| YouTube Channel

जिगीषकः-षिका (jigISakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जि अभिभवे”@} 2 अभिभवो न्यूनीकरणं न्यूनीभवनं च।
आद्ये सकर्मकः।
शत्रून् जयति।
द्वितीये त्वकर्मकः।
अध्ययनात् पराजयते।
अध्येतुं ग्लायतीत्यर्थः।
इति सिद्धान्तकौमुदी।
शत्रून् जयन्- जेता वा।
अध्ययनात् पराजेता।
ग्लायन् इत्यर्थः।
‘3 जयेज्जयाभिभवयोराद्योऽर्थेऽसावकर्मकः।।’ उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मकः।’ 4 इति देवः।
एकस्मिन्नेव गणेऽर्थभेदात् पुनः पाठ इति बोध्यम्।
5 जायकः-यिका, जापकः-पिका, जिगीषकः-षिका, जेजीयकः-यिकाः
इत्यादीनि सर्वाण्यपि रूपाणि अव्यवहितपूर्वलिखितजिधातुवत् 6 बोध्यानि।
7 जित्यः।
प्रासङ्गिक्यः
01
=>
(६००)
02
=>
(१-भ्वादिः-९४६। सक। अक। अनि। पर।)
03
=>
[जयिः]
04
=>
(श्लो। १३-१४)
05
=>
[पृष्ठम्०५७०+ २२]
06
=>
(५९९)
07
=>
[[१। ‘विपूयविनीयजित्या मुञ्जकल्कहलिषु’ (३-१-११७) इत्यनेन हलौ कृष्टसमी- करणार्थे स्थूलकाष्ठे वाच्ये क्यप् भवति। जित्यो = हलिः। बलेन क्रष्टव्य इत्यर्थः।]]