| YouTube Channel

जिज्रीषिता-त्री (jijrISitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ज्रि अभिभवे”@} 2 ‘अभिभवः = न्यूनीकरणम्, न्यूनीभवनं च।
आद्ये सकर्मकः, द्वितीये त्वकर्मकः।’ इति सि।
कौमुदी।
क्षीरस्वामी तु ‘जृ’ इति पठति।
तन्मते जारकः, जरन् इत्यादीनि रूपाणि।
देवः क्षीरस्वामिसम्मतपाठस्या- नुकूलः।
यदाह -- ‘जृणाति जीर्यति जरत्येकार्थे जारयत्यपि।
3’ इति।
धातुकाव्ये तु ‘ज्ञि अभिभवे’ इति पठित्वा, तदनुगुणः प्रयोगोऽपि प्रदर्शितः।
यथा-- ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्।’ 4 इति।
ज्रायकः-यिका, ज्रायकः-यिका, जिज्रीषकः-षिका, जेज्रीयकः-यिका
ज्रेता-त्री, ज्राययिता-त्री, जिज्रीषिता-त्री, जेज्रीयिता-त्री
ज्रयन्-न्ती, इत्यादीनि सर्वाण्यपि रूपाणि जिधातूपादानेन विहितानि कार्याणि विना, तद्वत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(६२९)
02
=>
(१-भ्वादिः-९४७। सक। अनि। पर।)
03
=>
(श्लो। ३९)
04
=>
(२-३५)
05
=>
(५९९)