| YouTube Channel

जिताष्टमी (jitASTamI)

 
Monier Williams Cologne
English
जिताष्टमी
f.
=
जीमूताष्ट्°,
W.
Shabdartha Kaustubha
Kannada
जिताष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆಶ್ವಯುಜ ಕೃಷ್ಣಾಷ್ಟಮಿ /ಜೀಮೂತವಾಹನನನ್ನು ಪೂಜಿಸುವ ಅಷ್ಟಮಿ
शब्दकल्पद्रुमः
Sanskrit
जिताष्टमी,
स्त्री,
(जिता पुत्त्रसौभाग्यदानेन सर्व्वोत्-कर्षेण स्थिता या अष्टमी ।) गौणाश्विनकृष्णा-ष्टमी सैव जीमूताष्टमी यथा, “आश्विन-कृष्णाष्टम्यां जीमूतवाहनपूजा तत्राष्टमीप्रदोषव्यापिनी ग्राह्या भविष्योत्तरे ।“इषे मास्यसिते पक्षे अष्टमी या तिथिर्भवेत् ।पुत्त्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्त्रिका
शालिवाहनराजस्य पुत्त्रो जीमूतवाहनः ।तस्यां पूज्यः नारीभिः पुत्त्रसौभाग्यलिप्सया
प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः ।पुस्करिणीं विघायाथ प्राङ्गणे चतुरस्रिकाम्
”किञ्च विष्णुघर्म्मोत्तरे ।“पूर्व्वेद्युरपरेद्युर्व्वा प्रदोषे यत्र चाष्टमी ।तत्र पूज्यः सदा स्त्रीभी राजा जीमूतवाहनः
”तथा यद्दिने प्रदोषव्यापिनी अष्टमी तत्रैवव्रतं उभयदिने चेत् परदिने त्रिसन्ध्यव्यापित्वात् ।उभयदिने प्रदोषाव्याप्तौ उदयगामिन्यां तदुक्तंनिर्णयामृतसिन्धौ ।“लक्ष्मीव्रतं चाभ्युदिते शशाङ्केयत्राष्टमी चाश्विनकृष्णपक्षे ।तत्रोदयं वै कुरुते दिनेश-स्तदा भवेज्जीवितपुत्त्रिका सा
इति ।अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् ।“आश्विनस्यासिताष्ठम्यां याः स्त्रियाऽन्नं हिभुञ्जते ।मृतवत्सा भवेयुस्ता वैधव्यञ्च भवेद्ध्रुवम्
”इति वचनात् ।इति वाचस्पतिमिश्रकृतचमत्कारचिन्तामणिः
वाचस्पत्यम्
Sanskrit
जिताष्टमी स्त्री आश्विनकृष्णाष्टम्यां जीमूतवाहनपूजाद्यङ्गभू-तायां जीभूताष्टम्यां तत्र कर्त्तव्यमुक्तं चमत्कारचि०भविष्योत्तरे “इषेमास्यसिते पक्षे अष्टमी या तिथिर्भवेत् ।पुत्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्रिका ।शालिवाहनराजस्य पुत्रो जीमूतवाहनः तस्यां पूज्यःस नारीभिः पुत्रसौभाग्यलिप्सया प्रदोषसमयेस्त्रीभिः पूज्यो जीमूतवाहनः पुष्करिणीं विधायाथप्राङ्गणे चतुरस्रिकाम्” विष्णुधर्म्मोत्तरे “पूर्वेद्युरपरेद्युर्वा प्रदोषे यत्र चाष्टमी तत्र पूज्यः सदास्त्रीभिः राजा जीमूतवाहनः” तथा यद्दिनेप्रदोषव्यापिनी अष्टमी तत्रैव व्रतम् उभयदिने चेत्परदिने त्रिसन्ध्यव्यापित्वात् उभयदिने प्रदोषाव्याप्तौउदयगामिन्यां तदुक्तं निर्णयामृतसिन्धौ “लक्ष्मीव्रतं चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विनकृष्णपक्षे ।तत्रोदयं वै कुरुते दिनेश! तदा भवेज्जीवितपुत्रिकासा” इति अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् “आश्विम-म्यासिताष्टम्यां याः स्त्रियोऽन्नं हि भुञ्जते मृतवत्-सा भवेयुस्ता वैधव्यञ्च भवद्ध्रुवम्” वचनात्