| YouTube Channel

जीर्ण्णास्थिमृत्तिका (jIrNNAsthimRttikA)

 
वाचस्पत्यम्
Sanskrit
जीर्ण्णास्थिमृत्तिका स्त्री कृत्रिममृत्तिकाभेदे ।“अथ वक्ष्ये तु जीर्णास्थिमृत्तिकाकरणं प्रिये! ।शिलाजतुस्थले कुर्य्याद् दीर्घं गर्त्तं मनोहरम् निः-क्षिपेत् तत्र नानास्थिसञ्चयं द्विचतुष्पदाम् सर्जिक्षारंमहाक्षारं मृत्क्षारं लवणानि गन्धकोष्णजलंक्षेप्यं नानामूत्राणितत्र एवं कृत्वा मासषट्कं दद्यात्पाषाणमृत्तिकाम् कङ्कास्थ्यूर्द्ध्वं तदूर्द्ध्वन्तु कुर्य्याद्वह्नी-ष्टकां शुभाम् त्रिवर्षाज्जायते सर्वमेकीभूतं दृषत्-समम् ततो निष्कास्य तच्चूर्णं कृत्वा पात्राणि निर्म-मेत् प्रशस्तं भोजनं तत्र सूचयेदन्नदूषणम् महा-विषस्यंसंयोगात् तस्य भङ्गः प्रजायते दूषीविषादि-संयोगात् पात्रे स्फोटा भवन्ति हि तत्र क्षिप्तं क्षुद्र-विषं पात्रं कृष्णं प्रजायते एवं ज्ञात्वा तत्र दद्यान्नकदाचिद्विपादिकमिति रावणः” शब्दार्यचिन्तामणिः