह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते । प्रवृत्त-फलस्य तु कर्म्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः“तस्य तावदेव चिरम्” इति शरोरपातक्षेपकरणात् ।तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थितिः, नच ज्ञानफलस्यानैकान्तिकता । तथा च श्रुतिरविशेषेणैवसर्वेषां ज्ञानान्मोक्षं दर्शयति “तद्यो देवानां प्रत्यबुध्यत सएव तदभवत्तथर्वीणां तथा मनुष्याणाम्ं इति । ज्ञाना-न्तरेषु चैश्वर्य्यादिफलेष्वासक्ताः स्युर्महर्षयः ते पश्चादैश्वर्य-क्षयदर्शनेन निर्विण्णाः बरमात्महा ने परिनिष्ठाय कैवल्यंययुरित्युपपद्यते । “ब्रह्मणा सह ते सर्वे संप्राप्ते प्रति-सञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्”इति स्मरणात् । प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहा-शङ्कानुपपत्तिः । कर्मफले हि स्वर्गादावनुभवानारूढेस्यादपि कदाचिदाशङ्का भवेद्वा न वेति, अनुभवारूढन्तुज्ञानफलं “यत्साक्षादपरोक्षाद्व्रह्म” इति श्रुतेः, “तत्त्वमसि”इति च सिद्धवदुपदेशात् । न हि “तत्त्वमसि” इत्यस्यवाक्यस्यार्थः तत्त्वं मृतो भविष्यसि इत्येवं शक्यः परि-णेतुम् । “तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहंमनुरभवं सूर्य्यश्च” इति सम्यग्दर्शनकालमेव तत्फलंसर्व्वात्मत्वं दर्शयति । तस्मादैकान्तिकी विदुषः कैवल्य-सिद्धिः” भा० । ४ । १ पादे च ।“तदधिगम उत्तरपूर्वाथयोरश्लेषविनाशौ तद्व्यपदे-शात्” १३ सू० ।“गतस्तृतीयशेषः, अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ताप्रजायते, ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयतेन वा क्षीयत इति संशयः । किं तावत् प्राप्तं फलार्थ-त्वात् कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः । फल-दायिनी ह्यस्य शक्तिः श्रुत्या समधिगता । यदि तद-न्तरेणैव फलोपभोगमुपमृद्येत श्रुतिः कदर्थिता स्यात् ।स्मरन्ति च ‘न हि कर्म्माणि क्षीयन्ते’ [म० भा०] इति ।नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्तोति । नैषदोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहदाहेष्ट्या-दिषत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानात्भवेदपि दोषक्षपणार्थता, नत्वेवं ब्रह्मविद्याया विधान-मस्ति । नन्वनभ्यु पगम्यमाने ब्रह्मविदः कर्मक्षये तत्फल-स्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् । नेत्युच्यते देश-कालनिमित्तापेक्षो मोक्षः कर्मफलवद्भविष्यति । तस्मात्न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमःतदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्वाघयोरश्लेषविनाशौभवतः, उत्तरस्याश्लेषः, पूर्वस्य विनाशः । कस्मात्, तद्व्यपदेशात् तथा हि व्रह्मविद्याप्रक्रियायां सम्भाव्य-मानसम्बन्धस्यामामिनो दुरितस्यानभिसम्बन्धं बिदुषोव्यपदिशति “यथा पुष्करपलाश आपो न श्लिष्यन्त एव-मेवंविदि षापं कर्म न श्लिष्यते” इति । तथा विनाशमपिपूर्वोपचितस्य दुरितस्य व्यपदिशति “तद्यथेषीकातूमग्नौप्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति ।