| YouTube Channel

जीर्णोद्धारः (jIrNoddhAraH)

 
Apte Hindi
Hindi
जीर्णोद्धारः
पुं*
जीर्ण-उद्धारः -
"पुराने को नया बनाना, मरम्मत, विशेषकर किसी मन्दिर धर्मार्थ संस्था या धार्मिक, स्थान की"
शब्दकल्पद्रुमः
Sanskrit
जीर्णोद्धारः,
पुं,
(जीर्णानां भग्नमन्दिरादीनांउद्धारः संस्कारः ।) भग्नमन्दिरादेः संस्कारः ।यथा, विष्णुधर्म्मोत्तरतृतीयकाण्डे ।“यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते ।तस्य सीदति तद्राज्यं देववेश्म यथा तथा
कृत्वा शीर्णस्य संस्कारं तथा देवेशवेश्मनि ।द्बिगुणं फलमाप्नोति नात्र कार्य्या विचारणा
”विष्णुरहस्ये ।“पतितस्य यः कर्त्ता पतमानस्य रक्षिता ।विष्णोरायतनस्येह नरो विष्णुलोकभाक्
”अग्निपुराणे ।“पतितं पतमानन्तु तथार्द्धस्फुटितं नरः ।समुद्धृत्य हरेर्धाम द्बिगुणं फलमाप्नुयात्
”देवीपुराणे ।“मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जीर्णकारकः ।तस्मात् सर्व्वप्रयत्नेन जीर्णस्योद्धारमाचरेत्
”हयशीर्षपञ्चरात्रे ।“वापीकूपतडागानां सुरधाम्नां तथानघ ! ।प्रतिमानां सभानाञ्च संस्कर्त्ता यो नरो भुवि
पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः ।प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्म्मिते
प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः ।देवालयप्रतिष्ठा ख्याता तल्लिखनेन किम्
श्रीमूर्त्तिस्थापनेनैव संपूर्णा सा विशेषतः ।देवगृहं देवतायाः प्रतिष्ठाविधिना सदा
संस्कार्य्यं मनुजानान्तु समुदायोक्तकर्म्मणा
”इति श्रीहरिभक्तिविलासे २० विलासः