| YouTube Channel

जिग्लासम् (jiglAsam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ग्लै हर्षक्षये”@} 2 हर्षक्षयः = धातुक्षयः।
3 ग्लायकः-यिका, 4 ग्लपकः-ग्लापकः-प्रग्लापकः-पिका, 5 जिग्लासकः-सिका, जाग्लायक-यिका
6 ग्लाता-त्री, ग्लपयिता-ग्लापयिता-त्री, जिग्लासिता-त्री, जाग्लायिता-त्री
7 ग्लायन् 8 -न्ती, ग्लपयन्-ग्लापयन्-न्ती, जिग्लासन्-न्ती
-- ग्लास्यन्-न्ती-ती, ग्लपयिष्यन्-ग्लापयिष्यन्-न्ती-ती, जिग्लासिष्यन्-न्ती-ती
-- -- ग्लपयमानः-ग्लापयमानः, -- जाग्लायमानः
-- ग्लपयिष्यमाणः-ग्लापयिष्यमाणः, -- जाग्लायिष्यमाणः
सुग्लाः-सुग्लौ-सुग्लाः
-- -- 9 ग्लानः- 10 ग्लानम्-ग्लानवान्, 11 ग्लपितः-ग्लापितः, जिग्लासितः, जाग्लायितः-तवान्
12 सुग्लः, प्रग्लः 13, 14 ग्लायः, 15 ग्लास्नुः 16 ग्लपः-ग्लापः, जिग्लासुः, 17 जाग्लः
18 ग्लातव्यम्, ग्लपयितव्यम्-ग्लापयितव्यम्, जिग्लासितव्यम्, जाग्लायितव्यम्
19 प्रणिग्लानीयम्-प्रनिग्लानीयम्, ग्लपनीयम्-ग्लापनीयम्, जिग्लासनीयम्, जाग्लायनीयम्
20 ग्लेयम्, ग्लप्यम्-ग्लाप्यम्, जिग्लास्यम्, जाग्लाय्यम्
21 ईषद्ग्लानः-दुर्ग्लानः-सुग्लानः
-- -- ग्लायमानः, ग्लप्यमानः-ग्लाप्यमानः-प्रग्लाप्यमानः, जिग्लास्यमानः, जाग्लाय्यमानः
ग्लायः, ग्लपः-ग्लापः, जिग्लासः, जाग्लायः
ग्लातुम्, ग्लपयितुम्-ग्लापयितुम्, जिग्लासितुम्, जाग्लायितुम्
22 ग्लानिः, 23 प्रग्ला, ग्लपना-ग्लापना, जिग्लासिषा, जाग्लाया
ग्लानम्, ग्लपनम्-ग्लापनम्, जिग्लासनम्, जाग्लायनम्
ग्लात्वा, ग्लपयित्वा-ग्लापयित्वा, जिग्लासित्वा, जाग्लायित्वा
प्राग्लाय, 24 प्रग्लाप्य, प्रजिग्लास्य, प्रजाग्लाय्य
ग्लायम् २, ग्लात्वा २, 25 ग्लपम् -ग्लापम् २, ग्लपयित्वा -ग्लापयित्वा २, जिग्लासम् २, जिग्लासित्वा २, जाग्लायम्
जाग्लायित्वा २। 26 ग्लौः।
27
प्रासङ्गिक्यः
01
=>
(४५२)
02
=>
(१-भ्वादिः-९०३। अक। अनि। पर।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यनेनानैमित्तिके आत्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
04
=>
[[२। अनैमित्तिके आत्त्वे, ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां--’ (७-३-३६) इति पुगागमे ‘ग्लास्नावनुवमां च’ (गणसूत्रम्-भ्वादिः) इत्यनेनानुपसृष्टस्य ग्लाधातोर्मित्त्वं- वैकल्पिकम्। मित्त्वपक्षे, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र बोध्यम्। उपसर्गसमभिव्याहारे तु मित्त्वं
\n\n तेन ‘प्रग्लापकः’ इत्येव।]]
05
=>
[[३। धातोरस्यानुदात्तत्वात्, ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इत्यनेन सनः इडभावे, ‘सन्यङोः’ (६-१-९) इति द्वित्वे, अभ्यासे, ‘सन्यतः’ (७-४-७९) इतीत्त्वम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[पृष्ठम्०४४६+ २६]
