| YouTube Channel

जीवकाद्यतैल (jIvakAdyataila)

 
वाचस्पत्यम्
Sanskrit
जीवकाद्यतैल
न०
चक्रदत्तोक्ते तैलभेदे तच्च तैलं द्विविधंलघुवृहद्भेदात् यदाह तत्रैव “जीवकर्षभकौ द्राक्षा-सिता यष्टी बलोत्पलैः तैलं नस्यं पयः पक्वं वातपित्त-शिरोगदे” लघु “जीवकर्षभकौ द्राक्षा मधूकं मधुकंवला नीलोत्पलं चन्दनञ्चविदारी शर्करा तथा तैल-प्रस्थं पचेदेभिः शनैः पयसि षड्गुणैः जाङ्गलस्य तुमांसस्य तुलार्द्धस्य रसेन तु सिद्धमेतद्भवेन्नस्यं तैलम-र्द्धावशेषकम् बाधिर्य्यं कर्णशूलञ्च तिमिरं गलशुण्ठि-काम् वातिकं पैतिकञ्चैव शीर्षरोगं नियच्छति ।दन्तचालं शिरः शूलमर्द्दितञ्चापकर्षति” वृहत् चक्रद०