| YouTube Channel

जीर्णज्वरः (jIrNajvaraH)

 
Apte Hindi
Hindi
जीर्णज्वरः
पुं*
जीर्ण-ज्वरः -
"पुराना बुख़ार, अधिक दिनों से रहने वाला मन्द ज्वर"
शब्दकल्पद्रुमः
Sanskrit
जीर्णज्वरः,
पुं,
(जीर्णः पुरातनो ज्वरः ।) पुरा-तनज्वररोगः अथ जीर्णज्वराधिकारः तत्रजीर्णज्वरस्य सामान्यलक्षणमाह ।“यो द्वादशभ्यो दिवसेभ्य ऊर्द्धंदोषत्रयस्तद्द्विगुणेभ्य ऊर्द्धम् ।नृणां तनौ तिष्ठति मन्दवेगोभिषग्भिरुक्तो ज्वर एष जीर्णः
*
जीर्णज्वरस्यैव विशेषं वातवलासकमाह ।“नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति ।स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातवलासकी
”वातवलासकाख्यो ज्वरोऽस्यास्ति इति वात-वलासकी नर ईदृग्भवेत् शूनः शोथी ।श्लेष्मभूयिष्ठो बहुलश्लेष्मकः
*
अथ जीर्णज्वरस्य सामान्यचिकित्सा ।“जीर्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन ।लङ्घनात् भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा ।लङ्घयेत्तत्र तं पश्चात् पूर्व्ववत् कारयेत् क्रियाम्
”तथा पूर्व्ववत्
*
“निदिग्धिकानागरकामृतानांक्वाथं पिबेन्मिश्रितपिप्पलीकम् ।जीर्णज्वरारोचककासशूल-श्वासाग्निमान्द्यार्द्दितपीनसेषु
हन्त्यूर्द्ध्वजानयं प्रायः सायं तेनोपयुज्यते
”इति त्रिकण्टकक्वाथः
*
“पिप्पलीचूर्णसंयुक्तक्वाथश्छिन्नोद्भवोद्भवः ।जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथवा
अमृतायाः कषायन्तु शीतलीकृतमीरितम् ।मधुपादयुतं पीतं जीर्णज्वरहरं परम्
पिप्पलीमधुसंमिश्रं गुडूचीस्वरसं पिबेत् ।जीर्णज्वरकफप्लीहकासारोचकनाशनम्
जीर्णज्वरेऽग्निमान्द्ये शस्यते गुडपिप्पली ।कासाजीर्णारुचिश्वासहृत्पाण्डुज्वररोगनुत्
द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः ।पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी
श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा ।आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा
चूर्णितोऽयं गणो ज्ञेयः सर्व्वज्वरहरः परः ।भेदी रुचिकरः श्लेष्महर्त्ता दीपनपाचनः
”इति आमलक्यादिचूर्णम्
*
“द्राक्षामृता शटी शृङ्गी मुस्तकं रक्तचन्दनम् ।नागरं कटुका पाठा भूनिम्बः सदुरालभः
उशीरं धान्यकं पद्मं बालकं कण्टकारिका ।पुष्करं पिचुमर्द्दञ्च दशाष्टाङ्गमिदं स्मृतम्
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम्
”इति द्राक्षाद्यष्टादशाङ्गक्वाथः
*
“त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याथवा कणाः ।गव्यक्षीरेण संपिष्टा पिबेद्दश दिनानि हि
तथैव न्यूनयेदेता एवं विंशतिवासरान् ।पिबतां ज्वरशान्तिः स्यात् पाण्डरोगश्च शाम्यति
कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति ।त्रयादिवृद्धिर्यथाकफवृद्धिः दुग्धवृद्धिर्यथाग्निवृद्धिः ।इति वर्द्धमानपिप्पली
*
“वातश्लेष्मज्वरोक्ता स्यात् क्रिया वातवलासके ।जीर्णे ज्वरे कफे क्षीणे दाहतृष्णासमन्विते
पयः पीयूषसदृशं तन्नवे तु विषोपमम् ।चन्दनाद्यं हितं तैलं शीर्षाधिकारकीर्त्तितम्
तथा नारायणन्तैलं जीर्णज्वरहरं परम्
”इति जीर्णज्वराधिकारः इति भावप्रकाशः