| YouTube Channel

जीवत्पितृक (jIvatpitRka)

 
Yates
English
जीव-त्पितृक (कः)
a. A son whose fa-
ther is still living.
Spoken Sanskrit
English
जीवत्पितृक - jIvatpitRka -
adj.
- occurring during a father's life
Wilson
English
जीवत्पितृक
m.
(-कः) A son whose father is alive.
E.
जीवत्, and पितृ a father, कन् added.
Monier Williams Cologne
English
जीवत्—पितृक
mfn.
id.,
Tithyād.
occurring during a father's life,
PSarv.
Shabdartha Kaustubha
Kannada
जीवत्पितृक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬದುಕಿರುವ ತಂದೆಯುಳ್ಳ ಮಗ
निष्पत्तिः - > "कप्"(५-४-१५४)
व्युत्पत्तिः - > जीवत् पिता यस्य
शब्दकल्पद्रुमः
Sanskrit
जीवत्पितृकः,
पुं,
(जीवन् पिता यस्य इति कप् ।)विद्यमानपितृकः यथा, --“अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् ।नजीवत्पितृकः कुर्य्यात् कृतेऽपि पितृहा भवेत्
”इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
जीवत्पितृक
पु०
जीवन् पिता यस्य कप् विद्यमान-पितृके जने “अमास्नानं गयाश्राद्धं दक्षिणामुखभो-जनम् जीवत्पितृकः कुर्य्यात् कृते तु पितृहा भवेत्”ति० त० तत्र जीवत्पितृकस्य श्राद्धविशेषेऽधिकारःनिर्णयसिन्धौ व्यवस्थापितो यथा ।“जीवत्पितृकस्य साग्नेरेव वृद्धिश्राद्धेऽधिकारः तुनिरग्नेः “न जीवत्पिवृकः कुर्य्याच्छ्राद्धमग्निमृते द्विजः ।येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः पितामहे-ऽप्येवमेव कुर्य्याज्जीवति साग्निकः साग्निकोऽपि नकुर्व्वीत जीवति प्रपितामहे” इति चन्द्रिकायां सुमन्तूक्ते-रित्याहुः प्रयोगपारिजातेऽप्यनाहिताग्निर्न कुर्य्यादि-तीदं व्याख्यातम् तन्न “अनग्निकोऽपि कुर्वीत जन्मादौवृद्धिकर्मणि येभ्य एव पिता दद्यात्तानेवोद्दिश्य तर्प-येदिति” हारीतोक्तेः सौमन्तवन्तु वृद्धिश्राद्धभिन्नश्राद्ध-परमित्युक्तं मदनरत्ने श्राद्धपदं पिण्डपितृयज्ञपरमितिपृथ्वीचन्द्रोदयः निर्णयामृते तु हारीतीयेऽनग्निको-नाहिताग्निरभिप्रेतः पूर्ववचने तु साग्निः श्रौताग्निःस्मार्त्ताग्निश्चोच्यते तेनोभयाग्निहीनस्य नेत्युक्तं तन्नपूर्वोक्तदिशा गतिसम्भवेनाग्निपदस्य स्मार्त्ताग्निपरत्वे मा-नाभावात् वक्ष्यमाणनित्यानित्यसंयोगविरोधात् “पितरोजनकस्येज्या यावद्व्रतपनाहितम् समाहितव्रतः पश्चात्स्वान् यजेत पितामहानिति, पृथ्वीचन्द्रोदये यमवचोविरोधाच्च अपरार्केऽपि समावर्त्तने व्रह्मचारी स्वयमेवनान्दीश्राद्धं कुर्य्यादित्याहुः अतः पूर्वमेव साधु वोपदे-वोऽप्येवमाह यत्तु मतं जीवत्पितृकस्य पुत्रनामकर्म्मादौन वृद्धिश्राद्धम् हारीतीये जन्मादावित्यादिशब्देन तत्-प्राप्तावपि “उद्वाहे पुत्रजनने पुत्र्येष्ट्यां सौमिके मखे ।तीर्थे ब्राह्मण आयाते षेडेते जीवतः पितुरिति” मैत्र-परिशिष्टे उद्वाह एव तस्योपसंहारात् एवं यत्र तुसंस्कारादिपदं तदप्युद्वाहादिपरमेवेति तन्न उद्वाहपदस्यस्वविवाहपरत्वस्यापि सम्भवात् पुत्रविवाहपरत्वे माना-भावात् “नामकर्मणि बालानां चूडाकर्म्मादिके तथा”इत्यादिभिर्नित्यश्राद्धस्य चौलाद्यङ्गत्वावगतौ नित्यानित्य-संयोगविरोधाच्च अतो जन्मादाविति सर्वसंस्कारसंग्रहः ।