| YouTube Channel

जिगर्हयिषिषन्-न्ती (jigarhayiSiSan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गर्ह निन्दायाम्”@} 2 आधृषीयः।
“ण्यन्तस्य ग्रहणे गृहेर्गृहयते तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, श्नि तु पदे गृह्णात्यगृह्णीत च।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा गर्हयेत् भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेत् गर्हते।।” 3 इति देवः।
अस्य धातोराधृषीयत्वात् ‘आधृषाद्वा’ 4 इति णिचो वैकल्पिकत्वम्।
णिच्पक्षे, णिजभावपक्षे कुत्सार्थकभौवादिकगर्हतिवत् 5 सर्वाणि रूपाणि ज्ञेयानि।
णिजभावपक्षे शुद्धात् सनि, यङि तत्र लिखितान्येव रूपाण्यस्यापि।
शुद्धाद्धातोः ‘शेषात् कर्तरि--’ 6 इति शतैव।
7 गर्हन्-न्ती, इति रूपम्।
ण्यन्तात् सनि तु-- 8 जिगर्हयिषकः-षिका, जिगर्हयिषितम्-तः-तवान्, जिगर्हयिषिता-त्री, जिगर्हयिषुः, जिगर्हयिषिषन्-न्ती, जिगर्हयिषितव्यम्, जिगर्हयिषिष्यन्-न्ती-ती, जिगर्हयिषणीयम्, जिगर्हयिषमाणः, जिगर्हयिष्यम्, जिगर्हयिषिष्यमाणः, ईषज्जिगर्हयिषः-दुर्जिगर्हयिषः-सुजिगर्हयिषः, जिगर्हयिट्- 9 जिगर्हयिड्-यिषौ-यिषः, जिगर्हयिष्यमाणः, जिगर्हयिषः
जिगर्हयिषित्वा
जिगर्हयिषितुम्
सञ्जिगर्हयिष्य
जिगर्हयिषा
जिगर्हयिषम्
जिगर्हयिषित्वा २। जिगर्हयिषणम्
इति रूपाणि इति विशेषः।
प्रासङ्गिक्यः
01
=>
(३८६)
02
=>
(१०-चुरादिः-१८४६। अक। सेट्। उभ।)
03
=>
(श्लो। १९४)
04
=>
(ग। सू। चुरादौ)
05
=>
(३८५)
06
=>
(१-३-७८)
07
=>
[[B। ‘वचन्तो मानन्तो हरिविभवमानन्दमखिला बभूबुर्गर्हन्तो मनसि नृपतिं मार्गितखलम्। स्त्रियश्चोत्कण्ठन्त्यो ददृशुरजितं मृष्टतनवः मृपस्त्वेतन्नामर्षत रिपुजनाधर्षितबलः।।’ धा। का। ३। ५२।]]
08
=>
[पृष्ठम्०३७९+ २४]
09
=>
[[१। क्विपि अतो लोपे कृते, ‘झलां जशोऽन्ते’ (८-२-३९) इति डकारः। चर्त्वविकल्पः]]