| YouTube Channel

जिषु (jiSu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जिष्
मूलधातुः:
जिषु
धात्वर्थः:
सेचने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
जेषति
अनुबन्धादिविशेषः:
उदित्
धातुप्रदीपः
Sanskrit
जिषुँ जिषु
मानकरूपान्तरम् - विषुँ
विषु
मानकरूपान्तरम् - मिषुँ
मिषु सेवने
- जेषति जेषिता जेषित्वा जिषित्वा जिष्ट्वा वेषति मेषति मेषः-अच् ।। 697-699 ।।
क्षीरतरङ्गिणी
Sanskrit
जिषुँ जिषु
मानकरूपान्तरम् - विषुँ
विषु
मानकरूपान्तरम् - मिषुँ
मिषु सेचने
- परिवेषति ह्वादौ विष्लृ व्याप्तौ (314) वेवेष्टि मेषति पचादौ (गण0 31134) मेषः तुदादौ मिष स्पर्धायाम् (659) मिषति मिश मश शब्दे (1476) तालव्यान्तौ 676-678
धातुवृत्तिः
Sanskrit
जिषुँ जिषु
मानकरूपान्तरम् - विषुँ
विषु
मानकरूपान्तरम् - मिषुँ
मिषु (अर्थः) सेचने
जेषति जिजेष ( जेषिता जिजिषिषति जिजेषिषति जिषित्वा जेषित्वा ) "रलोव्युपधात्'' इति कित्त्वविकल्पः "उदितोवा'' इति क्त्वायामिडभावे ( जिष्ट्वा जिजिष्यते जेजेष्टि जेषयति अजीजिषत जिष्टम् वेषति विवेष विविषतुः विवेषिथ विविषिव ) शिषिं पिषिं शुष्यतिपुष्यती त्विषिं श्लिषिं विर्षितुष्यतिद्वियति द्विषिमित्यनिट्कारिकापाठादस्यानिट्स्यानिट्त्वेपि क्रादिनियमादत्रेट् ( वेष्टा वेक्ष्यति अविक्षत् ) "शल इगुपधा'' इति क्सः ( विविक्षति ) "हलन्ताच्च'' इति सनः कित्त्वम् उदित्त्वात् क्त्वायामिङ्विकल्पः ( विषित्वा वेषित्वा विष्ठ्वा विष्टम् वेवेण संपादी वेष्यो नटः ) "कर्मवेषाद्यत्'' इति तृतीयान्तात्संपादिन्यर्थे यत् संपतित्तः शोभातिशयः वेषेणातृयन्तं शोभत इत्यर्थः विष्टलृ व्याप्तौ जुहोत्यादौ 1 विष विप्रयोग इति क्र्यादौ (मेषतीत्यादि) जेषतिवत् मेष इति पचादिषु दर्शनादचि चित्त्वात्स्त्रियां (मेष) अयं स्पर्द्धायां तुदादौ 686
कृदन्तरूपमाला
Sanskrit
1 {@“जिषु सेचने”@} 2 जेषकः-षिका, जेषकः-षिका, जिजेषिषकः-जिजिषिषकः-षिका, जेजिषकः-षिका
जेषिता-त्री, जेषयिता-त्री, जिजेजिषिता-जिजिषिषिता-त्री, जेजिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि जिमधातुवत् 3 बोध्यानि।
निष्ठायाम्- 4 जिष्टम्-ष्टः-ष्टवान्, क्विपि- 5 प्रजिट्-प्रजिड्, क्त्वायाम्- 6 जेषित्वा- जिषित्वा-जिष्ट्वा
इति रूपाणि भवन्ति।
प्रासङ्गिक्यः
01
=>
(६०५)
02
=>
(१-भ्वादिः-६९७। सक। सेट्। पर।)
03
=>
(६०२)
04
=>
[[१। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति इण्णिषेधः।]]
05
=>
[[२। ‘झलां जशोऽन्ते’ (८-२-३९) इति जश्त्वेन षकारस्य डकारः। चर्त्ववि कल्पः।]]
06
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपत्रयम्।]]