| YouTube Channel

जिह्वानिर्लेखनं (jihvAnirlekhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
जिह्वानिर्लेखनं,
क्ली,
(जिह्वाया निर्लेखनं संस्कारः ।)जिह्वामार्ज्जनम् जिवआँचडान इति भाषा ।जिह्वामार्ज्जनद्रव्यम् जिवाँचडा चेयाडिइति भाषा तत् दशाङ्गुलं कोमलं कृशंस्वर्णरूप्यताम्रलोहनिर्म्मितं जिह्वामलापकर्षणेप्रशस्तम् तस्य गुणः वक्त्रवैरस्यजिह्वाश्रित-मलनाशित्वम् आरोग्यरुचिकारित्वञ्च इतिराजवल्लभः
(“जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव ।तन्मलापहरं शस्तं मृदुश्लक्ष्णं दशाङ्गुलम् ।मुखवैरस्यदौर्गन्ध्य-शोफजाड्यहरं सुखम्
”अस्याधिक्येन रोगजनकता यथा, --“जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः ।कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू
करोति विवृतास्यत्वमथवा संवृतास्यताम् ।हनुस्रंसः तेन स्यात् कृच्छ्राच्चर्व्वणभाषणम्
”इति वाभटे निदानस्थाने पञ्चदशेऽध्याये
)