| YouTube Channel

जिह्वारोग (jihvAroga)

 
शब्दकल्पद्रुमः
Sanskrit
जिह्वारोगः,
पुं,
(जिह्वाया रोगः ।) मुखरोगा-न्तर्गतरसनाजातव्याधिः तत्र जिह्वारोगाणांनिदाननामसङ्ख्याः प्राह ।“वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः ।उपजिह्विका गदा जिह्वायां पञ्च कीर्त्तिताः
”तत्र वातजस्य लक्षणमाह ।जिह्वानिलेनस्फुटिता प्रसुप्ताभवेच्च शाकच्छदनप्रकाशा ।स्फुटितामनाग्विदीर्णा प्रसुप्ता रसानभिज्ञ-तया सुप्तेव शाकच्छदनप्रकाशा शाको मरु-भूमिजो दुमः तद्वत् कण्टकचिता
*
पित्तजमाह ।पित्तात् सदाहैरुपचीयते चदीर्घैः सरक्तैरपिकण्टकैश्च ।अयं रोगो लोके जलीति ख्यातः जाडीतिवङ्गभाषा
*
कफजमाह ।कफेन गुर्व्वीं बहलाचिता चमांसोच्छ्रयैः शाल्मलिकण्टकाभैः ।बहला स्थूला मांसोच्छ्रयैः मांसजकण्टकैः
*
अलासमाह ।जिह्वातले यः श्वयथुः प्रगाढःसोऽलाससंज्ञः कफरक्तमूर्त्तिः ।जिह्वां सरुक् स्तम्भयति प्रवृद्धोमूले जिह्वा भृशमेति पाकम्
प्रगाढः प्रकर्षेण गाढो दारुणः कफरक्तमूर्त्तिःकफरक्ताभ्यां मूर्त्तिर्यस्य कफरक्तज इत्यर्थः ।जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः भृशं पाकेनपित्तञ्च अतस्त्रिदोषजोऽयम् असाध्यत्व-ञ्चास्य
*
उपजिह्विकामाह ।जिह्वाग्ररूपः श्वयथुश्च जिह्वा-मुन्नाम्य जातः कफरक्तयोनिः ।प्रसेककण्डूपरिदाहयुक्तःप्रकथ्यतेऽसायुपजिह्विकेति
जिह्वाग्ररूपः जिह्वाग्राकृतिः
*
अथ जिह्वारोगाणां चिकित्सा ।“जिह्वागतविकाराणां शस्तं शोणितमोक्षणम् ।गुडुचीपिप्पलीनिम्बकवलः कटुभिः सुखः
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम् ।कण्टकेष्वनिलोत्थेषु तत् कार्य्यं भिषजा खलु
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते ।प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम्
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ।पिप्पल्यादिर्म्मधुयुतः कार्य्यस्तु प्रतिसारणे
उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् ।शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत्
व्योषक्षाराभयावह्निचूर्णमेतत् प्रघर्षणम् ।उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत्
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
जिह्वारोग
पु०
मुखरोगान्तर्गतजिह्वागतरोगभेदे तल्लक्ष-णादि भावप्र० उक्तं यथा ।“वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः उपाज-ह्विका गदा जिह्वायां पञ्च कीर्त्तिताः तत्र वातजस्यलक्षणमाह जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाक-च्छदनप्रकाशा स्फुटिता मनाग्विदीर्णा प्रसुप्ता रसा-नभिज्ञतया सुप्तेव शाकच्छदनप्रकाशा शाको मरुभूमिजातो द्रुमः तद्वत् कण्टकाचिता पित्तजमाह ।पित्तात् सदाहैरुपचीयते दीर्घैः सरक्तैरपि कण्टकैश्च ।कफजमाह कफेन गुर्वी बहुलाचिता मांसोच्छ्रयैःशालमलिकण्टकाभैः बहुला स्थूला मांसोच्छयैःमांसजकण्टकैः अलासमाह जिह्नास्थले यः श्वयथुःप्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः जिह्वां सरुकस्तम्भयति प्रवृद्धो मूले जिह्वा भृशमेति पाकम् ।प्रगाढः प्रकर्षेण गाढो दारुणः कफरक्तमूर्त्तिःकफरक्ताभ्यां मूर्त्तिर्यस्य कफरक्तज इत्यर्थः जिह्मा-स्तम्भेन वायुरत्र बोद्धव्यः भृशं पाकेनेति पित्तञ्च अत-स्त्रिदोषजोऽयम् असाध्यत्वञ्चास्य उपजिह्विका-माह जिह्वाग्ररूपः श्वयथुश्च जिह्वामुन्नाम्य जातःकफरक्तयोनिः प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसा-वुपजिह्विकेति जिह्वाग्ररूपः जिह्वाग्राकृतिः” भावप्र० ।“पक्रान्नहरणाच्चैव जिह्वारोगः प्रजायते” शातात०