| YouTube Channel

जीवनीयगणः (jIvanIyagaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
जीवनीयगणः,
पुं,
(जीवनीयानामोषधीनां गणः ।)औषधविशेषः यथा, वैद्यकपरिभाषायाम् ।“अष्टवर्गश्च पर्णिन्यौ जीवन्ती मधुकन्तथा ।जीवनीयगणः प्रोक्तो जीवनस्तु पुनस्तया
”(“जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ ।ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः
”इति वाभटे सूत्रस्थाने पञ्चदशेऽध्याये
)