| YouTube Channel

जिज्ञास्यः (jijJAsyaH)

 
शब्दकल्पद्रुमः
Sanskrit
जिज्ञास्यः, त्रि, (जिज्ञास्यते इति ज्ञा + सन् +कर्म्मणि यत् ।) जिज्ञासितव्यः जिज्ञासनीयः ।(विचार्य्यम् यथा, भागवते ३५ ।“एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्व्वत्र सर्व्वदा
”“आत्मनस्तत्त्वजिज्ञासुना एतावदेव जिज्ञास्यंविचार्य्यम्
इति श्रीधरस्वामी
)