| YouTube Channel

जासयिता-त्री (jAsayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जसु मोक्षणे”@} 2 ‘मोक्षणे जस्यतीति स्यात् णावत्रार्थे तु जंसयेत्।।
हिंसाताडनयोर्धात्वोः उदितोर्जासयेदिति।’ 3 इति देवः।
जासकः-सिका, जासकः-सिका, जिजसिषकः-षिका, जाजसकः-सिका
जसिता-त्री, जासयिता-त्री, जिजसिषिता-त्री, जाजसिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकग्रसुधातुवत् 4 ज्ञेयानि।
नञ्- पूर्वादस्माज्जसेः ‘नमिकम्पिस्म्यजस--’ 5 इति रप्रत्यये-- 6 अजस्रम् इति भवति।
अयं स्वभावात् क्रियासातत्ये वर्तते।
अस्य धातोः परस्मैप दित्वात् दिवादित्वाच्च जस्यन्-न्ती, जसिष्यन्-न्ती-ती इति शतरि रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(५९५)
02
=>
(४-दिवादिः-१२११। सक। सेट्। पर।)
03
=>
(श्लो। १८८-९)
04
=>
(४४०)
05
=>
(३-२-१६७)
06
=>
[[B। ‘अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया।’ शि। पा। १। ९।]]