अयमपरः कर्मक्षयव्यपदेशो भवति । “भिद्यते हृदय-ग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणितस्मित् दृष्टे परावरे” इति । यदुक्तमनुपभुक्तफलस्यकर्मणः क्षयकल्पनायां शास्त्रकदर्थनं स्यादिति । नैषदोषः, न हि वयं कर्मणः फलदायिनीं शक्तिमवजांनी-महे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेणप्रतिबध्यत इति बदामः । शक्तिमद्भावमात्रे च शास्त्रंव्याप्रियते न प्रतिबन्धाप्रतिबन्धयोरपि । न हि कर्मक्षीयत इत्येतदपि स्मरणमौत्सर्गिकं न हि भोगादृतेकर्म क्षीयते तदर्थत्वादितिं, इष्यत एव प्रायश्चित्तादिनादुरितस्य क्षयः “सर्वं पाप्मानं तरति” “तरति ब्रह्महत्यांयोऽश्वमेधेन यजते” । य उचैनमेवं वेद” इत्यादि श्रुति-स्मृतिभ्यः । यत्तूक्तं नैमित्तिकानि प्रायश्चित्तानि भवि-ष्यन्ति इति । तदसत्, दोषसंयोगेन चोद्यमानानामेषांदोषनिष्कृतिफलसम्भवे फलान्तरकल्पनानुपपत्तेः । यत्-पुनरेतदुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेन विद्याविधान-मस्तीति अत्र ब्रूमः । सगुणासु तावद्विद्यासु विद्यतएव विधानं, तासु च वाक्यशेषे ऐश्वर्य्यप्राप्तिः पापनि-वृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्ती-त्यतः पाप्मप्रहाणपूर्वकैश्वर्य्य प्राप्तिस्तासां फलमिति नि-श्चीयते । निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्तितथाप्यकर्त्रात्मत्वबोधात् कर्मप्रदाहसिद्धिः । अश्लेष इतिचागामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते व्रह्मविदिति-दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वंप्रतिपेदे इव तथापि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्ते-स्तान्यपि प्रलीयन्त इत्याह विनाश इति । पूर्वप्रसिद्ध-कर्तृत्वभोक्तृत्वस्वरूपविपरीतं हि त्रिष्वपि कालेष्वकर्तृ-त्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि नेतः पूर्वमपि कर्त्ताभोक्ता वाऽहमासं नेदानीं नापि भविष्यति काले इतिब्रह्मविदवगच्छति । एवमेव च मोक्ष उपद्यते, अन्यथाह्यनादिकालप्रवृत्तानां कर्मणां क्षयाभाये मोक्षाभावःस्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत्भवितुमर्हति, अनित्यत्वप्रसङ्गात् परोक्षत्वानुपपत्तेश्चज्ञानफलस्य । तस्मात् ब्रह्नाधिगमे दुरितक्षय इतिस्थितम्” । भा०“इतरस्याप्येवमसंश्लेषः पाते तु” ४ । १ । १४ सू०“पूर्वस्मिन्नधिकरणे बन्धहेतोरधस्य स्वाभाविकस्याश्लेष-विनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ, धर्मस्यपुनः शास्त्रोयत्वात् शास्त्रीयेण ज्ञानेनाविरोध इत्या-शङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते ।इतरस्याऽपि पुण्यस्य कर्मण एवमधवदसंश्लेषो विनाशश्चज्ञानवतो भवतः । कुतः, तस्याऽपि स्वफलहेतुत्वेनज्ञानफलप्रतिबन्धित्वप्रसङ्गात् । “उभे उहैवैष एतेनतरति” इत्यादिश्रुतिषु दुष्कृतवत् सुकृतस्याऽपि प्रणाश-व्यपदेशात् अकर्त्रात्मबोधनिमितस्य च कर्मक्षयस्य सुकृत-दुष्कृतयोस्तुल्यत्वात् “क्षीयन्ते चास्य कर्माणि” इतिचाविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्दः पठ्यतेतत्रापि तेनैव पुण्यमप्याकलितमिति दष्टव्यं, ज्ञानापेक्षयानिकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः‘वैनं सेतुमहोरात्रे तरतः’ इत्यत्र सह दुष्कृतेन सकृत-मप्यनुक्रम्य “सर्वे पाप्मानोऽतो निवर्तन्त” इत्यविशेषेणैवप्रकृतेषु पाप्मशब्दप्रयोगात् । पाते त्विति । तुशब्दोऽ-वधारणार्थः । एवं धर्म्माधर्मयोर्बन्धहेत्वोर्विद्यासाम-र्थ्यादश्लेषविनाशसिद्धेरवश्यम्भाविनी विदुषः शरीरपातेमुक्तिरित्यवधारयति ।” भा०“अनारब्धकार्य्ये एव तु पूर्वे तदवधेः ।” ४ । १ । १५ सू०“पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विना-शोऽवधारितः, स किमविशेषेणारब्धकार्य्ययोरनारब्ध-कार्य्ययोश्च भवत्युत विशेषेणानारब्धकार्य्ययोरेवेति विचा-र्य्यते । तत्र “उभे उहैवैष एतेन तरति” इत्येवमादि-श्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्तेप्रत्याह अनारब्धकार्य्ये एव त्विति । अप्रवृत्ते फले एवपूर्वे