| YouTube Channel

जीर्णज्वर (jIrNajvara)

 
शब्दसागरः
English
जीर्णज्वर
m.
(-रः) Fever of some continuance and diminished intensity.
E.
जीर्ण, and ज्वर fever.
Yates
English
जीर्ण-ज्वर (रः) 1.
m.
A fever gradu-
ally diminished.
Wilson
English
जीर्णज्वर
m.
(-रः) Fever of some continuance and diminished
intensity.
E.
जीर्ण, and ज्वर fever.
Monier Williams Cologne
English
जीर्ण—ज्वर
m.
a lingering fever with diminishing intensity,
Suśr.
i, 45
f.
Apte Hindi
Hindi
जीर्णज्वरः
पुं*
जीर्ण-ज्वरः -
"पुराना बुख़ार, अधिक दिनों से रहने वाला मन्द ज्वर"
Shabdartha Kaustubha
Kannada
जीर्णज्वर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹಳೆಯ ಜ್ವರ /ಬಿಡಲಾರದ ಜ್ವರ
व्युत्पत्तिः - > जीर्णश्चासौ ज्वरश्च
प्रयोगाः - > "शठी तमालकीभार्गी मेदामलकपोष्करैः क्षीराद्विगुणसंयुक्तं जीर्णज्वरमपोहति ।"
उल्लेखाः - > सुश्रुत० उत्तरतं० ३९-२२५
L R Vaidya
English
jIrRa-jvara {% m. %} lingering fever.
शब्दकल्पद्रुमः
Sanskrit
जीर्णज्वरः,
पुं,
(जीर्णः पुरातनो ज्वरः ।) पुरा-तनज्वररोगः अथ जीर्णज्वराधिकारः तत्रजीर्णज्वरस्य सामान्यलक्षणमाह ।“यो द्वादशभ्यो दिवसेभ्य ऊर्द्धंदोषत्रयस्तद्द्विगुणेभ्य ऊर्द्धम् ।नृणां तनौ तिष्ठति मन्दवेगोभिषग्भिरुक्तो ज्वर एष जीर्णः
*
जीर्णज्वरस्यैव विशेषं वातवलासकमाह ।“नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति ।स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातवलासकी
”वातवलासकाख्यो ज्वरोऽस्यास्ति इति वात-वलासकी नर ईदृग्भवेत् शूनः शोथी ।श्लेष्मभूयिष्ठो बहुलश्लेष्मकः
*
अथ जीर्णज्वरस्य सामान्यचिकित्सा ।“जीर्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन ।लङ्घनात् भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा ।लङ्घयेत्तत्र तं पश्चात् पूर्व्ववत् कारयेत् क्रियाम्
”तथा पूर्व्ववत्
*
“निदिग्धिकानागरकामृतानांक्वाथं पिबेन्मिश्रितपिप्पलीकम् ।जीर्णज्वरारोचककासशूल-श्वासाग्निमान्द्यार्द्दितपीनसेषु
हन्त्यूर्द्ध्वजानयं प्रायः सायं तेनोपयुज्यते
”इति त्रिकण्टकक्वाथः
*
“पिप्पलीचूर्णसंयुक्तक्वाथश्छिन्नोद्भवोद्भवः ।जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथवा
अमृतायाः कषायन्तु शीतलीकृतमीरितम् ।मधुपादयुतं पीतं जीर्णज्वरहरं परम्
पिप्पलीमधुसंमिश्रं गुडूचीस्वरसं पिबेत् ।जीर्णज्वरकफप्लीहकासारोचकनाशनम्
जीर्णज्वरेऽग्निमान्द्ये शस्यते गुडपिप्पली ।कासाजीर्णारुचिश्वासहृत्पाण्डुज्वररोगनुत्
द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः ।पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी
श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा ।आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा
चूर्णितोऽयं गणो ज्ञेयः सर्व्वज्वरहरः परः ।भेदी रुचिकरः श्लेष्महर्त्ता दीपनपाचनः
”इति आमलक्यादिचूर्णम्
*
“द्राक्षामृता शटी शृङ्गी मुस्तकं रक्तचन्दनम् ।नागरं कटुका पाठा भूनिम्बः सदुरालभः
उशीरं धान्यकं पद्मं बालकं कण्टकारिका ।पुष्करं पिचुमर्द्दञ्च दशाष्टाङ्गमिदं स्मृतम्
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम्
”इति द्राक्षाद्यष्टादशाङ्गक्वाथः
*
“त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याथवा कणाः ।गव्यक्षीरेण संपिष्टा पिबेद्दश दिनानि हि
तथैव न्यूनयेदेता एवं विंशतिवासरान् ।पिबतां ज्वरशान्तिः स्यात् पाण्डरोगश्च शाम्यति
कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति ।त्रयादिवृद्धिर्यथाकफवृद्धिः दुग्धवृद्धिर्यथाग्निवृद्धिः ।इति वर्द्धमानपिप्पली
*
“वातश्लेष्मज्वरोक्ता स्यात् क्रिया वातवलासके ।जीर्णे ज्वरे कफे क्षीणे दाहतृष्णासमन्विते
पयः पीयूषसदृशं तन्नवे तु विषोपमम् ।चन्दनाद्यं हितं तैलं शीर्षाधिकारकीर्त्तितम्
तथा नारायणन्तैलं जीर्णज्वरहरं परम्
”इति जीर्णज्वराधिकारः इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
जीर्णज्वर
पु०
कर्म्मधा० द्वादशाहाधिककालोत्पन्ने ज्वरेतल्लक्षणादिकं भावप्रका० उक्तं यथा ।“यो द्वादशभ्यो दिवसेभ्यः ऊर्द्धं दोषत्रयेभ्यो द्वि-गुणेभ्य ऊर्द्ध्वम् नॄणां तनौ तिष्ठति मन्दवेगो भिषग्-भिरुक्तो ज्वर एष जीर्णः” जीर्णज्वरस्यैव विशेषंवातवलासकमाह नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेणसिध्यति स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी ।वातबलासकी नर ईदृग्भवेत् शूनः शोथी श्लेष्मभूथिष्ठोबहुश्लेष्मकः जीर्ण्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन ।लङ्घनात् भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः ।पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा लङ्घयेत्तत्र तत्पश्चात् पूर्वामेवाचरेत् क्रियाम्” तथा पूर्ववत्