07
=>
[[१। शित्परकत्वेनात्वाभावे, ‘एचोऽयवायावः’ (६-१-७८) इत्यायादेशः।]]
08
=>
[[आ। ‘ततो रावणमाख्याय द्विषन्तं पततां वरः। व्रणवेदनया ग्लायन् ममार गिरिकन्दरे।।’ भ। का। ६-४३।]]
09
=>
[[२। ‘संयोगादेरातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठातकारस्य नकारः।]]
10
=>
[[B। ‘धयन् दृशा ग्लानरुचिं कृष्णं म्लानिं त्यजन् द्यानमले जलान्ते।’ धा। का। २-३०।]]
11
=>
[[C। ‘आजिघ्रैः पुष्पगन्धानां पतङ्गैर्ग्लपिता वयम्।।’ भ। का। ६-७८।]]
12
=>
[[३। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
13
=>
[[ड्। ‘अज्ञो यो यस्य वा नास्ति प्रियः प्रग्लो भवेन्न सः।।’ भ। का। ६। ७७।]]
14
=>
[[४। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इति कर्तरि णप्रत्यये युगागमः।]]
15
=>
[[५। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३९) इति तच्छीलादिषु कर्तृषु ग्स्नुप्रत्ययः। ‘श्रयुकः क्किति’ (७-२-११) इति इण्णिषेधः।]]
16
=>
[[E। ‘तान् विलोक्यासहिष्णुः सन् विललापोन्मदिष्णुवत्। वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्।।’ भ। का। :७। ४।]]
17
=>
[[६। ‘न धातुलोप आर्धधातुके’ (१-१-४) इति सूत्रस्य भाष्यकृता प्रत्याख्यानपक्षे, पृथगल्लोपे, ‘यङोऽचि च’ (२-४-७४) इत्यनेन यकारस्य लुकि, अकारस्य लुकि, अकारस्य स्थानिवद्भावेन अजाद्यार्धधातुकङित्परकत्वात् ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे ‘जाग्लः’ इति रूपम्। साम्भावनिकस्य ङित्त्व- स्यातिदेशलभ्यत्वादेव ‘यातिः’ इत्यत्र यङन्तात् क्तिचि अल्लोपस्य स्थानिवद्भा- वादुत्तरखण्डे आकारलोपो भवतीति बोध्यम्। ‘यङोऽचि च’ (२-४-७२) इत्यनेना- नैमित्तिके लुकि तु आकारलोपाभावे जाग्लाः इत्येव।]]
18
=>
[पृष्ठम्०४४७+ १८]
19
=>
[[१। ‘शेषे विभाषाऽकस्वादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
20
=>
[[२। आत्वे, ‘ईद्यति’ (६-४-६५) इत्याकारस्य ईकारे गुणः।]]
21
=>
[[३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
22
=>
[[४। ‘ग्लाम्लाज्याहाभ्यो निः (वा। ३-३-९५) इति स्त्र्यधिकारे क्तिनपवादो नि- प्रत्ययः।]]
23
=>
[[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
24
=>
[[६। उपसृष्टस्य धातोः मित्त्वाभावात् ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वो न।]]
25
=>
[[७। मित्त्वपक्षे, ‘चिण्णमुलोः--’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
26
=>
[[८। ‘ग्लानुदिभ्यां डौः’ (द। उ। २-१२) इति डौप्रत्ययः। ग्लौः = चन्द्रः। ग्लायतीति ग्लौः।]]
27
=>
[पृष्ठम्०४४८+ २९]