जन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् ज्ञानो-त्पत्तेः सञ्चित सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते नत्वा-रब्धकार्य्ये सामिभुक्तफले याभ्यामेतत् ब्रह्मज्ञानायतनंजन्म निर्मितम् । कुत एतत्, “तस्य तावदेव चिरं यावन्नविमोक्ष्ये” इति शरीरपातावधिकरणात् क्षेमप्राप्तेः, इतरषा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात्ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरारपातप्रतीक्षांनाचक्षीत । ननु वस्तुबलेनैवायमकर्त्रात्मत्वबोधः कर्म्माणिक्षपयन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत, नहि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयतेकेषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति । उच्यते, न तावदनाश्रित्यारब्धकार्य्यं कर्म्माशयं ज्ञानोत्पत्तिरुप-पद्यते, आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवगस्याऽन्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम्, अकर्त्रात्मत्वबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्यु-च्छिनत्ति, बाधितमपि मिथ्याज्ञानं द्विचन्द्रादिज्ञानवत्ंसंस्कारवशात् कञ्चित् कालमनुवर्तत एव । अपि चनैवात्र विवदितव्यं ब्रह्मविदः कञ्चित् काल शरीरं ध्रियतेन ध्रियत इति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनंदेहधारणञ्चापरेण प्रतिक्षेप्तुं शक्येत । श्रुतिस्मृतिषुच स्थितप्रज्ञलक्षणनिर्देशेनैतदव निरुच्यते तस्मादना-रब्धकार्य्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षयइति निर्णयः ।” भा०“भोगेन त्वितरे क्षपयित्वा सम्पद्यते” ४ । १ । १९ सू०“अनारब्धकार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षयउक्तः, इतरे त्वारब्धकार्य्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते “तस्य तावदेव चिरं यावन्न वि-मोक्ष्ये अथ सम्पत्स्ये” इति “ब्रह्मैव सन् ब्रह्माप्येति”इति चेवमादिश्रुतिभ्यः । ननु सत्यपि सम्यग्दर्शने यथाप्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेवं प-श्चादप्यनुवर्तेत । न, निमित्ताभावात् । उपभोगशेषक्षपणंहि तत्रानुवृत्तिनिमित्तं, न च तादृशमत्र किञ्चिदस्ति ।नन्वपनः कर्माशयोऽभिनवमुपभोगमारप्स्यते । न, तस्यदग्धवीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्म्मान्तरं देह-पाते उपभोगान्तरमारभते, तच्च मिथ्याज्ञानं सम्यग्-ज्ञानेन दग्धमित्यतः साध्वेतदारब्धकार्य्यक्षये विदुषःकैवल्यमवश्यम्भावीति ।” ४ । १ । भा०“यत्तु सञ्चितं कर्म्मान्तरं तन्न निमित्त फलम्य दग्धमूल-त्वात् । अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य चमूलम् । तदुक्तं योगशास्त्रे “क्लेशमूलः कर्म्माशयः सतिमूले तद्विपाकः” इति तच्च मूलं ज्ञानाग्निना दग्धमितिकुतपुनः संसारः तस्माद्देहपातेकैवल्यमिति सिद्धम्” आ० गि०सांख्यकारिभायां तत्त्वकौमुद्यामत्रविशेषो उक्तो यथा“सम्यग्ज्ञानाधिगमाद्धर्म्मादीनामकारणप्राप्त । तिष्ठतिसंस्कारवशाच्चक्रभ्रमिवद्धृतशंरीरः ।” साङ्ख्यकारिका ।“तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपिकर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपपभोग-लक्षणाय फलाय कल्पते । क्लेशसलिलापसिक्तायां हिबुद्धिभूमौ कर्मवीजान्यङ्कुरं प्रसुवते तत्त्वज्ञाननिदाघनि-पीतसकलकेशसलिलायामूषरायां कुतः कर्मवीजाना-मङ्कुरप्रसवः । तदिदमुक्तं धर्म्मादीनामकारणप्राप्तावितिअकारणत्वप्राप्तावित्यर्थः । उत्पन्नतत्त्वज्ञानेऽपि चसंस्कारवशात्तिष्ठति । यथोपरतेऽपि कुलालव्यापारे चक्रंवेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति । कालपरिपाकवशा-त्तूपरते संस्कारे निष्क्रियं भवति । शरीरस्थितौ चप्रारब्धपरिपाकौ धर्म्माधर्म्मौ संस्कारौ । तथाचश्रूयते “भोगेन त्वितरे क्षपयित्वाथ सम्पद्यत” इति“तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति ।