| YouTube Channel

जीर्णः (jIrNaH)

 
Apte Hindi
Hindi
जीर्णः
पुं*
- -
बूढ़ा आदमी
जीर्णः
पुं*
- -
वृक्ष
Wordnet
Sanskrit
Synonyms:
वृद्धः, जीर्णः, स्थविरः, वयोवृद्धः, गतायूः, गतवयस्कः, वयोगतः, जरी, जरणः, जरातुरः, जरण्डः, जरन्, जीर्णवान्, वयस्कः, प्रवयाः, वयोधिकः, अतीतवयाः, उत्तरवयाः, उत्तरवयस्कः, अतिवयस्कः
noun
गतयौवनः।
"अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। "/ वृद्धास्ते विचारणीयचरिताः"
Synonyms:
जीरकः, जीरः, जीर्णः, दीप्यः, जीरणः, सुगन्धम्, सूक्ष्मपत्रः, कृष्णसखी, दूता, सुषवी, अजाजी, श्वेतः, कणा, अजाजीका, वह्निशिखः, मागधः, दीपकः
noun
वणिग्द्रव्यविशेषः अस्य गुणाः गन्ध-युक्तत्व-रुचि-स्वर-कारित्व-वात-गुल्मध्मान-अतीसारग्रहणी-क्रिमिनाशित्वादयः।
"माता जीरकेण आम्लसूपं भाजयति।"
शब्दकल्पद्रुमः
Sanskrit
जीर्णः,
पुं,
(जीर्य्यत्यनेनेति जॄ + करणे क्तः ।)जीरकः इति राजनिर्घण्टः
(वृक्षः इतिहेमचन्द्रः १८०
)
जीर्णः, त्रि, (जीर्य्यतीति जॄ + “गत्यर्थाकर्म्मक-श्लिषेति ।” ७२ इति कर्त्तरिक्तः ।) वृद्धः इत्यमरः ४२
पुरा-तनः इति हेमचन्द्रः
(यथा, देवीभाग-वते २० १७ ।“तत्याज देहंधर्म्मात्मा देही जीर्णमिवाम्बरम्
”)गतबहुवयः जराविशिष्टः पक्वः पाक-विशिष्टः
*
(यथा, चाणक्ये ७९ ।“जीर्णमन्नं प्रशंसीयात् भार्य्याञ्च गतयौवनाम् ।रणात् प्रत्यागतं शूरं शस्यञ्च गृहमागतम्
”)अथ जीर्णद्रव्याणि ।“नारीकेलफलेषु तण्डुलमथ क्षीरं रसाले हितंजम्बीरोत्थरसो घृते समुचितः सर्पिस्तु मोचा-फले ।गोधूमेषु कर्क्कटी हिततमा मांसात्यये काञ्जिकंनारङ्गे गुडभक्षणञ्च कथितं पिण्डारके कोद्रवः
पिष्टान्ने सलिलं पियालफलजे पथ्या हिता माषजेखण्डंक्षीरभवे तु तक्रमुचितं कोष्णाम्बु कोलम्बजे ।मत्स्ये चूतफलं त्वजीर्णशमनं मध्वम्बुपानात्ययेतैलं पौष्करजे कटुप्रशमनं शेषांस्तु बुद्ध्याजयेत्
पनसे कदलं कदले घृतंघृतपाकविधावपि जम्बुरसः ।तदुपद्रवशान्तिकरं लवणंलवणेषु तण्डुलवारि वरम्
नारिकेलफलतालबीजयोःपाचनं इह तण्डुलं विदुः ।ते वदन्ति मुनयोऽथ तण्डुलान्क्षीरवारि परिपाचयत्यपि
दाडिमामलकतालतिन्दुकी-बीजपूरलवलीफलान्यपि ।वाकुलेन फलेन पाचयेत्पाकमेति बकुलं स्वमूलतः
मधूक-मालूर-नृपादनानांपरूषखर्ज्जूरकपित्थकानाम् ।पाकाय पेयं पिचुमर्द्दबीजंघृतेऽपि तक्रं प्रवदन्ति पथ्यम्
गोधूममाषहरिमन्थसतीनमुद्ग-पाको भवेदिति मातुलपत्रकेण ।खर्ज्जूरिकाविशकशेरुसितासु शस्तंशृङ्गाटके मधुफलेष्वपि भद्रमुस्तम् ।पिशितपनसयोः स्यादाम्रबीजेन पाकःकृशरमहिषयोषित्क्षीरयोः सैन्धवेन ।चिपिटपरिणतिः स्यात् पिप्पलीदिप्पकाभ्या-मपहरति तुषाम्भो वैदलानामजीर्णम्
कर्पूरपूगीफलनागवल्ली-काश्मीरजातीफलजातिकाशम् ।कस्तूरिका सिह्लकनारिकेल-जलं पचत्याशु समुद्रफेनः