तथा कात्यायनः “स्वपितृभ्यः पिता दद्यात् सुतसंस्कार-कर्भसु पिण्डानोद्वाहनात्तेषां तस्थाभावे तु तत्क्रमात्” ।सुतानां चौलादिसंस्कारेषु पिता स्वपितृभ्यः पिण्डान्श्राद्धम् “पिण्डदोऽशहरश्चैषामिति” र्दशनात् औद्वहना-द्विवाहपर्य्यन्तं दद्यात् विवाहश्च प्रथमः “नान्दीश्राद्धंपिता कुर्य्यादाद्ये पाणिग्रहे बुधः अत ऊर्द्ध्वं प्रकुर्व्वीतस्वयमेव तु नान्दिकमिति” स्मृतेः तस्य पितुरभावे तत्क्र-मात् “असंस्कृतास्तु संस्कार्य्या भ्राषृभिः पूर्वसंस्कृतैरिति”यः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादितिचन्द्रिकादयः हेमाद्रिस्तु तस्य पितुरभावे यः पितृव्यमातुलादिः संस्कुर्य्यात् तत्क्रमात् संस्कार्य्यपितृ-क्रमाद्दद्यान्नतु स्वपितृभ्य इति व्याचख्यौ समावर्तनस्यापिविवाहप्राचीनसुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्य्यात्तदभावे ज्येष्ठभ्रात्रादिः तदभावे स्वयमेव कुर्य्यात् ।उपनयनेन कर्म्माधिकारस्य जातत्वात् एवमाद्यविवाहे-ऽपीति पृथ्वीचन्द्रोदयन्वन्द्रिकादयः मदनरत्नेऽप्येवम् ।यदा तु पितरि संन्यस्ते प्रोषिते पतिते वा धर्म्मार्थं तत्पुत्र-मन्यः संस्कुर्य्यात्तदा संस्कार्य्यपितुः पित्रादिभ्यो दद्यात्“पितरो जनकस्येज्या यावद्व्रतमनाहितम् समाहित-व्रतः पश्चात्स्वान् यजेत पितामहानिति” पृथ्वाचन्द्रोदयेयमोक्तेः जीवत्पितृकस्य विशेषमाह कात्यायनः “वृद्धौतीर्थे संन्यस्ते ताते पतिते सति येभ्य एव पितादद्यात्तेभ्यो दद्यात्स्वयं सुतः” इति तीर्थ इव प्राय-श्चिताङ्गश्राद्धेऽपि तस्याधिकारः ।“पितरि जीवति यः श्राद्धं कुर्य्यात् येषां पिता-कुर्य्यात्तेषां कुर्य्यात् पितरि पितामहे जीवनि येषांपितामहः कुर्य्यात् तेषां कुर्य्यात् त्रिषु जीवत्सु नैव कुर्य्यात्”विष्णु० स० “जीवत्पितृकोऽपि” कात्या० श्रौ० सू०पिण्डपितृयज्ञेऽघिक्रियते “जीवान्तर्हितेऽपि” कर्कसू०“जोवपितृकस्य जीवेन पित्रादिना अन्तर्हितेऽपि व्यवहि-तेऽपि पितामहादेः पिण्डदानं भवति सोमादाविव “येभ्यएव पिता दद्यात्तेभ्यो दद्यात्तथा सुतः” इति कर्कस्मृतेः ।“जीवपितृकस्य होमान्तमनारम्भो वा” सू० ।“जोवपितृकस्य यजमानस्य होमान्तमेव पिण्डपितृयज्ञ-संज्ञं कर्म भवति अथवाऽनारम्भ एव पिण्डपितृयज्ञस्यवाशब्दः पूर्वपक्षनिरासार्थः अत्रानारम्भपक्ष एव युक्तःयतः पिण्डदानं प्रधानम् तदभावे होमस्याङ्गभूतस्या-नुष्ठानं घटते एवं जीवान्तर्हितेऽपीति पक्षं दूप-यित्वा जीवत्पितृकस्य होमान्तमित्यत्रोपपत्तिमाह” कर्कः ।“न व्यवेते जातूकर्ण्यो जीवन्तमति ददातीति” सू० ।“जीवपितृकस्य होमान्तकर्म्म कुर्वतः यतोजातूकर्ण्यआचार्य्यो व्यवेते जीवता पित्रा व्यवहिते पितामहादौपिण्डदानं भवतोत्याह कुतो भवतीत्यत्र हेतुः “नजीवन्तमति ददातीति” शाखान्तरे श्रवणात् अतःप्रधानेपिण्डदाने जीवत्पितृकस्य निषिद्धे अनारम्भ एव घटतेन होमान्तता आपस्तम्बः “यदि जीवत्पिता दद्यादाहोमात् कृत्वा विरमेदिति” मानवे “यदि दद्याद्येभ्यएव पिता दद्यात्तेभ्यो दद्यादिति” काठके “पितापुत्रौचेदाहिताग्नी स्यातां येभ्यः पिता तेभ्यः पुत्रो दद्यात्पिता प्रेतः स्यात् पितामहो जीवेत् पित्रे पिण्डंनिधाय पितामहात्पराभ्यां द्वाभ्यां दध्यादिति” कर्क०जीवपुत्रोऽप्यत्र समासान्तविधेरनित्यत्वात् कप् ।जीवपितृ इत्यपि तत्रार्थे