प्रक्षीयमाणाविद्याबिशषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्ध-तशरीरस्तिष्ठति” तत्त्वकौ० ।सा० सू० भाष्येऽप्युक्तं यथा“बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः” सू० । “सकृत्सम्प्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यवियेकावस्थो मध्य-मविवेकेऽपि सति पुरुषे वाधितानामपि दुःखादीनांप्रारब्धवशात् प्रतिविम्बरूपेण पुरुषेऽनुवृत्त्या भोगो भव-तीत्यर्थः । विवेकनिष्पतिश्चापुनरुत्थानादसम्प्रज्ञातादेवभवतीत्यतस्तस्यां सत्यां न मोगोऽन्तीति प्रतिपादयितुंमध्यविवेकत इत्युक्तम् । मन्दविवेकस्तु साक्षात्कारात्पूर्वं श्रवणमननध्यानमात्ररूप इति विभागः” भा० ।जीवन्मुक्तश्च सू० ।“जीवन्मुक्तोऽपि मध्यविवेकावस्थ एव भवतीत्यर्थः ।जीवन्मुक्ते प्रमाणमाह” भा० ।“उपदेश्योषदेष्टृत्वात् तस्तिद्धिः” सू० ।“शास्त्रेषु विवेकविषये गुरुशिष्यभावश्रवणाज्जीवन्मुक्त-सिद्धिरित्यर्थः । जीवन्मुक्तस्यैबोपदेष्टृत्वसम्भवादिति” भा० ।“श्रुतिश्च” सू० ।“श्रुतिश्च जीवन्मुक्तेऽस्ति “दीक्षयैवनरो मुच्येत्तिष्ठेन्मुक्तोऽपि विग्रहे । कुलालचक्रमध्यस्थो विच्छि-न्नोऽपि भ्वमेद्धटः” । “ब्रह्मैव सन् ब्रह्माप्येतीत्यादि”रिति । नारदीयस्मृतिरपि “पूर्वाभ्यासबलात् कार्य्ये नलोको न च वैदिकः । अपुण्यपापः सर्वात्मा जीव-म्मुक्तः स उच्यते” । इति । ननु श्रवणमात्रेणा-प्युपदेष्टृत्वं स्यात् तत्राह” साङ्खप्रवचनभाष्यम् ।“इतरथान्धपरम्परा” । सू० ।“इतरथा मन्दविवेकस्याप्युपदेष्टृत्वेऽन्धपरम्परापत्तिरि-त्यर्थः । सामग्र्येणात्मतत्त्वमज्ञात्वा चेदुपदिशेत् कस्मिं-श्चिदंशे खभ्रमेण शिष्यमपि भ्रान्तीकुर्य्यात् सोऽप्यन्यं सो-ऽप्यन्यमित्येवमन्धपरम्परेति । ननु ज्ञानेन कर्मक्षये सतिकथं जीवनं स्यात् तत्राह” भा०“चक्रभ्रमणवद्धृतशरीरः” । सू०“कुलालकर्मनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव यथा कियत्-कालं चक्रं भ्रमति । एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रार-ब्धकर्मवेगेन चेष्टमानं शरीरं धृत्वा जीवन्मुक्तस्तिष्ठतीत्यर्थः ।ननु ज्ञानहेतुसम्प्रज्ञातयोगेन भोगादिवासनाक्षये कथंशरीरधारणम् । न च योगस्य संस्काराभिभावकत्वे किंमानमिति वाच्यम् । “व्युत्थाननिरोधसंस्कारयोरभिभव-प्रादुर्भावौ निरोधपरिणाम” इति योगसूत्रतस्तत्सिद्धेः ।चिरकालीनस्य विषयान्तरावेशम्य विषयान्तरसस्काराभि-भावकतया लोकेऽप्यनुभवाच्चेति तत्राह ।” भा०“संस्कारलेशतस्तत्सिद्धिः ।” सू०“शरीरधारणहेतवो ये विषयसंस्कारास्तेषामल्पावशेषात्तस्य शरीरधारणस्य सिद्धिरित्यर्थः । अत्र चाविद्या-संस्कारलेशस्य सत्ता नापेक्ष्यते अविद्याया जन्मादि-रूपकर्मविपाकारम्भमात्रे हेतुत्वात् । योगभाष्ये व्यासै-स्तथा व्याख्यातत्वात् । “वीतरागजन्मादर्शनादिति”न्यायाच्च । न तु प्रारब्धफलककर्मभोगेऽपीति । यत्र चनियमेनाविद्यापेक्ष्यते स प्रयासविशेषरूपो भोगी मूढे-ष्वेवास्ति जीवन्मुक्तानां तु भोगाभास एवेति प्रागुक्तम् ।यत् तु कश्चिदविद्यासंस्कारलेशोऽपि जीवन्मुक्तस्य तिष्ठ-तीत्याह तन्न धर्म्माधर्म्मोत्पत्तिप्रसङ्गात् । अन्धपरम्प-राप्रसङ्गात् । अविद्यासंस्कारलेशसत्ताकल्पने प्रयोजना-भावाच्च । एतच्च ब्रह्ममीसांसाभाष्ये प्रपञ्चितमिति” भा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