श्यामाकनीवारकुलत्थषष्टि-निष्पावकङ्गूदधिमस्तकस्तु ।चिञ्चाकुलत्थौ तिलतैलयोगात्जटाब्दनादस्य निहन्त्यथाम्रम्
कशेरुशृङ्गाटमृणालमृद्दी-खर्ज्जूरखण्डा अपि नागरेण ।पलाशभस्माम्बु तथार्द्रजो वारसो निहन्याद्रसमिक्षुजातम्
अम्लेन केनाप्यथ व्योषणेनकोष्णाम्बुना वा घृतमेति पाकम् ।तिलादितैलान्यपि काञ्जिकेनसर्ज्जस्य मज्जा पनसामलक्यौ
किमत्र चित्रं बहुमांसमत्स्य-भोजी सुखी स्यात् परिपीय शुक्तम् ।इत्यद्भुतं केवलवह्निपक्व-मांसेन मत्स्यं परिपाकमेति
कपोतपारावतनीलकण्ठ-कपिञ्जलानां पिशितानि जग्ध्वा ।काशस्य मूलं परिपेयमुष्णंसुखीभवेन्ना बहुशो भूतम्
व्योषै रसाला सुरभीयवस्तु-मण्डेन कोष्णेन विपाकमेति ।शङ्खस्य चूर्णेन हयारिनारी-पयोदधिक्षीरमुपैति पाकम्
वटो वेसवाराल्लवङ्गेन फेणी-शमं पर्पटः शिग्रुबीजेन याति ।कणामूलतो लड्डुका पूपकादे-र्व्विपाको भवेच्छष्कुलीमण्डयोश्च
श्वाविद्गोधा गण्डकाश्चित्रतैलाद्-यावत् क्षारात् कोलकूर्म्मादयोऽपि ।जीर्य्यन्त्येवं पायसो मुद्गयूषात्सामुद्रादप्यारनालं सुखाय
तप्तं तप्तं हेम वा तारमग्नौतोये क्षिप्तं सप्तकृत्यस्तदम्भः ।पीत्वावश्यं दीर्घकालोपपन्न-मम्भो जीर्णं शीघ्रमेवं जहाति
पालङ्किकाकेमुककारवल्ली-वार्त्ताकुवंशाङ्कुरमूलकानाम् ।उपोदकालावुपटोलकानांसिद्धार्थको मेघवरस्य पक्ता
शुण्ठीसतीनस्य नागरङ्ग-जम्बीरयोः कोद्रवको निहन्ता ।जरामिरा गैरिकचन्दनाभ्या-मभ्येति शीघ्रं बहुशो भूतम्
पटोलवंशाङ्कुरकारवल्ली-फलान्यलावूनि बहूनि जग्धा ।क्षारोदकं ब्रह्मतरोर्न्निपीयभोक्तुं पुनर्व्वाञ्छति तावदेव
विपच्यते शूरणको गुडेनतथालुकं तण्डुलतोयपानात् ।जम्बीरनीरेण निशारशोनंमुस्तेन तूर्णं परिपाकमेति
चञ्चूकसिद्धार्थकवास्तुकानांगायत्त्रिसारक्वथितेन पाकः ।शाकानि सर्व्वाण्युपयान्ति पाकंक्षारेण सद्यस्तिलनालजेन
आम्रातकोदुम्बरपिप्पलीनांफलानि प्लक्षवटादिकानाम् ।स्युः शामनं पर्य्युषितोदकेनपियालमज्जा कदुष्णकेन
स्नेहाजीर्णं रोगिणां मुद्गचूर्णंज्वालां मुस्तो हन्ति वैरेचकानाम् ।माषो भूयान्निम्बमूलेन पाक-श्चिञ्चा मुञ्चत्यम्लतां चूर्णयोगात्
उष्णेन शीतं शिशिरेण चोष्ण-मम्लेन क्षारगणो गुणाय ।स्नेहेन तीक्ष्णं वमनातियोगेसिता हिता स्यादिति काशिराजः
ताम्बूलमध्यस्थितचूर्णकेनसंदह्यते यस्य मुखं नरस्य ।तैलेन वा केवत्वकाञ्जिकेनसुखाय गण्डूषमसौ विदध्यात्
शीतोदकं नस्यजरोगहारिनारीपयश्चाञ्जनरुग्विनाशि ।एलोदकं धूमगदे प्रशस्तंधात्रीप्रलेपोऽतिविरेचनेषु
मृगस्य मांसं श्रमजेऽनुकूलंप्रवातसुप्तिः सुरतावसाने ।क्षीरोषणासैन्धवसाधितन्तुच्छागाण्डमुक्तं सुरतातिरेके
श्रवणपूरणजे तिलतैलतःश्रवणपूरणमेव सुखं विदुः ।कबलजेषु गदेष्वथ कारयेत्कबलमार्द्रकजद्रवजं पुनः
”इति जीर्णमञ्जरी