| YouTube Channel

जाहटकः-टिका (jAhaTakaH-TikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“हट दीप्तौ”@} 2 हाटकः-टिका, हाटकः-टिका, जिहटिषकः-षिका, जाहटकः-टिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककखतिवत् 3 बोध्यानि।
अत्र ‘कुहोश्चुः’ 4 इति सन्नन्ते यङन्ते अभ्यासे झकारः।
तस्य ‘अभ्यासे चर्च’ 5 इति जकारः।
एवं हकारादिषु सर्वेष्वपि धातुषु सन्नन्तयङन्तयोर्बोध्यम्।
6 हाटकम्।
प्रासङ्गिक्यः
01
=>
(१९८९)
02
=>
(१-भ्वादिः-३१२। अक। सेट्। पर।)
03
=>
(१४१)
04
=>
(७-४-६२)
05
=>
(८-४-५४)
06
=>
[[१। ‘संज्ञायाम्’ (३-३-१०९) इति ण्वुल्। बाहुलकात् क्लीबत्वम्। हाटकं सुवर्णम्।]]